हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६५ हरिवंशपुराणम्
अध्यायः ०६६
वेदव्यासः
अध्यायः ०६७ →
श्रीकृष्णेन सत्यभामायाः माननं एवं सत्यभामया मानसिकं खेदं प्रकटयित्वा तपस्यायै अनुमतेः पृच्छा

षट्षष्टितमोऽध्यायः

वैशम्पायन उवाच
उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ।। १ ।।
जगाम त्वरितश्चैव सत्यभामागृहं महत् ।
रम्ये रैवतकोद्देशै निर्मितं विश्वकर्मणा ।। २ ।।
अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् ।
जानन् सात्राजितीं विष्णुर्विवेश शनकैरिव ।। ३ ।।
रुषितामिव तां देवीं स्नेहात् संकल्पयन्निव ।
भीतभीतः स शनकैर्विवेश मधुसूदनः ।। ४ ।।
सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह ।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः ।। ५ ।।
स ददर्श प्रियां दूरात् क्रोधागारगतां तदा ।
प्रेष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः ।। ६ ।।
करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।
संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः ।। ७ ।।
किंचिदाकुलिताग्रेण चरणेन वसुन्धराम् ।
कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः ।। ८ ।।
करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च ।
वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ।। ९ ।।
सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् ।
प्रह्लादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ।। 2.66.१० ।।
पुनरुत्थाय शयनात् पतन्तीं च पुनः पुनः ।
तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः ।। ११ ।।
अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत्।
इदमन्तरमित्येवं तदा गत्वा जनार्दनः ।। १२ ।।
प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि संज्ञया ।
स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम् ।। १३ ।।
ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः ।
शनैरिवासृजद् वातं जहास शनकैरिव ।। १४ ।।
स पारिजातपुष्पस्य संसर्गादनुवासितः ।
बभार भगवान् गन्धं दिव्यं मानुषदुर्लभम् ।। १५ ।।
अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।
अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत् ।। १६ ।।
सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता ।
पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा ।। १७ ।।
ताः पृष्टास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।
अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा ।। १८ ।।
तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी ।
कथमेकतरस्तस्या गन्धोऽयमिति तत् खलु ।। १९ ।।
किंन्विदं स्यादिति च सा विवेक्षन्ती समन्ततः ।
ददृशे केशवं देवी सहसा लोकभावनम् ।। 2.66.२० ।।
युज्यतीति ततोवाच सहसास्राविलेक्षणा ।
अवतिक्तेव रोषेण बभूव प्रणयान्विता ।। २१ ।।
सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।
मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा ।। २२ ।।
निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने ।
निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम् ।। २३ ।।
तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्यामवश्यायजलं यथा ।। २४ ।।
समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।
प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः ।। २५ ।।
अथोरसि पतत्तोयं श्रीवत्साङ्कोऽम्बुजेक्षणः ।
प्रियानयनजं देवः परिमृज्येदमब्रवीत् ।। २६ ।।
स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ।
तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम् ।। २७ ।।
प्रभाते पूर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।
बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे ।। २८ ।।
किमर्थं कौङ्कुमं वासो महाराजतमेव च ।
नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते ।। २९ ।।
वासस्येते तवाभीष्टे महारजतकौंकुमे ।
देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रियाः ।। 2.66.३० ।।
किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।
चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि ।। ३१ ।।
श्वेतेन तव पट्टेन वाससा प्रियदर्शने ।
ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना ।। ३२ ।।
सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।
प्रभोपमर्दं केनापि कारणेनाननस्य च ।
करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये ।। ३३ ।।
प्रसृतश्चन्दनरसः कपोलप्रणयी तव ।
पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ।। ३४ ।।
रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते ।
ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी ।। ३५ ।।
पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।
किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना ।। ३६ ।।
अर्द्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे ।
मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम् ।। ३७ ।।
अलमिन्दीवरश्यामे रुदितेन मनस्विनि ।
जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् ।। ३८ ।।
त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः ।
नाज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि ।। ३९ ।।
किमकार्षमहं देवि विप्रियं तव भामिनि ।
येनातिमात्रमात्मानमायासयसि सुन्दरि ।। 2.66.४० ।।
मनसा कर्मणा वाचा न त्वामतिचराम्यहम् ।
सर्वथा सर्वचार्वङ्गि सत्यमेतद् ब्रवीम्यहम् ।। ४१ ।।
बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने ।
स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे ।। ४२ ।।
नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः ।
इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ।। ४३ ।।
क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः ।
ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम ।। ४४ ।।
रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।
कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम।। ४५ ।।
एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम्।
शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ।। ४६ ।।
मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो ।
अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम्।। ४७ ।।
नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् ।
अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवाम् ।। ४८ ।।
अमृताया द्वितीयोऽपि जन्मौहि मम सर्वथा ।
किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत ।। ४९ ।।
वाङ्मात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यते ।
मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः ।। 2.66.५० ।।
ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।
अवजानासि जानन् मां कैतवीं वृत्तिमास्थितः ।। ५१ ।।
एतावदस्तु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् ।
श्रुतं चाप्यद्य यच्छ्राव्यं दृष्टः स्नेहफलोदयः ।। ५२ ।।
यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि ।
तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम ।। ५३ ।।
भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा ।
निष्फलं खलु यद् भर्तुरच्छन्देन क्रियेत हि ।। ५४ ।।
इतीदमुक्त्वा पुनरेव शोभना मुमोच तोयं नयनोद्भवं सती ।
ग्रहाय पीतं हरिवाससः शुभा पटान्तमाधाय मुखे शुचिस्मिता ।५५।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे षट्षष्टितमोऽध्यायः ।। ६६ ।।