"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः १२७ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{header
<poem><font size="4.9">
| title = [[../../]]

| author = वेदव्यासः
सप्तविंशत्यधिक शततमोऽध्यायः 6.127
| translator =
कार्तवीर्य उवाच
| section = अध्यायः १२७
| previous = [[../अध्यायः १२६|अध्यायः १२६]]
| next = [[../अध्यायः १२८|अध्यायः १२८]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">कार्तवीर्य उवाच
हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः
हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः
प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत १
प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत १
पङ्क्तिः १२२: पङ्क्तिः १२८:
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत्
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत्


</font></poem>
</span></poem>

०५:०४, १६ फेब्रवरी २०१७ इत्यस्य संस्करणं

← अध्यायः १२६ पद्मपुराणम्
अध्यायः १२७
वेदव्यासः
अध्यायः १२८ →

कार्तवीर्य उवाच
हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः
प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत १
गतपापो यदेकेन द्वितीयेन दिवं गतः
वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम् २
दत्तात्रेय उवाच
निसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम्
मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम्
तारकं सर्वभूतानां पोषणं जीवनं च यत् ३
आपो नारायणोदेवः सर्ववेदेषु पठ्यते
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी
मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु ४
मकरस्थे रवौ माघे प्रातः काले तथाऽमले
गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ५
योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरे
अस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम् ६
दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छया
त्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः ७
पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम्
संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम् ८
सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसु
कर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम् ९
तस्मान्माघे बहिः स्नायादात्मनो हितकाम्यया
अथातः संप्रवक्ष्यामि माघस्नानविधिं परम् १०
कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः
फलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः ११
भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम्
त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम् १२
दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम्
इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम् १३
तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम्
अन्नं चैव यथाशक्ति देयं माघे नराधिप १४
सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथा
तद्दानमक्षयं राजन्समुद्र इव सर्वदा १५
परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम्
माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप १६
देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता
एकादशीविधानेन माघस्योद्यापनं तथा १७
कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछया
अनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे १८
मकरस्थे रवौ माघे गोविंदाच्युतमाधव
स्नानेनानेन भो देव यथोक्तफलदो भव १९
इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितः
वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः २०
गृहेऽपि सजलं कुंभं वायुना निशिपीडितम्
तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम् २१
तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम्
तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत् २२
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः
षडब्दफलदं तद्धि मकरस्थे दिवाकरे २३
बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम्
तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम् २४
शतधा देवखातेषु शतधा तु महानदे
शतं चतुर्गुणं राजन्महानद्याश्च संगमे २५
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ
गंगायां स्नानमात्रेण लभते मानवो नृप २६
गंगायां येऽवगाहंति माघमासे नृपोत्तम
चतुर्युगसहस्रं तु न पतंति सुरालयात् २७
दिनेदिने सहस्रं तु सुवर्णानां विशांपते
तेन दत्तं तु गंगायां यो माघे स्नाति मानवः२८
शतेन गुणितं माघे सहस्रं राजसत्तम
निर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे २९
पापौघभूरिभारस्य दाहार्थे च प्रजापतिः
प्रयागं विदधे भूप प्रजानां च हिते स्थितः ३०
शृणु स्थानमिदं सम्यक्सितासित जलं किल
पापरूप पशूनां च ब्रह्मणा विहितं पुरा ३१
सितासितजले मज्जेदपि पापशतान्वितः
मकरस्थे रवौ माघे नैव गर्भेषु मज्जति ३२
सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत्
माघेमासि नरव्याघ्र स याति परमंपदम् ३३
सितासिता तु या धारा सरस्वत्याविगर्भिता
तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै ३४
दुस्तरा वैष्णवी माया देवैरपि सुदुर्जया
प्रयागे दह्यते सा तु माघे मासि नराधिप ३५
तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः
पश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात् ३६
उपस्पृशति यो माघे मकरार्के सितासिते
न तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम् ३७
सन्निमज्जति यो माघे मकरस्थ सितासिते
तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः ३८
संवत्सरशतं साग्रं निराहारस्य यत्फलम्
प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम् ३९
स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे
यत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने ४०
राजसूयसहस्रस्य राजन्नविकलं फलम्
सितासिते तु माघे च स्नानानां भवति ध्रुवम् ४१
पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः
वेण्यां स्नातुं समायांति माघेमासि नृपोत्तम ४२
सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः
भवंति शुक्लवर्णानि प्रयागे माघमज्जनात् ४३
आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृप
तद्भवेद्भस्मसान्माघे स्नातानां च सितासिते ४४
वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत्
प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम् ४५
प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवः
पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः ४६
कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहिता
तस्माद्दशगुणा पुण्या यत्र विंध्येन संगता ४७
तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनी
काश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे ४८
सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनी
या राजन्दर्शनादेव ब्रह्महत्यापहारिणी ४९
या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता
हंति कोटिकृतं पापं सा माघे नृप दुर्लभा 6.127.५०
यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता
तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम् ५१
ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः
गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः ५२
अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः
ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः ५३
सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ५४
गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा
स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप ५५
कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः
प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम् ५६
नाश्वमेधसहस्रेण तत्फलं लभते भुवि
त्र्यहस्नानफलं माघे पुरा कांचनमालिनी ५७
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत्