"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः
(लघु) ६ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ७.५७ पृष्ठं ऋग्वेदः सूक्तं ७.५७ प्रति स्थानान... |
(भेदः नास्ति)
|
२१:३२, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ७.५७
मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति । ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥ निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म । अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥२॥ नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः । आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥३॥ ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम । मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥४॥ कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥५॥ उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि । ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥६॥ आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात । ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥७॥