"कथासरित्सागरः/लम्बकः ३/तरङ्गः २" इत्यस्य संस्करणे भेदः
<poem><span style="font-size: 14pt; line-height:200%">ततः पूर्वोक्तया युक्त्या... नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
<poem><span style="font-size: 14pt; line-height:200%">ततः पूर्वोक्तया युक्त्या |
<poem><span style="font-size: 14pt; line-height:200%">ततः पूर्वोक्तया युक्त्या वत्सराजं सवल्लेभम् । |
||
यौगन्धरायणाद्यास्ते निन्युर्लावाणकं प्रति ।। १ |
|||
स राजा प्राप तं देशं सैन्यघोषेण मूर्च्छता । |
स राजा प्राप तं देशं सैन्यघोषेण मूर्च्छता । |
||
अभिवाञ्छितसंसिद्धिं वदन्तमिव मन्त्रिणाम् ।। २ |
|||
तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् । अवस्कन्दभयाशङ्की चकम्पे मगधेश्वरः ।। ३ |
तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् । |
||
अवस्कन्दभयाशङ्की चकम्पे मगधेश्वरः ।। ३ |
|||
यौगन्धरायणोपान्तं |
यौगन्धरायणोपान्तं सद्बुद्धिर्विससर्ज च । |
||
स दूतं सोऽपि सन्मन्त्री कार्यज्ञोऽभिननन्द तम् ।। ४ |
|||
वत्सेश्वरोऽपि |
वत्सेश्वरोऽपि निवसंस्तस्मिन्देशे दवीयसीम् । |
||
आखेटकार्थमटवीमटति स्म दिने दिने ।। ५ |
|||
एकस्मिन्दिवसे तस्मिन्नाजन्याखेटकं गते । कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ।। ६ |
एकस्मिन्दिवसे तस्मिन्नाजन्याखेटकं गते । |
||
कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ।। ६ |
|||
यौगन्धरायणो धीमान्सरुमण्वद्वसन्तकः । देव्या वासवदत्ताया विजने निकटं ययौ ।। ७ |
यौगन्धरायणो धीमान्सरुमण्वद्वसन्तकः । |
||
देव्या वासवदत्ताया विजने निकटं ययौ ।। ७ |
|||
तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः । प्रह्वामभ्यर्थयामास भ्रात्रा पूर्वं प्रबोधिताम् ।। ८ |
तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः । |
||
प्रह्वामभ्यर्थयामास भ्रात्रा पूर्वं प्रबोधिताम् ।। ८ |
|||
सानुमेने च |
सानुमेने च विरहक्लेशदायि तदात्मनः । |
||
किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ।। ९ |
|||
ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः । स चकार कृती दत्त्वा योगं रूपविवर्तनम् ।। १० |
ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः । |
||
स चकार कृती दत्त्वा योगं रूपविवर्तनम् ।। १० |
|||
वसन्तकं च कृतवान्काणं बटुकरूपिणम् । |
|||
आत्मना च तथैवाभूत्स्थविरब्राह्मणाकृतिः ।। ११ |
|||
तथारूपां गृहीत्वाथ तां देवीं स महामतिः । वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ।। १२ |
तथारूपां गृहीत्वाथ तां देवीं स महामतिः । |
||
वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ।। १२ |
|||
तथा वासवदत्ता सा स्वगृहान्निर्गता सती । अगाच्चित्तेन भर्तारं पन्थानं वपुषा पुनः ।। १३ |
तथा वासवदत्ता सा स्वगृहान्निर्गता सती । |
||
अगाच्चित्तेन भर्तारं पन्थानं वपुषा पुनः ।। १३ |
|||
तन्मन्दिरमथादीप्य दहनेन रुमण्वता । हा हा वसन्तकयुता देवी दग्धेत्यघोष्यत ।। १४ |
तन्मन्दिरमथादीप्य दहनेन रुमण्वता । |
||
हा हा वसन्तकयुता देवी दग्धेत्यघोष्यत ।। १४ |
|||
तथा च दहनाक्रन्दौ समं तत्रोदतिष्ठताम् । शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ।। १५ |
तथा च दहनाक्रन्दौ समं तत्रोदतिष्ठताम् । |
||
शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ।। १५ |
|||
यौगन्धरायणः सोऽथ सह वासवदत्तया । वसन्तकेन च प्राप मगधाधिपतेः पुरम् ।। १६ |
यौगन्धरायणः सोऽथ सह वासवदत्तया । |
||
वसन्तकेन च प्राप मगधाधिपतेः पुरम् ।। १६ |
|||
तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ । पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः । १७ |
तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ । |
||
पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः । १७ |
|||
पद्मावत्याश्च दृष्ट्वैव ब्राह्मणीरूपधारिणीम् । देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ।। १८ |
पद्मावत्याश्च दृष्ट्वैव ब्राह्मणीरूपधारिणीम् । |
||
देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ।। १८ |
|||
सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम् । आनाययद्राजकन्या |
सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम् । |
||
आनाययद्राजकन्या ब्राह्मणाकृतिमन्तिकम् ।। १९ |
|||
पप्रच्छ च महाब्रह्मन्का ते बाला भवत्यसौ । किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ।। २० |
पप्रच्छ च महाब्रह्मन्का ते बाला भवत्यसौ । |
||
किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ।। २० |
|||
इयमावन्तिका नाम राजपुत्री सुता मम । अस्याश्च भर्ता व्यसनी त्यक्त्वेमां कुत्रचिद्गतः ।। २१ |
इयमावन्तिका नाम राजपुत्री सुता मम । |
||
अस्याश्च भर्ता व्यसनी त्यक्त्वेमां कुत्रचिद्गतः ।। २१ |
|||
तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि । यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ।। २१ |
तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि । |
||
यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ।। २१ |
|||
भ्राता काणबटुश्चायमिहैवास्याः समीपगा । तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ।। २३ |
भ्राता काणबटुश्चायमिहैवास्याः समीपगा । |
||
तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ।। २३ |
|||
इत्युक्त्वा राजतनयामङ्गीकृतवचास्तया । |
इत्युक्त्वा राजतनयामङ्गीकृतवचास्तया । |
||
तामामन्त्र्य स सन्मन्त्री द्रुतं लावाणकं ययौ ।। २४ |
|||
ततो वासवदत्तां तां स्थितामावन्तिकाख्यया । |
ततो वासवदत्तां तां स्थितामावन्तिकाख्यया । |
||
वसन्तकं चानुगतं तं काणबटुरूपिणम् ।। २५ |
|||
सहादाय कृतोदारसत्कारा स्नेहशालिनी । पद्मावती स्वभवनं विवेश बहुकौतुकम् ।। २६ |
सहादाय कृतोदारसत्कारा स्नेहशालिनी । |
||
पद्मावती स्वभवनं विवेश बहुकौतुकम् ।। २६ |
|||
तत्र वासवदत्ता च प्रविष्टा चित्रभित्तिषु । पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ।। २७ |
तत्र वासवदत्ता च प्रविष्टा चित्रभित्तिषु । |
||
पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ।। २७ |
|||
आकृत्या सौकुमार्येण शयनासनसौष्ठवैः । |
|||
53 |
|||
शरीरसौरभेणापि नीलोत्पलसुगन्धिना ।। २८ |
|||
तामुत्तमां विनिश्चित्य |
तामुत्तमां विनिश्चित्य महार्हैरात्मनः समैः । |
||
पद्मावती यथाकाममुपचारैरुपाचरत् ।। २९ |
|||
अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता । गूढा किं द्रौपदी नासीद्विराटवसताविति ।। ३० |
अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता । |
||
गूढा किं द्रौपदी नासीद्विराटवसताविति ।। ३० |
|||
अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः । अम्लानमालातिलकौ वत्सेशात्पूर्वशिक्षितौ ।। ३१ |
अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः । |
||
अम्लानमालातिलकौ वत्सेशात्पूर्वशिक्षितौ ।। ३१ |
|||
तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः । पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ।। ३२ |
तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः । |
||
पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ।। ३२ |
|||
ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता । |
ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता । |
||
काचिदावन्तिका नाम तया कृतमिदं मम ।। ३३ |
|||
तच्छ्रुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा । मानुषी |
तच्छ्रुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा । |
||
मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ।। ३४ |
|||
देवता मुनयश्चापि वञ्चनार्थं सतां गृहे । तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां शृणु ।। ३५ |
देवता मुनयश्चापि वञ्चनार्थं सतां गृहे । |
||
तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां शृणु ।। ३५ |
|||
बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि । आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ।। ३६ |
बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि । |
||
आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ।। ३६ |
|||
स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् । आदिदेश मुनिं सापि यत्नेनोपचचार तम् ।। ३७ |
स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् । |
||
आदिदेश मुनिं सापि यत्नेनोपचचार तम् ।। ३७ |
|||
एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत । परमान्नं पचेः शीघ्रं स्नात्वा यावदुपैम्यहम् ।। ३८ |
एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत । |
||
परमान्नं पचेः शीघ्रं स्नात्वा यावदुपैम्यहम् ।। ३८ |
|||
इत्युक्त्वा त्वरितं स्नात्वा स चर्षिर्भोक्तुमाययौ । कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ।। ३९ |
इत्युक्त्वा त्वरितं स्नात्वा स चर्षिर्भोक्तुमाययौ । |
||
कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ।। ३९ |
|||
अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः । मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ।। ४० |
अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः । |
||
मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ।। ४० |
|||
सापि पृष्ठेन तां पात्रीं दधौ लब्धाशया मुनेः । ततः स बुभुजे स्वेच्छं कुन्तीपृष्ठं त्वदह्यत ।। ४१ |
सापि पृष्ठेन तां पात्रीं दधौ लब्धाशया मुनेः । |
||
ततः स बुभुजे स्वेच्छं कुन्तीपृष्ठं त्वदह्यत ।। ४१ |
|||
दह्यमानापि गाढं सा यत्तस्थावविकारिणी । तेन तुष्टो |
दह्यमानापि गाढं सा यत्तस्थावविकारिणी । |
||
तेन तुष्टो मुनिर्भुक्त्वा ददौ तस्यास्ततो वरम् ।। ४२ |
|||
इत्यासीत्स मुनिस्तत्र तदेषावन्तिकापि ते । तद्वदेव स्थिता कापि तत्त्वमाराधयेरिमाम् ।। ४३ |
इत्यासीत्स मुनिस्तत्र तदेषावन्तिकापि ते । |
||
तद्वदेव स्थिता कापि तत्त्वमाराधयेरिमाम् ।। ४३ |
|||
इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम् । तत्र वासवदत्तां तां सुतरां बह्वमन्यत ।। ४४ |
इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम् । |
||
तत्र वासवदत्तां तां सुतरां बह्वमन्यत ।। ४४ |
|||
सापि वासवदत्तात्र निजनाथविनाकृता । तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ।। ४५५ |
सापि वासवदत्तात्र निजनाथविनाकृता । |
||
तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ।। ४५५ |
|||
वसन्तकविकाराश्च ते |
वसन्तकविकाराश्च ते ते बालोचिता मुहुः । |
||
मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ।। ४६ |
|||
अत्रान्तरेऽतिदूरासु भ्रान्त्वाखेटकभूमिषु । वत्सराजश्चिरादागात्सायं लावाणकं पुनः ।। ४७ |
अत्रान्तरेऽतिदूरासु भ्रान्त्वाखेटकभूमिषु । |
||
वत्सराजश्चिरादागात्सायं लावाणकं पुनः ।। ४७ |
|||
भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना । देवीं दग्धां च शुश्राव |
भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना । |
||
देवीं दग्धां च शुश्राव मन्त्त्रिभ्यः सवसन्तकाम् ।। ४८ |
|||
श्रुत्वैव चापतद्भूमौ मोहेन हृतचेतनः । |
श्रुत्वैव चापतद्भूमौ मोहेन हृतचेतनः । |
||
तद्दुःखानुभवक्लेशमपाकर्तुमिवेच्छता ।। ४९ |
|||
क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा । आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ।। ५० |
|||
क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा । |
|||
विलपन्नथ दुःखार्तो देहत्यागैकसंमुखः । क्षणान्तरे स नृपतिः संस्मृत्यैतदचिन्तयत् ।। ५१ |
|||
आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ।। ५० |
|||
विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति । एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ।। ५२ |
|||
विलपन्नथ दुःखार्तो देहत्यागैकसंमुखः । |
|||
कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् । गोपालकस्य चैतस्य शोकः स्वल्प इवेक्ष्यते ।। ५३ |
|||
क्षणान्तरे स नृपतिः संस्मृत्यैतदचिन्तयत् ।। ५१ |
|||
यौगन्धरायणादीनां न चैषामतिदुःखिता । दृश्यते तेन जाने सा देवी जीवेत्कथंचन ।। ५४ |
|||
विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति । |
|||
इयं किमपि नीतिस्तु प्रत्युक्ता मस्त्रिभिर्भवेत् । अतो मम भवेज्जातु तया देव्या समागमः ।। ५५ |
|||
एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ।। ५२ |
|||
तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः । निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ।। ५६ |
|||
कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् । |
|||
गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् । प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ।। ५७ |
|||
गोपालकस्य चैतस्य शोकः स्वल्प इवेक्ष्यते ।। ५३ |
|||
एवं गते स्ववृत्तान्ते लावाणकगतैस्तदा । गत्वा मगधराजाय चारैः सर्वं निवेदितम् ।। ५८ |
|||
यौगन्धरायणादीनां न चैषामतिदुःखिता । |
|||
स तदुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् । दातुं पद्मावतीमैच्छत्पूर्वं तन्मन्त्रिमार्गिताम् ।। ५९ |
|||
दृश्यते तेन जाने सा देवी जीवेत्कथंचन ।। ५४ |
|||
ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः । यौगन्धरायणायापि संदिदेश यथेप्सितम् ।। ६० |
|||
इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् । |
|||
यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् । प्रच्छादितैतदर्थं स्याद्देवी जात्विति चिन्तयम् ।। ६१ |
|||
अतो मम भवेज्जातु तया देव्या समागमः ।। ५५ |
|||
ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः । तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ।। ६२ |
|||
तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः । |
|||
त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने । पद्मावतीविवाहाय वत्सेशोऽत्रागमिष्यति ।। ६३ |
|||
निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ।। ५६ |
|||
शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति । इति चास्मै महामन्त्री संदिदेश स भूभृते ।। ६४ |
|||
गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् । |
|||
प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् । ततो मगधराजाय स चाप्यभिननन्द तम् ।। ६५ |
|||
प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ।। ५७ |
|||
ततः स दुहितृस्नेहनिक्त्येच्छाविभवोचितम् । विवाहोरसवसंभारं चकार मगधेश्वरः ।। ६६ |
|||
एवं गते स्ववृत्तान्ते लावाणकगतैस्तदा । |
|||
कथा० |
|||
गत्वा मगधराजाय चारैः सर्वं निवेदितम् ।। ५८ |
|||
54 |
|||
स तद्बुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् । |
|||
सा चार्भाष्टवरमुत्या मुदं पद्मावती ययौ । प्राप वासवदत्ता च तद्वार्ताकर्णनाच्छुचम् ।। ६७ |
|||
दातुं पद्मावतीमैच्छत्पूर्वं तन्मन्त्रिमार्गिताम् ।। ५९ |
|||
सा वार्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी । प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् ।। ६८ |
|||
ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः । |
|||
इत्थं मित्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि । वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ।। ६९ |
|||
यौगन्धरायणायापि संदिदेश यथेप्सितम् ।। ६० |
|||
अथासन्नविवाहायाः पद्मावत्या मनस्विनी । अम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ।। ७० |
|||
यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् । |
|||
ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि । ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ।। ७१ |
|||
प्रच्छादितैतदर्थं स्याद्देवी जात्विति चिन्तयन् ।। ६१ |
|||
मनसापि तदुऽद्योगं विरही स कथं स्पृशेत् । देवीं लभेय तामेवमित्याशा न भवेद्यदि ।। ७२ |
|||
ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः । |
|||
प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः । प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ।। ७३ |
|||
तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ।। ६२ |
|||
विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । समन्तात्पौरलोकस्य मानसं च महोत्सवः ।। ७४ |
|||
त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने । |
|||
विरहक्षामवपुषं मनःसंमोहदायिनम् । ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ।। ४५५ |
|||
पद्मावतीविवाहाय वत्सेशोऽत्रागमिष्यति ।। ६३ |
|||
प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् । सनाथं पतिवत्नीभिः कौतुकागारमाययौ ।। ७६ |
|||
शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति । |
|||
तन्न पद्मावतीमन्तर्ददर्श कृतकौतुकाम् । स राजा पूर्णवकेन्दुजितपूर्णेन्दुमण्डलाम् ।। ७७ |
|||
इति चास्मै महामन्त्री संदिदेश स भूभृते ।। ६४ |
|||
तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ । एतौ कभ्रतोऽस्या इत्येवं विममर्श स भूपतिः ।। ७८ |
|||
प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् । |
|||
ततः स वेदीमारुह्य तस्या जग्राह यत्करम् । तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ।। ७९ |
|||
ततो मगधराजाय स चाप्यभिननन्द तम् ।। ६५ |
|||
प्रियवासवदत्तोऽयमिदं शक्रोति नेक्षितुम् । इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ।। ८० |
|||
ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् । |
|||
अग्निप्रदक्षिणे ताम्रं तदा पद्मावतीमुखम् । विज्ञातभर्त्रभिप्रायं कोपाकुलमिवाबभौ ।। ८१ |
|||
विवाहोत्सवसंभारं चकार मगधेश्वरः ।। ६६ |
|||
मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो वधूम् । न तु वासवदत्तां तां तत्याज हृदयात्क्षणम् ।। ८२ |
|||
सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ । |
|||
ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः । निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा ।। ८३ |
|||
प्राप वासवदत्ता च तद्वार्ताकर्णनाच्छुचम् ।। ६७ |
|||
साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः । अद्रोहप्रत्ययं राज्ञो मगधेशमकारयत् ।। ८४ |
|||
सा वार्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी । |
|||
प्रदत्तवस्त्राभरणः प्रगीतवरचारणः । प्रनृत्तवरनारीकः प्रससार महोत्सवः ।। ८५ |
|||
प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् ।। ६८ |
|||
उदयापेक्षिणी पत्युः सुप्तेवालक्षितस्थिता । तदा वासवदत्ताभूद्विवा कान्तिरिवैन्दवी ।। ८६ |
|||
इत्थं मित्त्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि । |
|||
अन्तःपुखपायाते राज्ञि वत्सेश्वरे ततः । देवीसंदर्शनाशङ्की कृती यौगन्धरायणः ।। ८७ |
|||
वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ।। ६९ |
|||
मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् । अद्यैव नाथ वत्सेशः प्रयाति त्वद्गुहादिति ।। ८८ |
|||
अथासन्नविवाहायाः पद्मावत्या मनस्विनी । |
|||
थेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः । व्यजिज्ञपद्वत्सराजं सोऽपि तच्छ्रदधे तथा ।। ८९ |
|||
अम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ।। ७० |
|||
थोच्चचाल वत्सेशो भुक्तपीतपरिच्छदः । मन्त्रिभिः सममादाय वधूं पद्मावतीं ततः ।। ९० |
|||
ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि । |
|||
पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम् । तयैव च समादिष्टैस्तन्महत्तरकैः सह ।। ९१ |
|||
ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ।। ७१ |
|||
ागाद्वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः । कृतरूपविवर्तं तं पुरस्कृत्य वसन्तकम् ।। ९२ |
|||
मनसापि तदुद्योगं विरही स कथं स्पृशेत् । |
|||
माल्लावाणकं प्राप्य बत्सेशो वसतिं निजाम् । प्रविवेश समं वध्वा देवीचित्तस्तु केवलः ।। |
|||
देवीं लभेय तामेवमित्याशा न भवेद्यदि ।। ७२ |
|||
एत्य वासवदत्तापि सा गोपालकमन्दिरम् । विवेशाथ निशीथे च परिस्याप्य महत्तरान् ।। ९४ |
|||
प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः । |
|||
तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम् । क्कठे जग्राह रुदती बाष्पव्याकुललोचनम् ।। ९५ |
|||
प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ।। ७३ |
|||
तत्क्षणे स्थितसंविच्च तत्र यौगन्धरायणः । आययौ सरुमण्वत्कस्तया देव्या कृतादरः ।। ९६ |
|||
विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् । |
|||
सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपोहति । तावत्पद्मावतीपार्श्व प्रययुस्ते महत्तराः ।। ९७ |
|||
समन्तात्पौरलोकस्य मानसं च महोत्सवः ।। ७४ |
|||
आगतावन्तिका देवि किमप्यस्मान्विहाय तु । प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ।। ९८ |
|||
विरहक्षामवपुषं मनःसंमोहदायिनम् । |
|||
इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः । वत्सेश्वराग्रे साशङ्का तानेव प्रत्यभाषत ।। १९ |
|||
ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ।। ४५५ |
|||
गच्छतावन्तिकां ब्रूथ निक्षेपस्त्वं हि मे स्थिता । तदत्र किं ते यत्राहं तथैवागम्यतामिति ।। १०० |
|||
प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् । |
|||
तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः । पप्रच्छ मालातिलकौ केनेमौ ते कृताविति ।। १०१ |
|||
सनाथं पतिवत्नीभिः कौतुकागारमाययौ ।। ७६ |
|||
सावोचदथ मद्गेहे न्यस्ता विप्रेण केनचित् । आवन्तिकाभिधा यैषा तस्याः शिल्पभिद महत् ।। १०२ |
|||
तत्र पद्मावतीमन्तर्ददर्श कृतकौतुकाम् । |
|||
तच्छ्रुत्वैव च बत्सेशो गोपालगृहमाययौ । नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ।। १०३ |
|||
स राजा पूर्णवक्त्रेन्दुजितपूर्णेन्दुमण्डलाम् ।। ७७ |
|||
प्रविवेश च गत्वा तद्वारस्थितमहत्तरम् । अन्तस्थदेवीगोपालमन्त्रिद्वयवस्ततकम् ।। १०४ |
|||
तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ । |
|||
तत्र वासवदत्तां तां ददर्श प्रोषितागताम् । उपप्लवविनिर्मुक्तां मूर्ति चान्द्रमसीमिइव ।। १५ |
|||
एतौ कुतोऽस्या इत्येवं विममर्श स भूपतिः ।। ७८ |
|||
55 |
|||
ततः स वेदीमारुह्य तस्या जग्राह यत्करम् । |
|||
पपाताथ महीपृष्ठे स शोकविषविह्वलः । कम्पो वासवदत्ताया हृदये तूदपद्यत ।। १०६ |
|||
तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ।। ७९ |
|||
ततः साप्यपतद्भूमौ गात्रैर्विरहपाण्डुरैः । विललाप च निन्दन्ती तदाचरितमात्मनः ।। १०७ |
|||
प्रियवासवदत्तोऽयमिदं शक्नोति नेक्षितुम् । |
|||
अथ तौ दंपती शोकदीनौ रुरुदतुस्तथा । यौगन्धरायणोऽप्यासीद्वाष्पधौतमुखो यथा ।। १०८ |
|||
इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ।। ८० |
|||
तथाविधं च तच्छ्रुत्वा काले कोलाहलं तदा । पद्मावत्यपि तत्रैव साकुला तमुपाययौ ।। १०९ |
|||
अग्निप्रदक्षिणे ताम्रं तदा पद्मावतीमुखम् । |
|||
क्रमादवगतार्था च राजवासबदत्तयोः । तुल्यावस्यैव साप्यासीत्स्निग्धमुग्धा हि सत्स्त्रियः ।। ११० |
|||
विज्ञातभर्त्रभिप्रायं कोपाकुलमिवाबभौ ।। ८१ |
|||
किं जीवितेन मे कार्यं भर्तृदुःखप्रदायिना । इति वासवदत्ता च जगाद रुदती मुहुः ।। १११ |
|||
मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो वधूम् । |
|||
मगधेशसुतालाभात्तव साम्राज्यकाङ्ग्रिणा । कृतमेतन्मया देव देव्या दोषो न कश्चन ।। ११२ |
|||
न तु वासवदत्तां तां तत्याज हृदयात्क्षणम् ।। ८२ |
|||
इयं त्वस्याः सपत्न्येव प्रवासे शीलसाक्षिणी । इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ।। ११३ |
|||
ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः । |
|||
अहमत्र विशाम्यग्नावस्याः शुद्धिप्रकाशने । इति पद्मावती तत्र जगादामत्सराशया ।। ११४ |
|||
निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा ।। ८३ |
|||
अहमेवापराध्यामि यत्कृते सुमहानयम् । सोढो देव्यापि हि क्लेश इति राजाप्यभाषत ।। ११ त्र्यं |
|||
साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः । |
|||
अग्निप्रवेशः कार्यो मे राज्ञो हृदयशुद्धये । इति वासवदत्ता च बभाषे बद्धनिश्चया ।। ११६ |
|||
अद्रोहप्रत्ययं राज्ञो मगधेशमकारयत् ।। ८४ |
|||
सतः स कृतिनां धुर्यो धीमान्यौगन्धरायणः । आचम्य प्राङ्मुखः शुद्ध इति वाचमुदैरयत् ।। ११७ |
|||
प्रदत्तवस्त्राभरणः प्रगीतवरचारणः । |
|||
यद्यहं हितकृद्राज्ञो देवी शुद्धिमती यदि । ब्रूत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ।। ११८ |
|||
प्रनृत्तवरनारीकः प्रससार महोत्सवः ।। ८५ |
|||
इत्युक्त्वा विरते तस्मिन्दिव्या वागुदभूदइयम् । धन्यस्त्वं नृपते यस्य मन्त्री यौगन्धरायणः ।। ११९ |
|||
उदयापेक्षिणी पत्युः सुप्तेवालक्षितस्थिता । |
|||
यस्य वासवदत्ता च भार्या प्राग्जन्मदेवता । न दोषः कश्चिदेतस्या इत्युक्त्वा वागुपारमत् ।। १२० |
|||
तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ।। ८६ |
|||
अन्तःपुरमुपायाते राज्ञि वत्सेश्वरे ततः । |
|||
देवीसंदर्शनाशङ्की कृती यौगन्धरायणः ।। ८७ |
|||
मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् । |
|||
अद्यैव नाथ वत्सेशः प्रयाति त्वद्गृहादिति ।। ८८ |
|||
तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः । |
|||
व्यजिज्ञपद्वत्सराजं सोऽपि तच्छ्रद्दधे तथा ।। ८९ |
|||
अथोच्चचाल वत्सेशो भुक्तपीतपरिच्छदः । |
|||
मन्त्रिभिः सममादाय वधूं पद्मावतीं ततः ।। ९० |
|||
पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम् । |
|||
तयैव च समादिष्टैस्तन्महत्तरकैः सह ।। ९१ |
|||
आगाद्वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः । |
|||
कृतरूपविवर्तं तं पुरस्कृत्य वसन्तकम् ।। ९२ |
|||
क्रमाल्लावाणकं प्राप्य वत्सेशो वसतिं निजाम् । |
|||
प्रविवेश समं वध्वा देवीचित्तस्तु केवलः ।। |
|||
एत्य वासवदत्तापि सा गोपालकमन्दिरम् । |
|||
विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ।। ९४ |
|||
तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम् । |
|||
कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ।। ९५ |
|||
तत्क्षणे स्थितसंविच्च तत्र यौगन्धरायणः । |
|||
आययौ सरुमण्वत्कस्तया देव्या कृतादरः ।। ९६ |
|||
सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपोहति । |
|||
तावत्पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ।। ९७ |
|||
आगतावन्तिका देवि किमप्यस्मान्विहाय तु । |
|||
प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ।। ९८ |
|||
इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः । |
|||
वत्सेश्वराग्रे साशङ्का तानेव प्रत्यभाषत ।। ९९ |
|||
गच्छतावन्तिकां ब्रूथ निक्षेपस्त्वं हि मे स्थिता । |
|||
तदत्र किं ते यत्राहं तथैवागम्यतामिति ।। १०० |
|||
तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः । |
|||
पप्रच्छ मालातिलकौ केनेमौ ते कृताविति ।। १०१ |
|||
सावोचदथ मद्गेहे न्यस्ता विप्रेण केनचित् । |
|||
आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ।। १०२ |
|||
तच्छ्रुत्वैव च वत्सेशो गोपालगृहमाययौ । |
|||
नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ।। १०३ |
|||
प्रविवेश च गत्वा तद्द्वारस्थितमहत्तरम् । |
|||
अन्तस्थदेवीगोपालमन्त्रिद्वयवसन्तकम् ।। १०४ |
|||
तत्र वासवदत्तां तां ददर्श प्रोषितागताम् । |
|||
उपप्लवविनिर्मुक्तां मूर्तिं चान्द्रमसीमिव ।। १५ |
|||
पपाताथ महीपृष्ठे स शोकविषविह्वलः । |
|||
कम्पो वासवदत्ताया हृदये तूदपद्यत ।। १०६ |
|||
ततः साप्यपतद्भूमौ गात्रैर्विरहपाण्डुरैः । |
|||
विललाप च निन्दन्ती तदाचरितमात्मनः ।। १०७ |
|||
अथ तौ दंपती शोकदीनौ रुरुदतुस्तथा । |
|||
यौगन्धरायणोऽप्यासीद्वाष्पधौतमुखो यथा ।। १०८ |
|||
तथाविधं च तच्छ्रुत्वा काले कोलाहलं तदा । |
|||
पद्मावत्यपि तत्रैव साकुला तमुपाययौ ।। १०९ |
|||
क्रमादवगतार्था च राजवासवदत्तयोः । |
|||
तुल्यावस्थैव साप्यासीत्स्निग्धमुग्धा हि सत्स्त्रियः ।। ११० |
|||
किं जीवितेन मे कार्यं भर्तृदुःखप्रदायिना । |
|||
इति वासवदत्ता च जगाद रुदती मुहुः ।। १११ |
|||
मगधेशसुतालाभात्तव साम्राज्यकाङ्क्षिणा । |
|||
कृतमेतन्मया देव देव्या दोषो न कश्चन ।। ११२ |
|||
इयं त्वस्याः सपत्न्येव प्रवासे शीलसाक्षिणी । |
|||
इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ।। ११३ |
|||
अहमत्र विशाम्यग्नावस्याः शुद्धिप्रकाशने । |
|||
इति पद्मावती तत्र जगादामत्सराशया ।। ११४ |
|||
अहमेवापराध्यामि यत्कृते सुमहानयम् । |
|||
सोढो देव्यापि हि क्लेश इति राजाप्यभाषत ।। ११५ |
|||
अग्निप्रवेशः कार्यो मे राज्ञो हृदयशुद्धये । |
|||
इति वासवदत्ता च बभाषे बद्धनिश्चया ।। ११६ |
|||
ततः स कृतिनां धुर्यो धीमान्यौगन्धरायणः । |
|||
आचम्य प्राङ्मुखः शुद्ध इति वाचमुदैरयत् ।। ११७ |
|||
यद्यहं हितकृद्राज्ञो देवी शुद्धिमती यदि । |
|||
ब्रूत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ।। ११८ |
|||
इत्युक्त्वा विरते तस्मिन्दिव्या वागुदभूदियम् । |
|||
धन्यस्त्वं नृपते यस्य मन्त्री यौगन्धरायणः ।। ११९ |
|||
यस्य वासवदत्ता च भार्या प्राग्जन्मदेवता । |
|||
न दोषः कश्चिदेतस्या इत्युक्त्वा वागुपारमत् ।। १२० |
|||
आकर्ण्य तन्मुखरिताखिलदिग्विभागमामन्द्रनूतनघनाघनगर्जितश्रि । |
आकर्ण्य तन्मुखरिताखिलदिग्विभागमामन्द्रनूतनघनाघनगर्जितश्रि । |
||
उत्कंधराश्च सुचिरं विहताभितापाः सर्वेऽपि ते स्फुटविडम्बितनीलकण्ठाः ।। १२१ |
|||
गोपालकसहितोऽपि च राजा यौगन्धरायणाचरितम् । |
गोपालकसहितोऽपि च राजा यौगन्धरायणाचरितम् । |
||
स्तौति स्म वत्सराजो मेने |
स्तौति स्म वत्सराजो मेने पृथ्वीं च हस्तगताम् ।। १२२ |
||
दधदथ नृपतिः स मूर्तिमत्यौ निकटगते रतिनिर्वृती इवोभे । |
दधदथ नृपतिः स मूर्तिमत्यौ निकटगते रतिनिर्वृती इवोभे । |
||
अनुदिनसहवाससानुरागे निजदयिते |
अनुदिनसहवाससानुरागे निजदयिते परमुत्सवं बभार ।। १२३ |
||
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके द्वितीयस्तरङ्गः । |
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके द्वितीयस्तरङ्गः । |
||
००:१३, ५ एप्रिल् २०१७ समयस्य संस्करणम्
ततः पूर्वोक्तया युक्त्या वत्सराजं सवल्लेभम् ।
यौगन्धरायणाद्यास्ते निन्युर्लावाणकं प्रति ।। १
स राजा प्राप तं देशं सैन्यघोषेण मूर्च्छता ।
अभिवाञ्छितसंसिद्धिं वदन्तमिव मन्त्रिणाम् ।। २
तत्र प्राप्तं विदित्वा च वत्सेशं सपरिच्छदम् ।
अवस्कन्दभयाशङ्की चकम्पे मगधेश्वरः ।। ३
यौगन्धरायणोपान्तं सद्बुद्धिर्विससर्ज च ।
स दूतं सोऽपि सन्मन्त्री कार्यज्ञोऽभिननन्द तम् ।। ४
वत्सेश्वरोऽपि निवसंस्तस्मिन्देशे दवीयसीम् ।
आखेटकार्थमटवीमटति स्म दिने दिने ।। ५
एकस्मिन्दिवसे तस्मिन्नाजन्याखेटकं गते ।
कर्तव्यसंविदं कृत्वा गोपालकसमन्वितः ।। ६
यौगन्धरायणो धीमान्सरुमण्वद्वसन्तकः ।
देव्या वासवदत्ताया विजने निकटं ययौ ।। ७
तत्र तां राजकार्येऽत्र साहाय्ये तत्तदुक्तिभिः ।
प्रह्वामभ्यर्थयामास भ्रात्रा पूर्वं प्रबोधिताम् ।। ८
सानुमेने च विरहक्लेशदायि तदात्मनः ।
किं नाम न सहन्ते हि भर्तृभक्ताः कुलाङ्गनाः ।। ९
ततस्तां ब्राह्मणीरूपां देवीं यौगन्धरायणः ।
स चकार कृती दत्त्वा योगं रूपविवर्तनम् ।। १०
वसन्तकं च कृतवान्काणं बटुकरूपिणम् ।
आत्मना च तथैवाभूत्स्थविरब्राह्मणाकृतिः ।। ११
तथारूपां गृहीत्वाथ तां देवीं स महामतिः ।
वसन्तकसखः स्वैरं प्रतस्थे मगधान्प्रति ।। १२
तथा वासवदत्ता सा स्वगृहान्निर्गता सती ।
अगाच्चित्तेन भर्तारं पन्थानं वपुषा पुनः ।। १३
तन्मन्दिरमथादीप्य दहनेन रुमण्वता ।
हा हा वसन्तकयुता देवी दग्धेत्यघोष्यत ।। १४
तथा च दहनाक्रन्दौ समं तत्रोदतिष्ठताम् ।
शनैः शशाम दहनो न पुनः क्रन्दितध्वनिः ।। १५
यौगन्धरायणः सोऽथ सह वासवदत्तया ।
वसन्तकेन च प्राप मगधाधिपतेः पुरम् ।। १६
तत्रोद्यानगतां दृष्ट्वा समं ताभ्यामुपाययौ ।
पद्मावतीं राजसुतां वार्यमाणोऽपि रक्षिभिः । १७
पद्मावत्याश्च दृष्ट्वैव ब्राह्मणीरूपधारिणीम् ।
देवीं वासवदत्तां तां दृशोः प्रीतिरजायत ।। १८
सा रक्षिणो निषिध्यैव ततो यौगन्धरायणम् ।
आनाययद्राजकन्या ब्राह्मणाकृतिमन्तिकम् ।। १९
पप्रच्छ च महाब्रह्मन्का ते बाला भवत्यसौ ।
किमर्थमागतोऽसीति सोऽपि तां प्रत्यभाषत ।। २०
इयमावन्तिका नाम राजपुत्री सुता मम ।
अस्याश्च भर्ता व्यसनी त्यक्त्वेमां कुत्रचिद्गतः ।। २१
तदेतां स्थापयाम्यद्य तव हस्ते यशस्विनि ।
यावत्तमानयाम्यस्या गत्वान्विष्याचिरात्पतिम् ।। २१
भ्राता काणबटुश्चायमिहैवास्याः समीपगा ।
तिष्ठत्वेकाकिनीभावदुःखं येन न यात्यसौ ।। २३
इत्युक्त्वा राजतनयामङ्गीकृतवचास्तया ।
तामामन्त्र्य स सन्मन्त्री द्रुतं लावाणकं ययौ ।। २४
ततो वासवदत्तां तां स्थितामावन्तिकाख्यया ।
वसन्तकं चानुगतं तं काणबटुरूपिणम् ।। २५
सहादाय कृतोदारसत्कारा स्नेहशालिनी ।
पद्मावती स्वभवनं विवेश बहुकौतुकम् ।। २६
तत्र वासवदत्ता च प्रविष्टा चित्रभित्तिषु ।
पश्यन्ती रामचरिते सीतां सेहे निजव्यथाम् ।। २७
आकृत्या सौकुमार्येण शयनासनसौष्ठवैः ।
शरीरसौरभेणापि नीलोत्पलसुगन्धिना ।। २८
तामुत्तमां विनिश्चित्य महार्हैरात्मनः समैः ।
पद्मावती यथाकाममुपचारैरुपाचरत् ।। २९
अचिन्तयच्च काप्येषा छन्ना नूनमिह स्थिता ।
गूढा किं द्रौपदी नासीद्विराटवसताविति ।। ३०
अथ वासवदत्तास्याश्चक्रे देव्याः प्रसङ्गतः ।
अम्लानमालातिलकौ वत्सेशात्पूर्वशिक्षितौ ।। ३१
तद्भूषितां च दृष्ट्वा तां माता पद्मावतीं रहः ।
पप्रच्छ मालातिलकौ केनेमौ निर्मिताविति ।। ३२
ऊचे पद्मावती चैनामत्र मन्मन्दिरे स्थिता ।
काचिदावन्तिका नाम तया कृतमिदं मम ।। ३३
तच्छ्रुत्वा सा बभाषे तां माता पुत्रि न तर्हि सा ।
मानुषी कापि देवी सा यस्या विज्ञानमीदृशम् ।। ३४
देवता मुनयश्चापि वञ्चनार्थं सतां गृहे ।
तिष्ठन्त्येव तथा चैतामत्र पुत्रि कथां शृणु ।। ३५
बभूव कुन्तिभोजाख्यो राजा तस्यापि वेश्मनि ।
आगत्य तस्थौ दुर्वासा वञ्चनैकरसो मुनिः ।। ३६
स तस्य परिचर्यार्थं राजा कुन्तीं निजां सुताम् ।
आदिदेश मुनिं सापि यत्नेनोपचचार तम् ।। ३७
एकदा स मुनिः कुन्तीं जिज्ञासुः सन्नभाषत ।
परमान्नं पचेः शीघ्रं स्नात्वा यावदुपैम्यहम् ।। ३८
इत्युक्त्वा त्वरितं स्नात्वा स चर्षिर्भोक्तुमाययौ ।
कुन्ती तदन्नपूर्णां च तस्मै पात्रीमढौकयत् ।। ३९
अतितप्तेन चान्नेन ज्वलन्तीमिव तां मुनिः ।
मत्वा हस्तग्रहायोग्यां कुन्त्या पृष्ठे दृशं ददौ ।। ४०
सापि पृष्ठेन तां पात्रीं दधौ लब्धाशया मुनेः ।
ततः स बुभुजे स्वेच्छं कुन्तीपृष्ठं त्वदह्यत ।। ४१
दह्यमानापि गाढं सा यत्तस्थावविकारिणी ।
तेन तुष्टो मुनिर्भुक्त्वा ददौ तस्यास्ततो वरम् ।। ४२
इत्यासीत्स मुनिस्तत्र तदेषावन्तिकापि ते ।
तद्वदेव स्थिता कापि तत्त्वमाराधयेरिमाम् ।। ४३
इति मातुर्मुखाच्छ्रुत्वा पद्मावत्यन्यरूपिणीम् ।
तत्र वासवदत्तां तां सुतरां बह्वमन्यत ।। ४४
सापि वासवदत्तात्र निजनाथविनाकृता ।
तस्थौ विधुरविच्छाया निशीथस्थेव पद्मिनी ।। ४५५
वसन्तकविकाराश्च ते ते बालोचिता मुहुः ।
मुखे तस्या वियोगिन्याः स्मितस्यावसरं ददुः ।। ४६
अत्रान्तरेऽतिदूरासु भ्रान्त्वाखेटकभूमिषु ।
वत्सराजश्चिरादागात्सायं लावाणकं पुनः ।। ४७
भस्मीकृतमपश्यच्च तत्रान्तःपुरमग्निना ।
देवीं दग्धां च शुश्राव मन्त्त्रिभ्यः सवसन्तकाम् ।। ४८
श्रुत्वैव चापतद्भूमौ मोहेन हृतचेतनः ।
तद्दुःखानुभवक्लेशमपाकर्तुमिवेच्छता ।। ४९
क्षणाच्च लब्धसंज्ञः सञ्जज्वाल हृदये शुचा ।
आविष्ट इव तत्रस्थदेवीदाहेक्षणाग्निना ।। ५०
विलपन्नथ दुःखार्तो देहत्यागैकसंमुखः ।
क्षणान्तरे स नृपतिः संस्मृत्यैतदचिन्तयत् ।। ५१
विद्याधराधिपः पुत्रो देव्यास्तस्या भविष्यति ।
एतन्मे नारदमुनिर्वक्ति स्म न च तन्मृषा ।। ५२
कंचित्कालं च दुःखं मे तेनैव मुनिनोदितम् ।
गोपालकस्य चैतस्य शोकः स्वल्प इवेक्ष्यते ।। ५३
यौगन्धरायणादीनां न चैषामतिदुःखिता ।
दृश्यते तेन जाने सा देवी जीवेत्कथंचन ।। ५४
इयं किमपि नीतिस्तु प्रत्युक्ता मन्त्रिभिर्भवेत् ।
अतो मम भवेज्जातु तया देव्या समागमः ।। ५५
तत्पश्याम्यत्र पर्यन्तमित्यालोच्य स भूपतिः ।
निदधे हृदये धैर्यं बोध्यमानश्च मन्त्रिभिः ।। ५६
गोपालकश्च संदिश्य तद्यथावस्तु तत्क्षणम् ।
प्रजिघाय ततश्चारं धृतिहेतोरलक्षितम् ।। ५७
एवं गते स्ववृत्तान्ते लावाणकगतैस्तदा ।
गत्वा मगधराजाय चारैः सर्वं निवेदितम् ।। ५८
स तद्बुद्ध्वैव कालज्ञो वत्सराजाय तां सुताम् ।
दातुं पद्मावतीमैच्छत्पूर्वं तन्मन्त्रिमार्गिताम् ।। ५९
ततो दूतमुखेनैनमर्थं वत्सेश्वराय सः ।
यौगन्धरायणायापि संदिदेश यथेप्सितम् ।। ६०
यौगन्धरायणोक्त्या च वत्सेशोऽङ्गीचकार तत् ।
प्रच्छादितैतदर्थं स्याद्देवी जात्विति चिन्तयन् ।। ६१
ततो लग्नं विनिश्चित्य तूर्णं यौगन्धरायणः ।
तस्मै मगधराजाय प्रतिदूतं व्यसर्जयत् ।। ६२
त्वदिच्छाङ्गीकृतास्माभिस्तदितः सप्तमे दिने ।
पद्मावतीविवाहाय वत्सेशोऽत्रागमिष्यति ।। ६३
शीघ्रं वासवदत्तां च येनासौ विस्मरिष्यति ।
इति चास्मै महामन्त्री संदिदेश स भूभृते ।। ६४
प्रतिदूतः स गत्वा च यथासंदिष्टमभ्यधात् ।
ततो मगधराजाय स चाप्यभिननन्द तम् ।। ६५
ततः स दुहितृस्नेहनिजेच्छाविभवोचितम् ।
विवाहोत्सवसंभारं चकार मगधेश्वरः ।। ६६
सा चाभीष्टवरश्रुत्या मुदं पद्मावती ययौ ।
प्राप वासवदत्ता च तद्वार्ताकर्णनाच्छुचम् ।। ६७
सा वार्ता कर्णमागत्य तस्या वैवर्ण्यदायिनी ।
प्रच्छन्नवासवैरूप्यसाहायकमिवाकरोत् ।। ६८
इत्थं मित्त्रीकृतः शत्रुर्न च भर्तान्यथा त्वयि ।
वसन्तकोक्तिरित्यस्याः सखीव विदधे धृतिम् ।। ६९
अथासन्नविवाहायाः पद्मावत्या मनस्विनी ।
अम्लानमालातिलकौ दिव्यौ भूयश्चकार सा ।। ७०
ततो वत्सेश्वरस्तत्र संप्राप्ते सप्तमेऽहनि ।
ससैन्यो मन्त्रिभिः साकं परिणेतुं किलाययौ ।। ७१
मनसापि तदुद्योगं विरही स कथं स्पृशेत् ।
देवीं लभेय तामेवमित्याशा न भवेद्यदि ।। ७२
प्रत्युद्ययौ च तं सद्यः सानन्दो मगधेश्वरः ।
प्रजानेत्रोत्सवं चन्द्रमुदयस्थमिवाम्बुधिः ।। ७३
विवेशाथ स वत्सेशो मगधाधिपतेः पुरम् ।
समन्तात्पौरलोकस्य मानसं च महोत्सवः ।। ७४
विरहक्षामवपुषं मनःसंमोहदायिनम् ।
ददृशुस्तत्र नार्यस्तं रतिहीनमिव स्मरम् ।। ४५५
प्रविश्य मगधेशस्य वत्सेशोऽप्यथ मन्दिरम् ।
सनाथं पतिवत्नीभिः कौतुकागारमाययौ ।। ७६
तत्र पद्मावतीमन्तर्ददर्श कृतकौतुकाम् ।
स राजा पूर्णवक्त्रेन्दुजितपूर्णेन्दुमण्डलाम् ।। ७७
तस्याश्च मालातिलकौ दिव्यावालोक्य तौ निजौ ।
एतौ कुतोऽस्या इत्येवं विममर्श स भूपतिः ।। ७८
ततः स वेदीमारुह्य तस्या जग्राह यत्करम् ।
तदेवारम्भतां प्राप तस्य पृथ्व्याः करग्रहे ।। ७९
प्रियवासवदत्तोऽयमिदं शक्नोति नेक्षितुम् ।
इतीव वेदीधूमोऽस्य बाष्पेण पिदधे दृशौ ।। ८०
अग्निप्रदक्षिणे ताम्रं तदा पद्मावतीमुखम् ।
विज्ञातभर्त्रभिप्रायं कोपाकुलमिवाबभौ ।। ८१
मुमोच स कृतोद्वाहः कराद्वत्सेश्वरो वधूम् ।
न तु वासवदत्तां तां तत्याज हृदयात्क्षणम् ।। ८२
ततस्तथा ददौ तस्मै रत्नानि मगधाधिपः ।
निर्दुग्धरत्नरिक्तेव पृथिवी बुबुधे यथा ।। ८३
साक्षीकृत्य च तत्कालमग्निं यौगन्धरायणः ।
अद्रोहप्रत्ययं राज्ञो मगधेशमकारयत् ।। ८४
प्रदत्तवस्त्राभरणः प्रगीतवरचारणः ।
प्रनृत्तवरनारीकः प्रससार महोत्सवः ।। ८५
उदयापेक्षिणी पत्युः सुप्तेवालक्षितस्थिता ।
तदा वासवदत्ताभूद्दिवा कान्तिरिवैन्दवी ।। ८६
अन्तःपुरमुपायाते राज्ञि वत्सेश्वरे ततः ।
देवीसंदर्शनाशङ्की कृती यौगन्धरायणः ।। ८७
मन्त्रभेदभयादेवं मगधेश्वरमभ्यधात् ।
अद्यैव नाथ वत्सेशः प्रयाति त्वद्गृहादिति ।। ८८
तथेत्यङ्गीकृतं तेन तमेवार्थं तदैव सः ।
व्यजिज्ञपद्वत्सराजं सोऽपि तच्छ्रद्दधे तथा ।। ८९
अथोच्चचाल वत्सेशो भुक्तपीतपरिच्छदः ।
मन्त्रिभिः सममादाय वधूं पद्मावतीं ततः ।। ९०
पद्मावत्या विसृष्टं च सुखमारुह्य वाहनम् ।
तयैव च समादिष्टैस्तन्महत्तरकैः सह ।। ९१
आगाद्वासवदत्तापि गुप्तं सैन्यस्य पृष्ठतः ।
कृतरूपविवर्तं तं पुरस्कृत्य वसन्तकम् ।। ९२
क्रमाल्लावाणकं प्राप्य वत्सेशो वसतिं निजाम् ।
प्रविवेश समं वध्वा देवीचित्तस्तु केवलः ।।
एत्य वासवदत्तापि सा गोपालकमन्दिरम् ।
विवेशाथ निशीथे च परिस्थाप्य महत्तरान् ।। ९४
तत्र गोपालकं दृष्ट्वा भ्रातरं दर्शितादरम् ।
कण्ठे जग्राह रुदती बाष्पव्याकुललोचनम् ।। ९५
तत्क्षणे स्थितसंविच्च तत्र यौगन्धरायणः ।
आययौ सरुमण्वत्कस्तया देव्या कृतादरः ।। ९६
सोऽस्याः प्रोत्साहविश्लेषदुःखं यावद्व्यपोहति ।
तावत्पद्मावतीपार्श्वं प्रययुस्ते महत्तराः ।। ९७
आगतावन्तिका देवि किमप्यस्मान्विहाय तु ।
प्रविष्टा राजपुत्रस्य गृहं गोपालकस्य सा ।। ९८
इति पद्मावती सा तैर्विज्ञप्ता स्वमहत्तरैः ।
वत्सेश्वराग्रे साशङ्का तानेव प्रत्यभाषत ।। ९९
गच्छतावन्तिकां ब्रूथ निक्षेपस्त्वं हि मे स्थिता ।
तदत्र किं ते यत्राहं तथैवागम्यतामिति ।। १००
तच्छ्रुत्वा तेषु यातेषु राजा पद्मावतीं रहः ।
पप्रच्छ मालातिलकौ केनेमौ ते कृताविति ।। १०१
सावोचदथ मद्गेहे न्यस्ता विप्रेण केनचित् ।
आवन्तिकाभिधा यैषा तस्याः शिल्पमिदं महत् ।। १०२
तच्छ्रुत्वैव च वत्सेशो गोपालगृहमाययौ ।
नूनं वासवदत्ता सा भवेदत्रेति चिन्तयन् ।। १०३
प्रविवेश च गत्वा तद्द्वारस्थितमहत्तरम् ।
अन्तस्थदेवीगोपालमन्त्रिद्वयवसन्तकम् ।। १०४
तत्र वासवदत्तां तां ददर्श प्रोषितागताम् ।
उपप्लवविनिर्मुक्तां मूर्तिं चान्द्रमसीमिव ।। १५
पपाताथ महीपृष्ठे स शोकविषविह्वलः ।
कम्पो वासवदत्ताया हृदये तूदपद्यत ।। १०६
ततः साप्यपतद्भूमौ गात्रैर्विरहपाण्डुरैः ।
विललाप च निन्दन्ती तदाचरितमात्मनः ।। १०७
अथ तौ दंपती शोकदीनौ रुरुदतुस्तथा ।
यौगन्धरायणोऽप्यासीद्वाष्पधौतमुखो यथा ।। १०८
तथाविधं च तच्छ्रुत्वा काले कोलाहलं तदा ।
पद्मावत्यपि तत्रैव साकुला तमुपाययौ ।। १०९
क्रमादवगतार्था च राजवासवदत्तयोः ।
तुल्यावस्थैव साप्यासीत्स्निग्धमुग्धा हि सत्स्त्रियः ।। ११०
किं जीवितेन मे कार्यं भर्तृदुःखप्रदायिना ।
इति वासवदत्ता च जगाद रुदती मुहुः ।। १११
मगधेशसुतालाभात्तव साम्राज्यकाङ्क्षिणा ।
कृतमेतन्मया देव देव्या दोषो न कश्चन ।। ११२
इयं त्वस्याः सपत्न्येव प्रवासे शीलसाक्षिणी ।
इत्युवाचाथ वत्सेशं धीरो यौगन्धरायणः ।। ११३
अहमत्र विशाम्यग्नावस्याः शुद्धिप्रकाशने ।
इति पद्मावती तत्र जगादामत्सराशया ।। ११४
अहमेवापराध्यामि यत्कृते सुमहानयम् ।
सोढो देव्यापि हि क्लेश इति राजाप्यभाषत ।। ११५
अग्निप्रवेशः कार्यो मे राज्ञो हृदयशुद्धये ।
इति वासवदत्ता च बभाषे बद्धनिश्चया ।। ११६
ततः स कृतिनां धुर्यो धीमान्यौगन्धरायणः ।
आचम्य प्राङ्मुखः शुद्ध इति वाचमुदैरयत् ।। ११७
यद्यहं हितकृद्राज्ञो देवी शुद्धिमती यदि ।
ब्रूत भो लोकपालास्तन्न चेद्देहं त्यजाम्यहम् ।। ११८
इत्युक्त्वा विरते तस्मिन्दिव्या वागुदभूदियम् ।
धन्यस्त्वं नृपते यस्य मन्त्री यौगन्धरायणः ।। ११९
यस्य वासवदत्ता च भार्या प्राग्जन्मदेवता ।
न दोषः कश्चिदेतस्या इत्युक्त्वा वागुपारमत् ।। १२०
आकर्ण्य तन्मुखरिताखिलदिग्विभागमामन्द्रनूतनघनाघनगर्जितश्रि ।
उत्कंधराश्च सुचिरं विहताभितापाः सर्वेऽपि ते स्फुटविडम्बितनीलकण्ठाः ।। १२१
गोपालकसहितोऽपि च राजा यौगन्धरायणाचरितम् ।
स्तौति स्म वत्सराजो मेने पृथ्वीं च हस्तगताम् ।। १२२
दधदथ नृपतिः स मूर्तिमत्यौ निकटगते रतिनिर्वृती इवोभे ।
अनुदिनसहवाससानुरागे निजदयिते परमुत्सवं बभार ।। १२३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके द्वितीयस्तरङ्गः ।