"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः
(लघु) ७ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.७ पृष्ठं ऋग्वेदः सूक्तं ४.७ प्रति स्थानान्त... |
||
(भेदः नास्ति)
|
२०:५३, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.७
अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥१॥ अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् । अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥२॥ ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः । विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥३॥ आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि । आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥४॥ तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे । रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥५॥ तं शश्वतीषु मातृषु वन आ वीतमश्रितम् । चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥६॥ ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः । महाँ अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥७॥ वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् । दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥८॥ कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् । यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥९॥ सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः । वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥१०॥ तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥११॥