हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०२५

विकिस्रोतः तः
← अध्यायः ०२४ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०२५
[[लेखकः :|]]
अध्यायः ०२६ →
नारदादिभिः ब्राह्मणानां ब्रह्मणः च सत्कारं, ब्रह्मणा कश्यपाय यज्ञानुष्ठानस्यादेशं, देवदानवयुद्धं, विष्णुना मधोः पराजयम्

पञ्चविंशोऽध्यायः

वैशम्पायन उवाच
ते तु गोब्राह्मणा नागाश्चन्द्रादित्यपुरस्कृताः ।
ब्राह्मणान् पूजयन्देवान् वसुभिर्ब्रह्मसम्भवैः ।। १ ।।
नारदप्रमुखाश्चैव गन्धर्वा ऋषयो नृप ।
कुर्वन्ति सततं यज्ञे क्रमप्राप्तं पितामहम् ।। २ ।।
वचोभिर्मधुराभाषैः पञ्चेन्द्रियनिवासिभिः ।
सर्वभूतप्रियकरैः सर्वभूतहितैषिभिः ।। ३ ।।
स्तूयमानश्च यज्ञान्ते पञ्चेन्द्रिमसमाहितैः ।
प्रोवाच भगवान्ब्रह्मा दिष्ट्या दिष्ट्येति भारत ।। ४ ।।
ततः कश्यपमाभाष्य प्रोवाच भगवान् प्रभुः ।
भवानपि सुतैः सार्धं यक्ष्यते वसुधातले ।। ५ ।।
क्रतुभिः परमप्राप्तैः सम्पूर्णवरदक्षिणैः ।
यक्षाः सुराश्च ते सर्वे यथा प्रतिगुणैः प्रभो ।। ६ ।।
वयं यक्ष्यामहे पूर्वं पूर्वं यक्ष्यामहे वयम्।
एवमन्योन्यसंरम्भाद् विद्यन्ते बलदर्पिताः ।। ७ ।।
दैतेयाश्चाप्यदैतेयाः परस्परजयैषिणः ।
युद्धायैव प्रतिष्ठन्ति प्रगृह्य विपुलौ भुजौ ।। ८ ।।
निवार्यमाणा ऋषिभिस्तपसा दग्धकिल्बिषैः ।
अन्यैश्च विविधैर्विप्रैर्वेदवेदाङ्गपारगैः ।। ९ ।।
निवार्यमाणा युध्यन्ते वृषभा इव गोकुले ।
प्रयुद्धा युद्धसंक्रान्ताः सर्वे प्राणजयैषिणः ।। 3.25.१० ।।
पश्यतां सर्वभूतानां मृत्योर्विषयमागताः ।
ततः शब्देन महता परं कृत्वा महाबलाः ।। ११ ।।
रुन्धन्ति बाहुभिः क्रुद्धाः सपक्षा इव पक्षिणः ।
चचाल वसुधा चैव पादाक्रान्ता च रोषिभिः ।। १२ ।।
नौर्यथा पुरुषाक्रान्ता निषीदति महाजले ।
पर्वताश्च विशार्यन्ते नर्दमाना गजा इव ।। १३ ।।
चुक्षुभुश्च महानद्यस्ताडिता मातरिश्वना ।
ततः समभवद् युद्धं मधोर्विष्णोश्च भारत ।। १४ ।।
युगान्तकरणं घोरं सर्वप्राणिभयंकरम् ।
प्रममाथ मधोविर्ष्णुः समग्रं बलपौरुषम् ।। १५ ।।
वह्नेरिव बलं दीप्तं शमयत्यम्बुना यथा ।
तथा प्रशमितं तेन प्रभुणा ह्युपकारिणा ।। १६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पञ्चविंशोऽध्यायः ।। २५ ।।