"अग्निपुराणम्/अध्यायः १४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}

<poem><font size="4.9">
मालिनीनानामन्त्राः
मालिनीनानामन्त्राः


ईश्वर उवाच
<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१
पङ्क्तिः १२: पङ्क्तिः १०:
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४
<small><small>टिप्पणी
- - - - - - -- - - -- - - - - - - -
१ षोडशप्रतिरूपवानिति झ..</small></small>
टिप्पणी
१ षोडशप्रतिरूपवानिति झ..
- - - - - - -- - - -- - - - - - - -
अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४
अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ।१४५.००५
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ।१४५.००५
पङ्क्तिः ३५: पङ्क्तिः ३१:
ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३
ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१४५.०१३
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१४५.०१३
<small><small>टिप्पणी
- - - - - - -- - - -- - - - - - - -
टिप्पणी
१ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
१ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
२ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
२ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
३ खश्वसनीति ख.. , छ.. च
३ खश्वसनीति ख.. , छ.. च
४ पावनीति ज.. , ञ.. च
४ पावनीति ज.. , ञ.. च</small></small>
- - - - - - -- - - -- - - - - - - -
जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ।१४५.०१४
जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ।१४५.०१४
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४
पङ्क्तिः ७९: पङ्क्तिः ७३:


इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
<small><small>टिप्पणी
१ य वाणीशस्तु विस्तृत इति ञ..</small></small>



</font></poem>
</span></poem>


[[वर्गः:अग्निपुराणम्]]
[[वर्गः:अग्निपुराणम्]]

०२:२७, १ एप्रिल् २०१७ इत्यस्य संस्करणं

अग्निपुराणम्
















मालिनीनानामन्त्राः

ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।१४५.००१
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥१४५.००१
शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्(१) ।१४५.००२
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥१४५.००२
चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ।१४५.००३
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥१४५.००३
शाक्ते पक्षे च मालिन्यास्त्रिविद्यात्मा द्वितीयकः ।१४५.००४
टिप्पणी
१ षोडशप्रतिरूपवानिति झ..

अधोर्यष्टकरूपोऽन्यो द्वादशाङ्गश्चतुर्थकः ।१४५.००४
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका(१) ।१४५.००५
क्रीं ह्रौं क्लीं श्रीं क्रूं फट्त्रयं स्यात्तुर्याख्यं सर्वसाधकं(२) ॥१४५.००५
मालिन्या नादिकान्तं स्यात्नादिनी च शिखा स्मृता ।१४५.००६
अग्रसेनी(३) शिरसि स्यात्शिरोमालानिवृत्तिः शः ॥१४५.००६
ट शान्तिश्च शिरो भूयाच्चामुण्डा च त्रिनेत्रगा ।१४५.००७
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥१४५.००७
न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ।१४५.००८
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥१४५.००८
क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ।१४५.००९
ग शिवा ऊर्ध्वदंष्ट्रा स्याद्घ घोरा वामदंष्ट्रिका ॥१४५.००९
उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ।१४५.०१०
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥१४५.०१०
भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ।१४५.०११
डनामा दक्षबाहौ तु ढ वामे च विनायका ॥१४५.०११
प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ।१४५.०१२
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥१४५.०१२
ट कपालिनी कपालं शूलदण्डे त दीपनी ।१४५.०१३
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी(४) स्मृता ॥१४५.०१३
टिप्पणी
१ शक्तिः स्याद्या विवर्णिका इति ज.. । शक्तिश्चान्या त्रिखण्डिकेति ञ..
२ फटत्रयं स्यात्तर्युद्धे सर्वसाद्धकमिति ख.. , छ.. च
३ खश्वसनीति ख.. , छ.. च
४ पावनीति ज.. , ञ.. च

जीवे श परमाख्या स्याध प्राणे चाम्बिका स्मृता ।१४५.०१४
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥१४५.०१४
अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ।१४५.०१५
नाभौ संहारिका क्ष स्यान्महाकाली नितम्बम ॥१४५.०१५
गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ।१४५.०१६
उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि ॥१४५.०१६
वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ।१४५.०१७
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥१४५.०१७
फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ।१४५.०१८
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥१४५.०१८
इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ।१४५.०१९
उ दक्षकर्णेऽमरौश ऊ कर्णेर्घांशकोऽपरे ॥१४५.०१९
ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ ।१४५.०२०
ळ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश्च ॡ ॥१४५.०२०
कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ।१४५.०२१
सद्योजात ओ अधरे ऊर्ध्वौष्ठेऽनुग्रहीश औ ॥१४५.०२१
अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ।१४५.०२२
क क्रोधीशो दक्षस्कन्धे खश्चण्डीशश्च बाहुषु ॥१४५.०२२
पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे ।१४५.०२३
ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः ॥१४५.०२३
छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ।१४५.०२४
झ राजसः कङ्कणगः ञः सर्वकामदोऽङ्गुली ॥१४५.०२४
ट स्प्मेशो नितम्बे स्याद्दक्ष ऊरुर्ठ लाङ्गली ।१४५.०२५
ड दारुको दक्षजानौ जङ्घा ढोऽर्धजलेश्वरः ॥१४५.०२५
ण उमाकान्तकोऽङ्गुल्यस्त आषाढो नितम्बके ।१४५.०२६
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥१४५.०२६
ध मीनो वामजङ्घायान्न मेषश्चरणाङ्गुली ।१४५.०२७
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥१४५.०२७
ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ।१४५.०२८
म महाकालो हृदये य वाणीशस्त्वविस्मृतः(१) ॥१४५.०२८
र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके ।१४५.०२९
व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः ॥१४५.०२९
ष श्वेतश्चैव मज्जायां स भृगुः शुक्रधातुके ।१४५.०३०
प्राणे हो नकुलीशः स्यात्क्ष संवर्तश्च कोषगः ॥१४५.०३०
रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥३१॥१४५.०३१

इत्याग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ य वाणीशस्तु विस्तृत इति ञ..