पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ अध्यायः ] छन्दःशास्त्रम् ।

जिज्ञासिते । तत्संख्याजातं द्विगुणितं परस्य छन्दसो वृत्तानां संख्या भवति । तद्यथा--- चतुःषष्टिर्गायत्रीसमवृत्तानां संख्या द्विगुणीकृता सती परस्योष्णिहः समवृत्तसंख्या साष्टावेिंशं शतं भवति ॥

अतोऽनेकद्वित्रिलघुक्रियासिद्यर्थ यावदभिमतं प्रथमप्रस्तारवन्मेरुप्रस्तारं दर्शयति-

परे पूर्णमिति ॥ ८ । ३५ ॥

उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्क्रान्तं कोष्ठकद्वयं लिखेत् । तस्याप्यधस्तात्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः ॥ तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यद्वृत्तसंख्याजातं तत् पूर्वकोष्टयोः पूर्णं निवेशयेत् । तत्रोभयोः कोष्ठकयोरेकैकमङ्गं दद्यात्, मध्ये कोष्ठे तु परकोष्टद्वयाङ्कमेकीकृत्य पूर्ण निवेशयेदिति पूर्णशब्दार्थः । चतुर्थ्यां पङ्क्तावपि पर्यन्तकोष्ठयोरेकैकमेव स्थापयेत् । मध्यमकोष्ठयोस्तु परकोष्ठद्वयाङ्कमेकीकृत्य पूर्णं त्रिसङ्ख्यारूपं स्थापयेत् । उत्तरत्राप्ययमेव न्यासः । तत्र द्विकोष्ठायां पङ्क्तौ एकाक्षरस्य विन्यासः । तत्रैकगुर्वेकलघुवृत्तं भवति । तृतीयायां पङ्क्तौ द्वयक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु, द्वे एकलघुनी, एकं सर्वलघ्विति कोष्ठक्रमेण वृत्तानि भवन्ति ॥ चतुर्थ्यां पङ्क्तौ त्यक्षरस्य प्रस्तारः । तत्रैकं सर्वगुरु त्रीण्येकलघूनि त्रीणि द्विलघूनि एकं सर्वलघु ॥ तथा पञ्चमादिपङ्क्तावपि सर्वगुर्वादिसर्वलघ्वन्तमेकद्वयादिलघु द्रष्टव्यमिति


१. सूत्रावृत्तिः शास्रसमाप्तिसूचनार्था । २. मात्रामेरुरप्युक्तो वाणीभूषणे---

'द्वयं द्वयं समं कोष्ठं कृत्वान्येष्वेकमर्पयेत् ।

एकद्वयेकत्र्येकचतुष्क्रमेण प्रथमेष्वपि ॥

शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्ठान् प्रपूरयेत्

मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' इति ।


अत्र वृत्तप्रत्ययकौमुद्यां विशेषः---

मात्रागलक्रिया क्वापि नोक्ता सापीह वर्ण्यते ।

कलासङ्ख्याकमेकाङ्कमौत्तराधर्यतो न्यसेत् ॥

तिर्यग्द्वितीयपङ्क्तौ चोर्ध्वस्थाङ्कं संलिखेद्बुधः ।

तृतीयादावूर्ध्वकोणयुग्माङ्कं च युतं लिखेत् ॥

योजनासम्भवे युक्तमङ्कमेव लिखेदधः ।

प्राग्युताङ्कावथ त्यक्त्वा पुनर्युक्त्वा पुरो लिखेत् ॥

युत्वा युत्वाधराङ्कान्तं लिखेद्धीमानधः स्थितैः ।

तिर्यगङ्कैर्द्वितीयाद्यैरेकगुर्वादयो मताः ॥