"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः
(लघु) ७ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.५३ पृष्ठं ऋग्वेदः सूक्तं ४.५३ प्रति स्थानान... |
(भेदः नास्ति)
|
२१:१२, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.५३
तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः । छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥१॥ दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥२॥ आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥३॥ अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते । प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥४॥ त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना । तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥५॥ बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी । स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥६॥ आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् । स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥७॥ *[[ऋग्वेद:]]