"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १०.८९ पृष्ठं ऋग्वेदः सूक्तं १०.८९ प्रति स्थान... |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
| title = [[ऋग्वेदः मण्डल १०|ऋग्वेदः मण्डल १०]] |
|||
| author = रेणुर्वैश्वामित्रः |
|||
| translator = |
|||
| section = सूक्तं १०.८९ |
|||
| previous = [[ऋग्वेद: सूक्तं १०.८८|सूक्तं १०.८८]] |
|||
| next = [[ऋग्वेद: सूक्तं १०.९०|सूक्तं १०.९०]] |
|||
| notes = दे. इन्द्रः, ७ इन्द्रासोमौ। त्रिष्टुप् |
|||
}} |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}} |
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}} |
||
०६:१७, ३ सेप्टेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं १०.८८ | ऋग्वेदः मण्डल १० सूक्तं १०.८९ रेणुर्वैश्वामित्रः |
सूक्तं १०.९० → |
दे. इन्द्रः, ७ इन्द्रासोमौ। त्रिष्टुप् |
ऋग्वेदः सूक्तं १०.८९
इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥१॥ स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा । अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥२॥ समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् । वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥३॥ इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥४॥ आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥५॥ न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥६॥ जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् । बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥७॥ त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि । प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥८॥ प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति । न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥९॥ इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥१०॥ प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः । प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥११॥ प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः । अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥१२॥ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः । अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥१३॥ कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् । मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥१४॥ शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र । अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥१५॥ पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् । इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥१६॥ एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥१७॥ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१८॥