हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०२४

विकिस्रोतः तः
← अध्यायः ०२३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०२४
[[लेखकः :|]]
अध्यायः ०२५ →
चतुर्षु आश्रमेषु स्थितानां ब्राह्माणानां ब्रह्मणः यज्ञस्थलस्य पुण्यप्रदेशे वस्तुं कामना

चतुर्विंशोऽध्यायः

वैशम्पायन उवाच
बलिर्होमाश्च वर्धन्ते अहन्यहनि भारत ।
द्विजानां तपसाढ्यानां गृहधर्मेषु तिष्ठताम् ।। १ ।।
देवतार्चाश्च पूज्यन्ते तदा प्रभृति भारत ।
तेषां ब्रह्मविदां राजन् पृथिव्यां ब्रह्मवादिभिः ।। २ ।।
तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।
प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि ।। ३ ।।
वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः ।। ४ ।।
गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।
यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षिणः ।। ५ ।।
वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः ।
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहताः ।। ६ ।।
दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।
चीरवल्कलसंवीता नियता नियतेन्द्रियाः ।। ७ ।।
चरन्तो ब्रह्मचर्यं च व्रतमास्थाय दारुणम् ।
अनेन विधिना राजन् कर्मप्राप्तेन सर्वशः ।। ८ ।।
क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ताः सनातनम् ।
पूर्वैराचरितं राजन् मुनिभिर्ब्रह्मवादिभिः ।। ९ ।।
नावेदविद्वानागच्छेन्नापि रौद्रं व्रतं चरेत्।
न च त्यागेन गच्छेत गृहधर्मं न च त्यजेत् ।। 3.24.१० ।।
नैव गच्छेत दुःस्थानमप्राप्तो वेदसंचयम्।
ऋचश्च संचयः पूर्वः सामगानां च भारत ।। ११ ।।
ये चापि पुत्रिणो न स्युः श्रुत्यापि प्राप्नुयुः फलम्।
ब्राह्मणास्तपसा श्रान्ता गुरोश्च परिचर्यया ।। १२ ।।
यस्य नैव श्रुतं ब्रह्म न गृहीतं विशाम्पते ।
काम तं धार्मिको राजा शूद्रकर्माणि कारयेत् ।। १३ ।।
अथवा नैव विद्येत यद् ब्रह्म नाद्रियेद् द्विजः ।
द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहितम् ।। १४ ।।
एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समाचरेत् ।
ब्राह्मणो भूतिसम्पन्नो य इच्छेद् भूतिमात्मनः।। १५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे चतुर्विंशोऽध्यायः ।। २४ ।।