"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.१० पृष्ठं ऋग्वेदः सूक्तं ४.१० प्रति स्थानान...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ४]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ४|मण्डल ४]]
| author = वामदेवो गौतमः
| translator =
| section = सूक्तं ४.१०
| previous = [[ऋग्वेद: सूक्तं ४.९|सूक्तं ४.९]]
| next = [[ऋग्वेद: सूक्तं ४.११|सूक्तं ४.११]]
| notes = दे. अग्निः। पदपङ्क्तिः, ४,६,७ उष्णिग्वा, ५ महापङ्क्तिः, ८ उष्णिक्
}}



<div class="verse">
<div class="verse">

०६:१४, २ अक्टोबर् २०१७ इत्यस्य संस्करणं

← सूक्तं ४.९ ऋग्वेदः - मण्डल ४
सूक्तं ४.१०
वामदेवो गौतमः
सूक्तं ४.११ →
दे. अग्निः। पदपङ्क्तिः, ४,६,७ उष्णिग्वा, ५ महापङ्क्तिः, ८ उष्णिक्


अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥१॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥२॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥३॥
आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्माः ॥४॥
तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥५॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥६॥
कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
इत्था यजमानादृतावः ॥७॥
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=123800" इत्यस्माद् प्रतिप्राप्तम्