"बृहदारण्यक उपनिषद् 1a" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
add the clean version
(भेदः नास्ति)

१९:१८, २७ जनवरी २०१७ इत्यस्य संस्करणं

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ प्रथमोऽध्यायः ।

प्रथमं ब्राह्मणम् ।

मन्त्र १ [I.i.1] उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर् वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः पृष्ठम् अन्तरिक्षमुदरम् पृथिवी पाजस्यम् दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्य् अहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मासान्य् ऊवध्य सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्य् उद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥

मन्त्र २ [I.i.2] अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिर् एतौ वा अश्वं महिमानावभितः सम्बभूवतुर् हयो भूत्वा देवानवहद् वाजी गन्धर्वान् अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥ इति प्रथमं ब्राहमणम् ॥

द्वितीयं ब्राह्मणम् ।

मन्त्र १ [I.2.1] नैवेह किंचनाग्र आसीन् मृत्युनैवेदमावृतमासीदशनाययाऽशनाया हि मृत्युस् तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् । क ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥

मन्त्र २[I.2.2] आपो वा अर्क तद्यदपा शर आसीत् तत्समहन्यत । सा पृथिव्यभवत् तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥

मन्त्र ३ [I.2.3] स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयम् वायुं तृतीय । स एष प्राणस्त्रेधा विहितस् तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव अथास्य प्रतीची दिक्पुच्छम् असौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठम् अन्तरिक्षमुदरम् इयमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥

मन्त्र ४[I.2.4] सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुन समभवदशनाया मृत्युस् तद्यद्रेत आसीत् स संवत्सरोऽभवन् न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभर्यावान्संवत्सरस् तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् स भाणकरोत् सैव वागभवत् ॥ ४ ॥

मन्त्र ५[I.2.5] स ऐक्षत यदि वा इममभिमस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनाऽऽत्मनेद सर्वमसृजत यदिदं किञ्चर्चो यजूषि सामानि छन्दासि यज्ञान् प्रजाः पशून् स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदितित्व । सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥

मन्त्र ६[I.2.6] सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् प्राणा वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीर श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥

मन्त्र ७[I.2.7] सोऽकामयत मेध्यं म इद स्याद् आत्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद् यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वम् एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । त संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस् तस्येमे लोका आत्मानस् तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा भवत्य् एतासां देवतानामेको भवति ॥ ७ ॥ इति द्वितीयं ब्राह्मणम् ॥

तृतीयं ब्राह्मणम् ।

मन्त्र १ [I.3.1] द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥

मन्त्र २[I.3.1] ते ह वाचमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥

मन्त्र ३[I.3.3] अथ ह प्राणमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद् यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥

मन्त्र ४[I.3.4] अथ ह चक्षुरूचुस् त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद् यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥ ४ ॥

मन्त्र ५[I.3.5] अथ ह श्रोत्रमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद् यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याण शृणोति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूप शृणोति स एव स पाप्मा ॥ ५ ॥

मन्त्र ६[I.3.6] अथ ह मन ऊचुस् त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद् यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याण सङ्कल्पयति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूप सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिस् उपासृजन् एवमेनाः पाप्मनाऽविध्यन् ॥ ६ ॥

मन्त्र ७[I.3.7] अथ हेममासन्यं प्राणमूचुस् त्वं न उद्गायेति । तथेति । तेभ्य एष प्राण उदगायत् ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वसेतैव हैव विध्वसमाना विष्वञ्चो विनेशुस् ततो देवा अभवन् पराऽसुराः । भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥

मन्त्र ८[I.3.8] ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्य् अयमास्येऽन्तरिति सोऽयास्य आङ्गिरसो ऽङ्गाना हि रसः ॥ ८ ॥

मन्त्र ९[I.3.9] सा वा एषा देवता दूर्नाम दूर ह्यस्या मृत्युर् दूर ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ ९ ॥

मन्त्र १०[I.3.10] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां दिशामन्तस् तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥

मन्त्र ११[I.3.11] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥

मन्त्र १२[I.3.12] स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥

मन्त्र १३[I.3.13] अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥

मन्त्र १४[I.3.14] अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥

मन्त्र १५[I.3.15] अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवस् ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥

मन्त्र १६[I.3.16] अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्य् एव ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥

मन्त्र १७[I.3.17] अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यते ऽनेनैव तदद्यत इह प्रतितिष्ठति ॥ १७ ॥

मन्त्र १८[I.3.18] ते देवा अब्रुवन्न् एतावद्वा इद सर्वं यदन्नम् तदात्मन आगासीर् अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति । तथेति । त समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्य् एव ह वा एन स्वा अभिसंविशन्ति भर्ता स्वाना श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर् य एवं वेद । य उ हैवंविद स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्य् अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥

मन्त्र १९[I.3.19]

सोऽयास्य आङ्गिरसो ऽङ्गाना हि रसः । प्राणो वा अङ्गाना रसः । प्राणो हि वा अङ्गाना रसस् तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्य् एष हि वा अङ्गाना रसः ॥ १९ ॥

मन्त्र २०[I.3.20] एष उ एव बृहस्पतिर् वाग्वै बृहती तस्या एष पतिस् तस्मादु बृहस्पतिः ॥ २० ॥

मन्त्र २१[I.3.21] एष उ एव ब्रह्मणस्पतिर् वाग्वै ब्रह्म तस्या एष पतिस् तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥

मन्त्र २२[I.3.22] एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्य सलोकताम् य एवमेतत्साम वेद ॥ २२ ॥

मन्त्र २३[I.3.23] एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीद सर्वमुत्तब्धम् । वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥

मन्त्र २४[I.3.24] तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥

मन्त्र २५[I.3.25] तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति । भवति हास्य स्वम् य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥

मन्त्र २६[I.3.26] तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम् य एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥

मन्त्र २७[I.3.27] तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ऽन्न इत्यु हैक आहुः ॥ २७ ॥

मन्त्र २८[I.3.28] अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेद् असतो मा सद् गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा सद्गमयेति मृत्युर्वा असत् सदमृतम् मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्य् अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं कामं कामयेत त । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २८ ॥

इति तृतीयं ब्राह्मणम् ॥

चतुर्थं ब्राह्मणम् ।

मन्त्र १ [I.iv.1] आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह वै स तम् योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १ ॥

मन्त्र २[I.iv.2] सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥

मन्त्र ३[I.iv.3] स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमासौ सम्परिष्वक्तौ । स इममेवाऽऽत्मानं द्वेधाऽपातयत्। ततः पतिश्च पत्नी चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस् तस्मादयमाकाशः स्त्रिया पूर्यत एव । ता समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥

मन्त्र ४[I.iv.4] सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ इतरस् ता समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद् अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस् ता समेवाभवत् तत एकशफमजायत अजेतराऽभवद् वस्त इतरो ऽविरितरा मेष इतरस् ता समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस् तत्सर्वमसृजत ॥ ४ ॥

मन्त्र ५[I.iv.5] सोऽवेद् अहं वाव सृष्टिरस्म्य् अह हीद सर्वमसृक्षीति । ततः सृष्टिरभवत् सृष्ट्या हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥

मन्त्र ६[I.iv.6] अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतो ऽलोमका हि योनिरन्तरतस् तद्यदिदमाहुर् अमुं यजामुं यजेत्येकैकं देवम् एतस्यैव सा विसृष्टिर् एष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रम् तद्रेतसोऽसृजत तदु सोमः । एतावद्वा इद सर्वमन्नं चैवान्नादश्च सोम एवान्नम् अग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिर् यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् अतिसृष्ट्या हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥

मन्त्र ७[I.iv.7] तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिद रूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्य् अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्ह्रोत्रम् मन्वानो मनस् तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्य् आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देद् एवं कीर्ति श्लोकं विन्दते य एवं वेद ॥ ७ ॥

मन्त्र ८[I.iv.8] तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्माद् अन्तरतरम् यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रिय रोत्स्यतीतीश्वरो ह तथैव स्याद् आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥

मन्त्र ९[I.iv.9] तदाहुर् यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९ ॥

मन्त्र १०[I.iv.10] ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेद् अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणाम् तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभव सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति इति स इद सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषा स भवत्य् अथ योऽन्यां देवतामुपास्ते ऽन्योऽसाव् अन्योऽहमस्मीति न स वेद । यथा पशुरेव स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर् एवमेकैकः पुरुषो देवान्भुनक्त्य् एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥

मनुष्यास् विद्युर्

मन्त्र ११[I.iv.11] ब्रह्म वा इदमग्र आसीदेकमेव । तदेक सन्न व्यभवत् तच्छ्रेयो रूपमत्यसृजत क्षत्रम् यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एन हिनस्ति स्वा स योनिमृच्छति । स पापीयान्भवति यथा श्रेयास हिसित्वा ॥ ११ ॥

मन्त्र १२[I.iv.12] स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥

मन्त्र १३[I.iv.13] स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणम् इयं वै पूषेय हीद सर्वं पुष्यति यदिदं किञ्च ॥१३ ॥

मन्त्र १४[I.iv.14] स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् । तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस् तस्माद्धर्मात् परं नास्त्य् अथो अबलीयान् बलीयासमाशसते धर्मेण यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर् धर्मं वदतीति धर्मं वा वदन्त सत्यं वदतीत्य् एतद्ध्येवैतदुभयं भवति ॥ १४ ॥

मन्त्र १५[I.iv.15] तदेतद्ब्रह्म क्षत्रं विट् शूद्रस् तदग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस् तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्व् एताभ्या हि रूपाभ्यां ब्रह्माभवद् अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ऽस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥

मन्त्र १६[I.iv.16] अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोको ऽथ यदनुब्रूते तेन ऋषीणाम् अथ यत् पितृभ्यो निपृणाति अथ यत्प्रजामिच्छते तेन पितृणाम् अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् यदस्य गृहेषु श्वापदा वयास्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद् एव हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमासितम् ॥ १६ ॥

मन्त्र १७[I.iv.17] आत्मैवेदमग्र आसीद् एक एव । सोऽकामयत जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्यात् अथ कर्म कुर्वीयेत्य् एतावान्वै कामो नेच्छश्चनातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोत्य् अकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तम् चक्षुषा हि तद्विन्दते श्रोत्रं दैव श्रोत्रेण हि तच्छृणोत्य् आत्मैवास्य कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिद सर्वं यदिदं किञ्च । तदिद सर्वमाप्नोति य एवं वेद ॥ १७ ॥

इति चतुर्थं ब्राह्मणम् ॥

पञ्चमं ब्राह्मणम् ।

मन्त्र १[I.v.1] यत्सप्तान्नानि मेधया तपसाऽऽजनयत्पिता । एकमस्य साधारणम् द्वे देवानभाजयत् ॥

त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्। तस्मिन्त्सर्वं प्रतिष्ठितम् यच्च प्राणिति यच्च न ॥

कस्मात्तानि न क्षीयन्ते ऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥

मन्त्र २[I.v.1] यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाजनयत् पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नम् यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्र ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वत्य् अथो आहुर् दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्य् अथ वत्सं जातमाहुर् अतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीद सर्वं प्रतिष्ठितम् यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद् यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्व हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वै तामक्षितिं वेदेति पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिर् यद्धैतन्न कुर्यात् क्षीयेत ह । सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकम् मुखेनेत्येतत् स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशसा ॥ २ ॥

मन्त्र ३[I.v.3] त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणम् तान्यात्मनेऽकुरुतान्यत्रमना अभूवम् नादर्शम् अन्यत्रमना अभूवम् नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥

मन्त्र ४[I.v.4] त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥

मन्त्र ५[I.v.5.] त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥

मन्त्र ६[I.v.6] देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ।

मन्त्र ७[I.v.7] पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥

मन्त्र ८[.I.v.8] विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपम् वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८ ॥

मन्त्र ९[I.v.9] यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् मनो हि विजिज्ञास्यम् मन एनं तद्भूत्वाऽवति ॥ ९ ॥

मन्त्र १०[I.v.10] यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति ॥ १० ॥

मन्त्र ११[I.v.11] तस्यै वाचः पृथिवी शरीरम् ज्योती रूपमयमग्निस् तद्यावत्येव वाक् तावती पृथिवी तावानयमग्निः ॥ ११ ॥

मन्त्र १२[I.v.12] अथैतस्य मनसो द्यौः शरीरम् ज्योतीरूपमसावादित्यस् तद्यावदेव मनस्तावती द्यौस् तावानसावादित्यस् तौ मिथुन समैताम् ततः प्राणोऽजायत । स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥

मन्त्र १३[I.v.13] अथैतस्य प्राणस्याऽऽपः शरीरम् ज्योतीरूपमसौ चन्द्रस् तद्यावानेव प्राणस् तावत्य आपस् तावानसौ चन्द्रः । त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्ते ऽन्तवन्त स लोकं जयत्य् अथ यो हैताननन्तानुपास्ते ऽनन्त स लोकं जयति ॥ १३ ॥

मन्त्र १४[I.v.14] स एष संवत्सरः प्रजापतिः षोडशकलस् तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवाऽऽ च पूर्यते ऽप च क्षीयते । सोऽमावास्या रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेता रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥

अपचित्यै

मन्त्र १५[I.v.15] यो वै स संवत्सरः प्रजापतिः षोडशकलो ऽयमेव स योऽयमेवंवित्पुरुषस् तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला । स वित्तेनैवाऽऽ च पूर्यते ऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः ॥ १५ ॥

मन्त्र १६[I.v.16] अथ त्रयो वाव लोकाः मनुष्यलोका पितृलोको देवलोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकाना श्रेष्ठस् तस्माद्विद्यां प्रशसन्ति ॥ १६ ॥

मन्त्र १७[I.v.17] अथातः सम्प्रत्तिर् यदा प्रैष्यन्मन्यते ऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस् त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो ऽहम् लोक इति । यद्वै किञ्चानूक्तम् तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास् तेषा सर्वेषां यज्ञ इत्येकता । ये वै केच लोकास् तेषा सर्वेषां लोक इत्येकतैतावद्वा इद सर्वम् एतन्मा सर्व सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस् तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात्प्रैत्य् अथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति तस्मादेन सर्वस्मात्पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिंॅल्लोके प्रतितिष्ठत्य् अथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥

मन्त्र १८[I.v.18] पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥

मन्त्र १९[I.v.19] दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो येनाऽऽनन्द्येव भवत्य् अथो न शोचति ॥ १९ ॥

मन्त्र २०[I.v.20] अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणो यः सञ्चरश्चासञ्चरश्च न व्यथते ऽथो न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवतैव स यथैतां देवता सर्वाणि भूतान्यवन्त्य् एव हैवंविद सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्य् अमैवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥

मन्त्र २१[I.v.21] अथातो व्रतमीमासा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम्। एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत् तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् श्राम्यति चक्षुः श्राम्यति श्रोत्रम् अथेममेव नाऽऽप्नोद् योऽयं मध्यमः प्राणस् तानि ज्ञातुं दध्रिरे ऽयं वै नः श्रेष्ठो यः सञ्चरश्चासञ्चरश्च न व्यथते ऽथो न रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपमभवस् तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यत्य् अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥

मन्त्र २२[I.v.22] अथाधिदैवतम् ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवत । स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर् निम्लोचन्ति ह्यन्या देवता न वायुः । सैषाऽनस्तमिता देवता यद्वायुः ॥ २२ ॥

मन्त्र २३[I.v.23] अथैष श्लोको भवति यतश्चोदेति सूर्यो ऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्म, स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्य सलोकतां जयति ॥ २३ ॥

इति पञ्चमं ब्राह्मणम् ॥

षष्ठं ब्राह्मणम् ।

मन्त्र १[I.vi.1] त्रयं वा इदम् नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थम् अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषा सामैतद्धि सर्वैर्नामभिः समम् एतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥

मन्त्र २[I.vi.1] अथ रूपाणां चक्षुरित्येतदेषामुक्थम् अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषा सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥

मन्त्र ३[I.vi.3] अथ कर्मणामात्मेत्येतदेषामुक्थम् अतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्य् एतदेषा सामैतद्धि सर्वैः कर्मभिः समम् एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रय सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृत सत्येन छन्नम् । प्राणो वा अमृतम् नामरूपे सत्यम् ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥

इति षष्ठं ब्राह्मणम् ॥

इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_1a&oldid=101700" इत्यस्माद् प्रतिप्राप्तम्