"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.१२८ पृष्ठं ऋग्वेदः सूक्तं १.१२८ प्रति स्थान... |
(भेदः नास्ति)
|
२१:००, २५ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं १.१२८
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् । विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते । अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥१॥ तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभृत्यया कृपा न जूर्यति । यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥२॥ एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् । शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः । सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥३॥ स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति । क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे । यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥४॥ क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि ष्मा दानमिन्वति वसूनां च मज्मना । स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥५॥ विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् । विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे । विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥६॥ स मानुषे वृजने शंतमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कृतानि पत्यते । स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥७॥ अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम् । देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥८॥