पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३६

विकिस्रोतः तः
← अध्यायः २३५ पद्मपुराणम्
अध्यायः २३६
वेदव्यासः
अध्यायः २३७ →

पार्वत्युवाच-
तामसानि च शास्त्राणि समाचक्ष्व ममानघ ।
संप्रोक्तानिच तैर्व्विप्रैर्भगवद्भक्तिवर्जितैः ।
तेषां नामानि क्रमशः समाचक्ष्व सुरेश्वर १।
रुद्र उवाच-
शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् २।
तेषां स्मरणमात्रेण मोहः स्याज्ज्ञानिनामपि ।
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ३।
मच्छक्त्यावेशितैर्व्विप्रैः प्रोक्तानि च ततः शृणु ।
कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् ४।
गौतमेन तथा न्यायं सांख्यं तु कपिलेन वै ।
धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम् ५।
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ।
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् ६।
मायावादमसच्छास्त्रं प्रच्छन्नं बौद्ध उच्यते ।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ७।
अपार्थं श्रुतिवाक्यानां दर्शयन्लोकगर्हितम् ।
स्वकर्म्मरूपं त्याज्यत्वमत्रैव प्रतिपाद्यते ८।
सर्वकर्म्मपरिभ्रष्टैर्वैधर्म्मत्वं तदुच्यते ।
परेशजीवपारैक्यं मया तु प्रतिपाद्यते ९।
ब्रह्मणोस्य स्वयं रूपं निर्गुणं वक्ष्यते मया ।
सर्वस्य जगतोऽप्यत्र मोहनार्थं कलौ युगे १०।
वेदार्थवन्महाशास्त्रं मायया यदवैदिकम् ।
मयैव कल्पितं देवि जगतां नाशकारणात् ११।
मदाज्ञया जैमिनिना पूर्वं वेदमपार्थकम् ।
निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् १२।
शास्त्राणि चैव गिरिजे तामसानि निबोध मे ।
पुराणानि च वक्ष्यामि तामसानि यथाक्रमात् १३।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथैव नारदीयं तु मार्कण्डेयन्तु सप्तमम् १४।
आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं तथा ।
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं स्मृतम् १५।
द्वादशं च वराहं च वामनं च त्रयोदशम् ।
कौर्म्मं चतुर्दशं प्रोक्तं मात्स्यं पंचदशं स्मृतम् १६।
षोडशं गारुडं प्रोक्तं स्कंदं सप्तदशं स्मृतम् ।
अष्टादशं तु ब्रह्मांडं पुराणानि यथाक्रमम् १७।
मात्स्यं कौर्मं तथा लैड्गं शैवं स्कांदं तथैव च ।
आग्नेयं च षडेतानि तामसानि निबोध मे १८।
वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
गारुडं च तथा पाद्मं वाराहं शुभदर्शने १९।
सात्विकानि पुराणानि विज्ञेयानि शुभानि वै ।
ब्रह्मांड ब्रह्मवैवर्त्तं मार्कंडेयं तथैव च २०।
भविष्यं वामनं ब्राह्मं राजसानि निबोध मे ।
सात्विका मोक्षदाः प्रोक्ता राजसाः सर्वदा शुभाः २१।
तथैव तामसा देवि निरयप्राप्तिहेतवः ।
तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः २२।
सात्विका राजसाश्चैव तामसा शुभदर्शने ।
वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा २३।
भारद्वाजं काश्यपं च सात्विका मुक्तिदाः शुभाः ।
याज्ञवल्क्यं तथात्रेयं तैत्तिरं दाक्षमेव च २४।
कात्यायनं वैष्णवं च राजसां स्वर्गदाः शुभाः ।
गौतमं बार्हस्पत्यं च सांवर्त्तं च यमं स्मृतम् २५।
साख्यं चौशनसं चेति तामसा निरयप्रदाः ।
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि २६।
तामसा नरकायैव वर्जयेत्तान्विचक्षणः ।
एतत्ते सर्वमाख्यातं प्रसंगाच्छुभदर्शनम् ।
शेषां च प्रभवावस्थां हरेर्वक्ष्यामि ते शृणु २७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे तामसशास्त्रकथनंनाम षट्त्रिंशदधिकद्विशततमोऽध्यायः २३६ ।