हितोपदेशः०१

विकिस्रोतः तः
Jump to navigation Jump to search

मङ्गलाचरणम्[सम्पाद्यताम्]

 
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥१॥

श्रुतो हितोपदेशोयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥२॥

विद्याप्रशंसा[सम्पाद्यताम्]

 
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥३॥

सर्वद्रव्येषु विद्यैव द्रव्यम् आहुरनुत्तमम् ।
अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥४॥

संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥५॥

विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥६॥

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥७॥

यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तद् इह कथ्यते ॥८॥

मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।
पञ्चतन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥९॥

अथ कथामुखम्[सम्पाद्यताम्]

अस्ति भागीरथीतीरे पाटलिपुत्रनामधेयं नगरम् । तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पाठ्यमानं श्लोकद्वयं शुश्राव ।

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥१०॥

यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥११॥

इत्याकर्ण्यात्मनः पुत्राणाम् अनधिगतशास्त्राणां नित्यम् उन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास ।

कोर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥१२॥

अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥१३॥

किं च..
वरं गर्भस्रावो वरमपि च नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यैवजनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिः
न वा विद्वान् रूपद्रविणगुणयुक्तोपि तनयः ॥१४॥

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥१५॥

अन्यच्च....
गुणिगणगणनारम्भे
न पतति कठिनी ससम्भ्रमाद् यस्य ।
तेनाम्बा यदि सुतिनी
वद वन्ध्या कीदृशी नाम ॥१६॥

अपि च
दाने तपसि शौर्ये च यस्य न प्रथितं मनः ।
विद्यायाम् अर्थलाभे च मातुरुच्चार एव सः ॥१७॥

अपरं च
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रमस्तमो हन्ति न च तारागणैरपि ॥१८॥

पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥१९॥

तथा चोक्तम्
अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥२०॥

को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ॥२१॥

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥२२॥

यस्य कस्य प्रसूतोपि गुणवान् पूज्यते नरः ।
धनुर्वंशविशुद्धोपि निर्गुणः किं करिष्यति ॥२३॥

हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥२४॥

तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् यतः
आहारनिद्राभयमैथुनानि सामान्यम् एतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥२५॥
 
यतः
धर्मार्थकाममोक्षाणां यस्यैकोपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥२६॥

यच् चोच्यते
आयुः कर्म च वित्तं च विद्या निधनम् एव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥२७॥

किं च्
अवश्यं भाविनो भावा भवन्ति महताम् अपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥२८॥

अन्यच्च
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
इति चिन्ताविषघ्नोयम् अगदः किं न पीयते ॥२९॥

एतत् कार्याक्षमाणां केषांचिद् आलस्यवचनम् । पुरुषकारौत्कार्ष्यम् आह्

यथा ह्य् एकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥३०॥

तथा च्
पूर्वजन्मकृतं कर्म तद् दैवम् इति कथ्यते ।
तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥३१॥

न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ॥३२॥

अन्यच्च
उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीर्
दैवेन देयम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या
यत्ने कृते यदि न सिध्यति कोत्र दोषः ॥३३॥

यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति ।
एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते ॥३४॥

काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः ।
न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३६॥
 
तथा चोक्तं
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥३७॥

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥३८॥

अपरच्च
पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सम्भामध्ये जारगर्भ इव स्त्रियाः ॥३९॥

एतच् चिन्तयित्वा राजा पण्डितसभां कारितवान् । राजोवाच। भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्गगामिनाम् अनधिगतशास्त्राणाम् इदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः यतः


काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥४०॥

उक्तं च
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समताम् एति विशिष्टैश्च विशिष्टताम् ॥४१॥

अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत् देव महाकुलसम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः


नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत् पाठ्यते बकः ॥४२॥

अन्यच्च
अस्मिंस्तु निर्गुणं गोत्रे नापत्यम् उपजायते ।
आकरे पद्यरागानां जन्म काचमणेः कुतः ॥४३॥

अतोहं षण्मासाभ्यन्तरे भवत्पुत्रान् नीतिशास्त्राभिज्ञान् करिष्यामि । राजा सविनयं पुनरुवाच ।

कीटोपि सुमनःसङ्गाद् आरोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥४४॥

अन्यच्च
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोपि दीप्यते ॥४५॥

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
आस्वादुतोयाः प्रभवन्ति नद्यः
समुद्रम् आसाद्य भवन्त्यपेयाः ॥४६॥

तद् एतेषाम् अस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णुशर्मणो करे बहुमानपुरःसरं पुत्रान् समर्पितवान् ॥

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः०१&oldid=118280" इत्यस्माद् पुनः प्राप्तिः