"ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ४६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८: पङ्क्तिः ८:
| notes =
| notes =
}}
}}
<poem><span style="font-size: 14pt; line-height:200%">
<poem><span style="font-size: 14pt; line-height:200%">नारायण उवाच ।।
पूजाविधानं स्तोत्रं च श्रूयतां मुनिपुंगव ।।
ध्यानं च सामवेदोक्तं देवीपूजाविधानकम् ।। १ ।।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।।
वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ।।२।।
महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् ।।
सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ।। ३ ।।
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् ।।
नैवेद्यैर्विविधैर्दीपैः पुष्पैर्धूपानुलेपनैः ।। ४ ।।
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः।।
मूलकल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ।।५।।
ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्तितः ।।
पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। ६ ।।
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।।
सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ।। ७ ।।
ब्रह्मन्नाषाढसंक्रान्त्यां गुडाशाखासु यत्नतः ।।
आवाह्य देवीं मासान्तं पूजयेद्यो हि भक्तितः ।। ८ ।।
पञ्चम्यां मानसाख्यायां देव्यै दद्याच्च यो बलिम् ।।
धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद्ध्रुवम् ।। ९ ।।
पूजाविधानं कथितं तदाख्यानं निशामय ।।
कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ।। 2.46.१० ।।
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि ।।
यान्यान्खादन्ति नागाश्च न ते जीवन्ति नारद ।। ११ ।।
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणाऽर्थितः ।।
वेदबीजानुसारेण चोपदेशेन वेधसः ।।१ २।।
मन्त्राधिष्ठातृदेवीं तां मानसां ससृजे ततः ।।
तपसा मनसा तेन मानसा सा बभूव ह ।। १३ ।।
कुमारी सा च संभूय चागमच्छङ्करालयम् ।।
भक्त्या सम्पूज्य कैलासे तुष्टुवे चन्द्रशेखरम् ।। १४ ।।
दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता ।।
आशुतोषो महेशश्च तां च तुष्टो बभूव ह ।। १५ ।।
महाज्ञानं ददौ तस्यै पाठयामास साम च ।।
कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ।। १६ ।।
लक्ष्मीमायाकामबीज ङेन्तं कृष्णपदं तथा ।।
ॐ श्रीं ह्रीं क्लीं कृष्णाय ।।
त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ।। १७ ।।
स्तवनं सर्वपूज्यं च ध्यानं भुवनपावनम् ।।
पुरश्चर्य्याक्रमं चापि वेदोक्तं सर्वसम्मतम् ।। १८ ।।
प्राप्य मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती ।।
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ।।१९।।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ।।
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ।। 2.46.२० ।।
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ।।
पूजां च कारयामास चकार च हरिः स्वयम् ।। २१ ।।
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ।।
वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ।। २२ ।।
प्रथमे पूजिता सा च कृष्णेन परमात्मना ।।
द्वितीये शङ्करेणैव कश्यपेन सुरेण च ।। २३ ।।
मनुना मुनिना चैव ह्यहिना मानवादिना ।।
बभूव पूजिता सा च त्रिषु लोकेषु सुश्रुता ।। २४ ।।
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ।।
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया ।। २५ ।।
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।।
सुष्वाप देव्या जघने वटमूले च पुष्करे ।। २६ ।।
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ।।
जगामास्तं दिनकरः सायंकाल उपस्थितः ।। २७ ।।
संचिन्त्य मनसा तत्र मनसा च पतिव्रता ।।
धर्म्मलोपभयेनैव चकारालोचनं सती ।। २८ ।।
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम्।।
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ।। २९ ।।
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।।
स सर्वदाऽशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ।। 2.46.३० ।।
वेदोक्तमिति संचिन्त्य बोधयामास तं मुनिम् ।।
स च बुद्ध्वा मुनिश्रेष्ठस्तां चुकोप भृशं मुनिः ।। ३१ ।।
जरत्कारुरुवाच ।।
कथं मे सुव्रते साध्वि निद्राभङ्गः कृतस्त्वया ।।
व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ।।३२।।
तपश्चानशनं चैव व्रतं दानादिकं च यत् ।।
भर्तुरप्रियकारिण्याः सर्वं भवति निष्फलम् ।। ३३ ।।
यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तया ।।
पतिव्रताव्रतार्थं च पतिरूपी हरिः स्वयम् ।। ३४ ।।
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्।।
सर्वं तपो व्रतं सर्वमुपवासादिकं च यत् ।। ३५ ।।
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ।।
तत्सर्वं स्वामिसेवायाः कलां नार्हन्ति षोडशीम् ।। ३६ ।।
सुपुण्ये भारते वर्षे पतिसेवा करोति या ।।
वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः पदम् ।। ३७ ।।
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ।।
असत्कुलप्रजाता या तत्फलं श्रूयतां सति ।।३८।।
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ।।
ततो भवति चाण्डाली पतिपुत्रविवर्जिता ।। ३९ ।।
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ।।
चकम्पे मनसा साध्वी भयेनोवा च तं पतिम् ।। 2.46.४० ।।
मनसोवाच ।।
सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ।।
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत ।। ४१ ।।
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।।
स व्रजेत्कालसूत्रं च स्वामिनश्च विशेषतः ।। ४२ ।।
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ।।
पपात भक्त्या भीता च रुरोद च पुनः पुनः ।। ४३ ।।
कुपितं च मुनिं दृष्ट्वा श्रीसूर्य्यं शप्तुमुद्यतम् ।।
तत्राजगाम भगवान्सन्ध्यया सह नारद ।। ४४ ।।
तत्रागत्य मुनिश्रेष्ठमवोचद्भास्करः स्वयम् ।।
विनयेन विनीतश्च तया सह यथोचितम् ।। ४५ ।।
श्रीसूर्य्य उवाच ।।
सूर्य्यास्तसमयं दृष्ट्वा धर्मलोपभयेन च ।।
त्वां बोधयामास विप्र नाहमस्तं गतस्तदा ।। ४६ ।।
क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने ।।
ब्राह्मणानां च हृदयं नवनीतसमं सदा ।।४७।।
तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ।।
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः ।। ४८ ।।
ब्रह्मणो वंशसम्भूतः प्रज्वलन्ब्रह्मतेजसा ।।
श्रीकृष्णं भावयेन्नित्यं ब्रह्म ज्योतिः सनातनम् ।। ४९ ।।
सूर्य्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ।।
सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।।2.46.५०।।
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ।।
रुदन्तीं शोकयुक्तां च हृदयेन विदूयता ।। ५१ ।।
सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ।।
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता ।। ५२ ।।
तत्राजगाम भगवान्गोपीशः शम्भुरेव च ।।
विधिश्च कश्यपश्चैव मनसा परिचिन्तयन् ।। ५३ ।।
स च दृष्ट्वाऽभीष्टदेवं निगुणे प्रकृतेः परम् ।।
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ।। ९४ ।।
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ।।
कथमागमनं त्वत्रेत्येवं प्रश्नं चकार सः ।। ५५ ।।
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम्।।
तमुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ।। ५६ ।।
यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ।।
कुरुष्वास्यां सुतोत्पत्तिं धर्मसंस्थापनाय वै ।। ५७ ।।
यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा ।।
जायाया च सुतोत्पत्तिं कृत्वा पश्चाद्भवेन्मुनिः ।।५८।।
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् ।।
स्रवेत्तपस्तत्पुण्यं च चालिन्यां च यथा जलम् ।।५९।।
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।।
चक्रे तन्नाभिसंस्पर्शं योगाद्वै मन्त्रपूर्वकम् ।। 2.46.६० ।।
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदाऽन्विताः ।।
मुदाऽन्विता च मनसा जरत्कारुर्मुदाऽन्वितः ।। ६१ ।।
मुनेः करस्पर्शमात्रात्सद्यो गर्भो बभूव ह।।
मनसा या मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् ।।६२।।
जरत्कारुरुवाच ।।
गर्भेणानेन मनसे तव पुत्रो भविष्यति।।
जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः।।६३।।
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।।
वरो वेदविदां चैव योगिनां ज्ञानिनां तथा।।६४।।
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ।।
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा ।। ६५ ।।
पतिव्रता सुशीला या सप्रिया प्रियवादिनी ।।
धर्मिष्ठा पुत्रमाता च कुलजा कुलपालिका ।। ६६ ।।
हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम् ।।
यो बन्धच्छित्स च पिता हरेर्वर्त्मप्रदर्शकः ।। ६७ ।।
सा गर्भधारिणी या च गर्भवासविमोचिनी ।।
विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ।। ६८ ।।
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ।।
आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ।। ६९ ।।
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।।
वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ।। 2.46.७० ।।
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् ।।
दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ।। ७१ ।।
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः ।।
विष्णुभक्तियुतं ज्ञानं यो ददाति स वै गुरुः ।। ७२ ।।
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् ।।
जननीगर्भजात्क्लेशाद्यमताडनजात्तथा ।। ७३ ।।
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः ।।
परमानन्दरूपं च कृष्णमार्गमनश्वरम् ।। ७४ ।।
न दर्शयेद्यः स कथं कीदृशो बान्धवो नृणाम् ।।
भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ।।
निर्मूलं च पुराकर्म भवेद्यत्सेवया ध्रुवम् ।। ७५ ।।
मया छलेन त्वं त्यक्ता दोषं मे क्षम्यतां प्रिये ।।
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते।। ७६ ।।
पुष्करे तपसे यामि गच्छ देवि यथासुखम् ।।
श्रीकृष्णचरणाम्भोजे ध्यानविच्छेदकातरः ।।७७।।
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिपथगामिनाम् ।।
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः ।। ७८ ।।
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ।।
सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ।। ७९ ।।
मनसोवाच ।।
दोषेणाहं त्वया त्यक्ता निद्राभङ्गेन ते प्रभो ।।
यत्र स्मरामि त्वां बन्धो तत्र मामागमिष्यसि।।2.46.८०।।
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परः ।।
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः ।।८१।।
पतिः पतिव्रतानां च शतपुत्राधिकः प्रियः ।।
सर्वस्माच्च प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः।।८२।।
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ।।
नेत्रे यथैकनेत्राणां तृषितानां यथा जले ।।८३।।
क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम्।।
यथा परस्वे चौराणां यथा जारे कुयोषिताम्।। ।। ८४ ।।
विदुषां च यथा शास्त्रे वणिज्ये वणिजां यथा ।।
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ।। ८५ ।।
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ।।
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः ।।८६ ।।
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ।।
साऽश्रुणा च मुनेः क्रोडं सिषेवे भेदकातरा ।।८७।।
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ।।
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ।। ८८ ।।
जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च ।।
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ।। ८९ ।।
पार्वती बोधयामास मनसां शोककर्शिताम् ।।
शिवश्चातीव बोधेन शिवेन च शिवालये।। 2.46.९० ।।
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे।।
नारायणांशं पुत्रं च ज्ञानिनां योगिनां गुरुम् ।। ९१ ।।
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ।।
स बभूव महायोगी योगिनां ज्ञानिनां गुरुः ।। ९२ ।।
जातकं कारयामास वाचयामास मंगलम् ।।
वेदांश्च पाठयामास शिवाय च शिवः शिशोः ।। ९३ ।।
रत्नत्रिकोटिलक्षं च ब्राह्मणेभ्यो ददौ शिवः ।।
पार्वती च गवां लक्षं रत्नानि विविधानि च ।। ९४ ।।
शम्भुश्च चतुरो वेदान्वेदांगानितरांस्तथा ।।
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ।। ९५ ।।
भक्तिरस्ति स्वकान्ते चाभीष्टे देवे हरौ गुरौ।।
यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च ।। ९६ ।।
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ।।
संप्राप्य च महामन्त्रं तपश्च परमात्मनः ।। ९७ ।।
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ।।
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् ।। ९८ ।।
शंकरं च नमस्कृत्य पुरः कृत्वा च बालकम् ।।
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ।।९९।।
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ।।
शतलक्षं च रत्नानां ब्राह्मणेभ्यो ददौ मुने ।। 2.46.१०० ।।
ब्राह्मणान्भोजयामास त्वसंख्याञ्छ्रेयसे शिशोः ।।
अदितिश्च दितिश्चान्या मुदं प्रापुः परं तथा ।। १०१ ।।
सा सपुत्रा च सुचिरं तस्थौ तातालये तदा ।।
तदीयं पुनराख्यानं वक्ष्ये त्वं तन्निशामय ।। १०२ ।।
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ।।
बभूव सहसा ब्रह्मन्दैवदोषेण कर्मणा ।। १०३ ।।
सप्ताहे समतीते तु तक्षकस्त्वां च दंक्ष्यति ।।
शशाप शृङ्गी कौशिक्या जलं संस्पृश्य चेति सः ।। १०४ ।।
राजा श्रुत्वा तत्प्रवृत्तिं गंगाद्वारं जगाम सः ।।
तत्र तस्थौ च सप्ताहं शुश्रुवे धर्मसंहिताम् ।। १०५ ।।
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ।।
धन्वन्तरिर्मोचयितुमपश्यद्गन्तुको नृपम् ।। १०६ ।।
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ।।
धन्वन्तरेर्मणिं श्रेष्ठं तक्षकः स्वेच्छया ददौ ।। १०७ ।।
स ययौ तं गृहीत्वा तु तुष्टसंहृष्ट मानसः ।।
अपश्यत्तक्षकस्तूर्णं नृपं मञ्चकसंस्थितम् ।।१ ०८ ।।
राजा जगाम वैकुण्ठं स्मारं स्मारं हरि गुरुम् ।।
संस्कारं कारयामास पितुर्वै जनमेजयः।।१ ०९।।
राजा चकार यज्ञं च सर्पसत्राभिधं मुने ।।
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ।।2.46.११०।।
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ।।
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ।। १११ ।।
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् ।।
तां तुष्टाव महेन्द्रश्च समक्षं भयकातरः ।।१ १२।।
तत्र आस्तीक आगत्य मातुर्यज्ञमथाज्ञया ।।
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं वरम्।। ।। ११३ ।।
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ।।
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा ।। ११४ ।।
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ।।
मनसां पूजयामासुस्तुष्टुवुश्च पृथक्पृथक् ।।१ १५।।
शक्रः संभृतसंभारो भक्तियुक्तः सदा शुचिः ।।
मनसां पूजयामास तुष्टाव परमादरात् ।। १ १६।।
उपचारः षोडशभिर्बलिं दत्त्वा प्रियं तदा ।।
प्रददौ परितुष्टश्च ब्रह्मविष्णुसुराज्ञया।। ।।१ १७।।
संपूज्य मनसादेवीं प्रययुः स्वालयं च ते ।।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। ११८ ।।
नारद उवाच ।।
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ।।
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।। ११९ ।।
नारायण उवाच ।।
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ।।
रत्नसिंहासने देवीं वासयामास भक्तितः ।। 2.46.१२० ।।
स्वर्गगङ्गाजलेनैव रत्नकुम्भ स्थितेन च ।।
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।। १२१ ।।
वाससी वासयामास वह्निशुद्धे मनोरमे ।।
सर्वांगे चन्दनं लिप्त्वा पाद्यार्घ्यं भक्तिसंयुतः ।। १२२ ।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।।
संपूज्य देवषट्कं च पूजयामास तां सतीम् ।। ।। १२३ ।।
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ।।
दशाक्षरेण मन्त्रेण ददौ सर्वान्यथोचितम् ।। १२४ ।।
उपचारान्षोडशकान्भक्तितो दुर्लभान्हरिः ।।
पूजयामास भक्त्या च ब्रह्मणा प्रेरितो मुदा ।। १२५ ।।
वाद्यं नानाप्रकारं च वादयामास तत्र वै ।।
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।। १२६ ।।
देवो विप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ।।
तुष्टाव साश्रुनेत्रश्च पुलकाञ्चित विग्रहः ।। ३२७ ।।
महेन्द्र उवाच ।।
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ।।
परात्परां च परमां नहि स्तोतुं क्षमो ऽधुना ।। १२८ ।।
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ।। १२९ ।।
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता।।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ।।
त्वं मया पूजिता साध्वि जननी च यथाऽदितिः ।। ।। 2.46.१३० ।।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ।।
त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ।। १३१ ।।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्द्धते ।।
नित्यं यद्यापि पूज्या त्वं भवेऽत्र जगदम्बिके ।। १३२ ।।
तथाऽपि तव पूजां वै वर्द्धयामि पुनः पुनः ।।
ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।।१३३।।
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ।।
पुत्रपौत्रादयस्तेषां वर्द्धन्ते च धनानि च ।। १३४ ।।
यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ।।
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।। ।। १३५ ।।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ।।
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला ।। १३६।।
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः ।।
तपसा तेजसा त्वां च मनसा ससृजे पिता ।।१३७।।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ।।
मनसा देवितुं शक्ता चात्मना सिद्धयोगिनी ।। १३८ ।।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ।।
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।। १३९ ।।
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ।।
सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।। 2.46.१४० ।।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ।।
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीं च ताम् ।। १४१ ।।
निर्जगाम स्वभवनं भूषावासपरिच्छदाम् ।।
पुत्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे ।।१४२।।
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः ।।
गोलोकात्सुरभी ब्रह्मंस्तत्रागत्य सुपूजिताम् ।। १४३ ।।
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ।।
ज्ञानस्य कथयामास स्वरूपं सर्वदुर्लभम् ।।
तदा देवैः पूजिता सा स्वर्गलोकं पुनर्ययौ ।।१४४।।
इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।।
तस्य नागभयं नास्ति तस्य वंशे भवेच्च यः ।। १४५ ।।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।।
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।।१४६।।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ।। १४७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने तदुत्पत्तिपूजास्तोत्रादिकथनं नाम षट्चत्वारिंशत्तमोऽध्यायः ।। ४६ ।।

</span></poem>
</span></poem>

०२:५२, २९ आगस्ट् २०१७ समयस्य संस्करणम्

← अध्यायः ४५ ब्रह्मवैवर्तपुराणम्
अध्यायः ४६
वेदव्यासः
अध्यायः ४७ →