"रामायणम्/अयोध्याकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः
< रामायणम् | अयोध्याकाण्डम्
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १३: | पङ्क्तिः १३: | ||
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् । |
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् । |
||
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥ |
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥ |
||
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । |
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । |
||
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥ |
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥ |
||
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् । |
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् । |
||
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥ |
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥ |
||
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् । |
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् । |
||
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥ |
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥ |
२१:२०, ८ अक्टोबर् २००५ इत्यस्य संस्करणं
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥
जञातिदासी यतो जाता कैकेय्या तु सहोषिता । प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥ सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् । अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् । वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥ माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् । शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥ संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् । प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥ प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् । अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥ प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् । अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती । राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥ अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे । कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥ विदीर्यमाणा हर्षेण धात्री तु परया मुदा । आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् । राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता । कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥ सा दह्यमाना कोपेन मनथरा पापदर्शिनी । शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥ उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते । उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥ अनिष्टे सुभगाकारे सौभग्येन विकत्थसे । चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः । कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥ कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे । विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् । उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी । विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥ अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् । रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता । दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥ तव दुःखेन कैकेयि मम दुःखं महद्भवेत् । त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥ नराधिपकुले जाता महिषी त्वं महीपतेः । उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥ धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः । शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥ उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् । अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु । काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया । आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः । राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥ पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते । रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव । त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥ मन्थराया वचः श्रुत्वा शयनात्स शुभानना । उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥ अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता । एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा । कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् । एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥ रामे वा भरते वाहं विशेषं नोपलक्षये । तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥ न मे परं किञ्चि दितस्त्वयापि न । प्रियं प्रियार्हे सुवचं वचो वरम् । तथा ह्यवोचस्त्वमतः प्रियोत्तरं । वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥ ॥ इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥