सामग्री पर जाएँ

हितोपदेशः ०६

विकिस्रोतः तः

अस्ति ब्रह्मारण्ये कर्प्ूरतिलको नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । ततस्तन्मध्याद् एकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया बुद्धिप्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच्देव ! दृष्टिप्रसादं कुरु । हस्ती ब्रूतेकस्त्वम् कुतः समायातः सोऽवदत्जम्बुकोहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवीराज्येभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । यतः <poem> कुलाचारजनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥१८८॥

अपरं च पश्य् राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्य् असति लोकेस्मिन् कुतो भार्या कुतो धनम् ॥१८९॥

अन्यच्च पर्जन्य इव भूतानाम् आधारः पृथिवीपतिः । विकलेपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥१९०॥

किं च् नियतविषयवर्ती प्रायशो दण्डयोगाज् जगति परवशेस्मिन् दुर्लभः साधुवृत्तेः । कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुलनारी दण्डभीत्याभ्युपैति ॥१९१॥

तद् यथा लग्नवेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततोसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्सखे शृगाल ! किम् अधुना विधेयम् महापङ्के पतितोहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्

यदासत्सङ्गरहितो भविष्यसि भविष्यसि । यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥१९२॥

ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोहं ब्रवीमिुपायेन हि यच् छक्यम् इत्य् आदि । ततस्तद्धितवचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्जलाशयम् उत्सृज्य प्रचलितः । तेपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास्तम् अनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्योस्मीत्य् अभिधाय भ्रमणक्लेशात् क्षुत्पिपासाकुलः स्वगृहाभिमुखं प्रयातः । अथ ते मृगवायसमूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । ततो हिरण्यको विलपति

एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुलीभवन्ति ॥१९३॥

स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्अकृत्रिमसौहार्दम् आपत्स्व् अपि न मुञ्चति ॥१९४॥

अपि च् न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस्तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥१९५॥

इति मुहुः विचिन्त्य प्राहहो मे दुर्दैवम् । यतः स्वकर्मसन्तानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥१९६॥

अथवा इत्थम् एवैतत् । कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥१९७॥

पुनर्विमृश्याह् शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षरद्वयम् ॥१९८॥

किं च् मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत् सुखदुःखयोः समम् इदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥१९९॥

इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकाव् आह्यावद् अयं व्याधो वनान् न निःसरति, तावन्मन्थरं मोचयितुं यत्नः क्रियताम् । ताव् ऊचतुःसत्वरं यथाकार्यम् उपदिश । हिरण्यको ब्रूतेचित्राङ्गो जलसमीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृगमांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततोहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश्चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोरधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जलसमीपे निधाय कर्तरिकाम् आदाय प्रहृष्टमना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरुतलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्ुचितम् एवैतत् ममासमीक्ष्यकारिणः । यतः

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ॥२००॥

ततोसौ स्वकर्मवशान् निराशः कटकं प्रविष्टः । मन्थरादयश्च सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखम् आस्थिताः । अथ राजपुत्रैः सानन्दम् उक्तम्सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णुशर्मोवाचेतद् भवताम् अभिलषितम् अपि सम्पन्नम् । अपरम् अपीदम् अस्तु

मित्रं यान्तु च सज्जना जनपदैर्लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ॥२०१॥

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_०६&oldid=23513" इत्यस्माद् प्रतिप्राप्तम्