हेमन्तवैभवम्

विकिस्रोतः तः

हेमन्तवैभवम् नानालङ्कारं रमण्यो यथा न रम्या दृश्यन्ते तद्वदेव ऋतुचक्राभरणाभूषिता प्रकृतिरपि न खलु सचेतसां चेतप्रसादयित्री स्यात्। नानाचित्रचित्रीकृता भूमिर्यथा वैचित्र्यभरितापि हृदयभारं नावहति, एवमेव विविधर्तुसनाथिता प्रकृतिरपि सर्वेभ्यः आनन्दपय एवानुसञ्चति। षण्णामृतूनां वर्णनावसर आम्नातमष्टाङ्गहृदये- मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवस्स्मृताः। शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः।। इति। मार्गशीर्षपौषमासद्वयमभिव्याप्याभिवर्तते ऋतुरियम्। मासानां मार्गशीर्षोऽहम् इत्यादिभगवदुक्तवचनात् मासेषूत्तमेयमृतुः। ऋतावस्यां त्वक् सङ्कुचिता भवति। तस्माद्बहिः प्रस्थातुमक्षमा ऊष्मा शरीर एव पिण्डीभवति। पिण्डीभवनात् सा प्रबला भवति। किञ्चास्मिन् समये सबेगो वाति वातः। तत्प्रमाणं हि चरकसूत्रे- “वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशोद” इत्यादि। तेन प्राबल्यादप्राप्तौ भोजने हुताशनो धातूनेव पाचयितुं प्रवर्तते। तस्मादुक्तं- ऊष्मा बहिः प्रतिहतो हिमशीतवातै- रन्तः शरीरविवरं प्रतिपाद्यमानः। स्वस्थानपिण्डितवपुर्भवति प्रचण्डः शीतेऽनिलानलहरो विधिरिष्यतेऽतः।। इति। तदाधिक्योपशमनाय धातूनां पालनाय च हेमन्ते मधुराम्ललवणरसानां ग्रहणमावश्यकम्। तथाह्युक्तमष्टाङ्गहृदये- बलिनः शीतसंरोधाद् हेमन्ते प्रबलोऽनलः। भवत्यल्पेनधनो धातून् स पचेद्वायुनेरितः। अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान् रसान्।। इति। शैत्याधिक्याद् हेमन्ते निशातिविस्तृता भवति। तस्मात्प्रातः भोजनरसमभिलषति रसना। परन्तु तदाकृतभोजनः शौर्यादि आद्यं विधेयम्। तत्समर्थ्यत अष्टाङ्गहृदये- दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः। अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु।। इति। अस्मिन् समये वातशातनसक्षमं तैलं प्रलेप्य शरीरं बलवत्तरं विधेयम्। किञ्चाधुना पादाघातः समुचितः इति वर्णयन्नाह अष्टाङ्गहृदयकृत्- वातघ्नतैलैरभ्यङ्गं मूर्ध्न तैलं विमर्दनम्। नियुद्धं कुशलैः सार्द्धं पादाघातञ्च युक्तितः।। इति। समयेऽस्मिन् स्नेह्प्राबल्यं भवति। तच्छरीरस्नेहक्षमणाय कषायरसास्वादो युक्तिः। अस्मिन् समये ओष्णपयसा स्नानं विधेयम्। किञ्च वातकोपनिरामयाय कस्तूरिमिश्रितकेशरः अगुरुधूमश्च सेवनीयः। तथाह्युक्तमष्टाङ्गहृदये- कषायापहृतस्नेहस्ततः स्नातो यथाविधि। कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः।। इति। साम्प्रतं रविकरकरः स्वीकरणीयः। “तत्र सेवेत पृष्ठतस्त्वर्कं जठरेण हुताशनम्” इति प्रसिद्धिरेव प्रामाण्यतामापादयति। किञ्चाधुना राङ्कवं नीत्वा शयनं कर्तव्यम्। तथाह्युक्तमष्टाङ्गहृदये- उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्। युक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्वदा।। इति। शिशिरप्रभावादस्मिन् हेमन्ते गृहाः शैत्यापन्नाः भवन्ति। तस्मादधुनाङ्गारेण गृहाः उष्णीकर्तव्याः। तदुष्णीकृतेषु वेश्मषु शयनं सुस्तुतम्। तेन शीतपारुष्यजातो दोषो न भवति। तत्समर्थ्यतेऽष्टाङ्गहृदये- अङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः। शीतपारुष्यजनितो न दोषो जातु जायते।। इति। एवमेव हेमन्तस्य कृत्याकृत्यं सर्वं विविच्य जीवनं पाल्यते चेद् दीर्घं जीवन्ति जीविनः इति शिवम्।। हेमन्तराजकीर्तनम् अनन्तरं यः शरदो द्विमासौ कालस्य सोयं शिशिरस्य लिङ्गम्। नोष्णो न शीतो रमणीयकालो हेमन्तराजः खलु राजमानः।।१।। प्रत्यूषदिष्टे बहुदर्भपूर्णे देशे तुषारैर्हिमबिन्दुभिर्यः। प्रक्षालयन् पादयुगं जनानाम् हेमन्तराजः खलु राजमानः।।२।। आमोदकानां सुहृदां समेषाम् भृङ्गप्रियाणां मधुपूरितेन। महोत्पलानां प्रविलीनकर्ता हेमन्तराजः खलु राजमानः।।३।। वर्षासु धान्यैः कृषकैश्च पक्वै- रुप्तैः समग्रा धरणी श्रमेण। सस्यायमाना सुतरां स यस्मिन् हेमन्तराजः खलु राजमानः।।४।। नीलाम्बरे खेचरसञ्चयो नो यस्मिंश्च वातः प्रमदानुकूलः। आशीतलान्तः पुुरुषप्रेयान् स हेमन्तराजः खलु राजमानः।।५।। हेमन्तर्तुवर्णना आवर्षं प्रतिवर्षं वा सर्वर्तुरम्यः सर्वविधानन्दपूरितो विश्वेऽस्मिन् अन्यतमोऽयमस्माकं भारतभूमिभागः। तत्र संवत्सरन्नो रूपसप्तकेन सवैचित्र्यं सुखयति चेदं ऋतुषट्कम्। तेषु षडृतुष्वन्यतमोऽयं हेमन्तः "मासानां मार्गशीर्षोऽहमि”त्यादिभगवद्वचनमहिमान्वितः मार्गशीर्षे आविर्भवति। तथाहि ऋतुसंहारे महाकविः वर्णयति स्वकीयनवनवोन्मेषशालिप्रज्ञया-- नवप्रवालोद्गमसस्यगम्यः प्रफुल्लोध्रः परिपक्वशालिः। विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम्।।इति। श्लोकेनानेन महाकविः वर्णयति यत्- हेमन्तर्तौ गोधूमेत्यादिकानि सस्यानि अङ्कुरितानि भवन्ति, अत एवास्य ऋतोः रम्यता जायते, शालयोऽपि परिपक्वाः संजाताः, तुषारपतनेन कमलपुष्पाणि सरस्सु नावलोक्यन्ते इत्यादि। शरदं शिशिरं चान्तरा वर्तमानोऽयं हेमन्तर्तुः शिशिराम्भं सूचयति। तस्मात् हेमन्तर्तौ शैत्यानुभूतिः प्रणयात्पूर्वं जायमाना प्रीतिरिव वर्तते। हेमन्तर्तोः हिमस्पर्शेन प्रस्फुटितानि मल्लिकादिपुष्पाणि वायुं सुरभीकुर्वन्ति। तथा च परितः क्षेत्रभरितानि धान्यानि हेमन्तं हेमवन्तं विदधति। पत्राणां पतनकालः हेमन्त एव इति प्रथितमेव। अतः पर्णमोचिनः पर्णिनः पर्णहीनाः सन्तः स्थाणुवद् भवन्ति। वङ्गदेशे हेमन्तर्तौ धान्यफलनलवमाधारीकृत्य अनुष्ठितः नवान्नोत्सवः वङ्गदेशस्य गौरवं तथा ऐतिह्यम् आवहति। नवान्नेऽस्मिन् नवान्ननिर्मितं पायसम् आत्मीयेषु वितीर्यते। हेमन्तवर्णनस्योपसंहारं कुर्वन् महाकविः कालिदासः ऋतुसंहारस्य अस्मिन् श्लोकेन वर्णयति-- बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमः। सततमतिमनोगः क्रौञ्चमालापरीतः प्रदिशतु हिमयुक्तः काल एष सुखं वः।। इत्येवं श्लोकेन महाकविः अस्यर्तोः बहूनां गुणानां निर्देशं करोति। तथाहि ऋतुरयम् अनेकगुणसम्पन्नत्वादतिरमणीयः रमणीनं चित्तं हरति। सर्वत्र ग्रामेषु अनेकप्रकारकाः शालयः साम्प्रतमुपलभ्यन्ते। अस्मिन् ऋतौ क्रौञ्चपक्षिणां समूहः समुपलभ्यते, एतादृशोऽयं कालः समेषां पाठकानां मङ्गलप्रदो भवतु इति। आयुर्वेदे हेमन्तर्तुः आरोग्यलाभस्य श्रेष्ठकाल इति कीर्तितम्। हेमन्तर्तौ शारीरिकदोषाः सुष्ठुत्वमाप्नुवन्ति। कल्याणकारकेऽस्मिन् ऋतौ शरीराभ्यन्तराग्निः वर्धतेऽतः शरीरस्य प्रतिरक्षादिबलमपि वर्धते। तथाहि चरकेणापि महावैद्येन उक्तम्--- शीते शीतानिलस्पर्शसंरुद्भ्यो बलिनो ललीः। पक्ता भवति इत्यादि। एवमेव बहुलीलाललितोऽयं हेमन्तः सदा नः सुखदः शुभदश्च भूत्वा पिकस्य वर्षागमः इव शिशिरस्यागमनमुद्घोषयतीति शिवम्।।

"https://sa.wikisource.org/w/index.php?title=हेमन्तवैभवम्&oldid=107256" इत्यस्माद् प्रतिप्राप्तम्