"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) १३ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]]
| author = मधुच्छन्दा वैश्वामित्रः
| translator =
| section = सूक्तं १.९
| previous = [[ऋग्वेद: सूक्तं १.८|सूक्तं १.८]]
| next = [[ऋग्वेद: सूक्तं १.१०|सूक्तं १.१०]]
| notes = दे. इन्द्रः। गायत्री। अतिरात्रे द्वितीयपर्याये अच्छावाकशस्त्रे इन्द्रेहि इत्यनुरूपस्तृचः(आश्व.श्रौ. ६.४)
}}


<div class="verse">
<div class="verse">

०६:१३, २ एप्रिल् २०१७ इत्यस्य संस्करणं

← सूक्तं १.८ ऋग्वेदः मण्डल १
सूक्तं १.९
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.१० →
दे. इन्द्रः। गायत्री। अतिरात्रे द्वितीयपर्याये अच्छावाकशस्त्रे इन्द्रेहि इत्यनुरूपस्तृचः(आश्व.श्रौ. ६.४)
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=107030" इत्यस्माद् प्रतिप्राप्तम्