हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२६ हरिवंशपुराणम्
अध्यायः १२७
वेदव्यासः
अध्यायः १२८ →
अनिरुद्धस्य नागपाशतः मुक्तिः, तेन श्रीकृष्णादीनां वन्दनं, नारदस्य कथनेन तस्य वीर्यविवाहं, उषायाः विदायम, सर्वेषां द्वारकायां प्रस्थानम्, मार्गे श्रीकृष्णेन वरुणोपरि जयः, वरुणेन श्रीकृष्णस्य स्तुतिः पूजा च, श्रीकृष्णस्यागमनेन द्वारकावासिनां हर्षं, भगवतः आदेशात् पुरवासिभिः देवानां वन्दनं, इन्द्रेण श्रीकृष्णस्य प्रशंसा, सर्वेषां देवानां ऋषीणां च स्व स्व स्थाने गमनम्

सप्तविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
एवं वरान् बहून् प्राप्य बाणः प्रीतमनाऽभवत् ।
जगाम सह रुद्रेण महाकालत्वमागतः ।। १ ।।
वासुदेवोऽपि बहुधा नारदं पर्यपृच्छत ।
क्वानिरुद्धोऽस्ति भगवन्संयतो नागबन्धनैः ।। २ ।।
श्रोतुमिच्छामि तत्त्वेन स्नेहक्लिन्नं हि मे मनः ।
अनिरुद्धे हृते वीरे क्षुभिता द्वारका पुरी ।। ३ ।।
शीघ्रं तं मोक्षयिष्यामो यदर्थं वयमागताः ।
अद्य तं नष्टशत्रुं वै द्रष्टुमिच्छामहे वयम् ।। ४ ।।
स प्रदेशस्तु भगवन् विदितस्तव सुव्रत ।
एवमुक्तस्तु कृष्णेन नारदः प्रत्यभाषत ।। ५।।
कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव ।
एतस्मिन्नन्तरे शीघ्रं चित्रलेखा ह्युपस्थिता ।। ६ ।।
बाणस्योत्तमशर्वस्य दैत्येन्द्रस्य महात्मनः ।
इदमन्तःपुरं देव प्रविशस्व यथासुखम् ।। ७ ।।
ततः प्रविष्टास्ते सर्वे ह्यनिरुद्धस्य मोक्षणे ।
बलः सुपर्णः कृष्णस्तु प्रद्युम्नो नारदस्तथा ।। ८ ।।
ततो दृष्ट्वैव गरुडं येऽनिरुद्धशरीरगाः ।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः ९ ।।
ते सर्वे सहसा देहात् तस्य निःसृत्य भोगिनः ।
क्षितिं समभिवर्तित्वा प्रकृत्यावस्थिताः शराः ।। 2.127.१० ।।
दृष्टः स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महायशाः ।
स्थितः प्रीतमना भूत्वा प्राञ्जलिर्वाक्यमब्रवीत् ।। ११ ।।
अनिरुद्ध उवाच
देवदेव सदा युद्धे जेता त्वमसि केशव ।
न शक्तः प्रमुखे स्थातुं साक्षादपि शतक्रतुः ।। १२ ।।
ततो महाबलं देवं बलभद्रं यशस्विनम् ।
अभिवादयते हृष्टः सोऽनिरुद्धो महामनाः ।। १३ ।।
माधवं च महात्मानमभिवाद्य कृताञ्जलिः ।
खगोत्तमं महावीर्यं सुपर्णमभिवाद्य च ।। १४ ।।
ततो मकरकेतुं च चित्रबाणधरं प्रभुम् ।
पितरं सोऽभ्युपागम्य प्रद्युम्नमभिवादयत् ।। १५ ।।
सखीगणधृता चैव सा चोषा भवने स्थिता ।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम् ।। १६ ।।
असंख्यातगतिं चैव सुपर्णमभिवाद्य च ।
पुष्पबाणधरं चैव लज्जमानाभ्यवादयत् ।। १७ ।।
ततः शक्रस्य वचनान्नारदः परमद्युतिः ।
वासुदेवसमीपं स प्रहसन् पुनरागतः ।। १८ ।।
वर्द्धापयति तं देवं गोविन्दं शत्रुसूदनम् ।
दिष्ट्या वर्द्धसि गोविन्द अनिरुद्धसमागमात् ।। १९ ।।
ततोऽनिरुद्धसहिता नारदं प्रणताः स्थिताः ।
आशीर्भिर्वर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत् ।। 2.127.२० ।।
अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो ।
जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते ।। २१ ।।
ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात् ।
कृष्णः प्रोवाच भगवन्क्रियतामाशु मा चिरम् ।। २२ ।।
एतस्मिन्नन्तरे तात कुम्भाण्डः समुपस्थितः ।
वैवाहिकांस्तु सम्भारान्गृह्य कृष्णं नमस्य तु ।। २३ ।।
कुम्भाण्ड उवाच
कृष्ण कृष्ण महाबाहो भव त्वमभयप्रदः ।
शरणागतोऽस्मि देवेश प्रसीदैषोऽञ्जलिस्तव ।। २४ ।।
नारदस्य वचः श्रुत्वा सर्वं प्रागेव चाच्युतः ।
अभयं यच्छते तस्मै कुम्भाण्डाय महात्मने ।। २५ ।।
कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतोऽस्मि तव सुव्रत ।
सुकृतं ते विजानामि राष्ट्रिकोऽस्तु भवानिह ।। २६ ।।
सज्ञातिपक्षः सुसुखी निर्वृतोऽस्तु भवानिह ।
राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात् ।। २७ ।।
एवं दत्त्वा राज्यमस्मै कुम्भाण्डाय महात्मने ।
विवाहमकरोत् तस्यानिरुद्धस्य जनार्दनः ।
ततस्तु भगवान् वह्निस्तत्र स्वयमुपस्थितः ।। २८ ।।
स विवाहोऽनिरुद्धस्य नक्षत्रे च शुभेऽभवत् ।
ततोऽप्सरोगणश्चैव कौतुकं कर्तुमुद्यतः ।। २९ ।।
स्नातस्त्वलंकृतस्तत्र सोऽनिरुद्धः स्वभार्यया ।
ततः स्निग्धैः शुभैर्वाक्यैर्गन्धर्वाश्च जगुस्तदा ।। 2.127.३० ।।
नृत्यन्त्यप्सरसश्चैव विवाहमुपशोभयन् ।
ततो निर्वर्तयित्वा तु विवाहं शत्रुसूदनः ।। ३१ ।।
अनिरुद्धस्य सुप्रज्ञः सर्वैर्देवगणैर्वृतः ।
आमन्त्र्य वरदं तत्र रुद्रं देवनमस्कृतम् ।। ३२ ।।
चकार गमने बुद्धिं कृष्णः परपुरंजयः ।
द्वारकाभिमुखं कृष्णं ज्ञात्वा शत्रुनिषूदनम् ।। ३३ ।।
कुम्भाण्डो वचनं प्राह प्राञ्जलिर्मधुसूदनम् ।
बाणस्य गावस्तिष्ठन्ति हस्ते तु वरुणस्य वै ।। ३४ ।।
यासाममृतकल्पं वै क्षीरं क्षरति माधव ।
तत् पीत्वातिबलश्चैव नरो भवति दुर्जयः ।। ३५ ।।
कुम्भाण्डेनैवमाख्याते हरिः प्रीतमनास्तदा ।
गमनाय मतिं चक्रे गन्तव्यमिति निश्चयम् ।। ३६ ।।
ततस्तु भगवान्ब्रह्मा वर्धाप्य स तु केशवम् ।
जगाम ब्रह्मलोकं स वृतः स्वभवनालयैः ।। ३७ ।।
इन्द्रो मरुद्गणयुतो द्वारकाभिमुखो ययौ ।
ततः कृष्णस्ततः सर्वे गच्छन्ति जयकाङ्क्षिणः ।। ३८ ।।
वाहनेन मयूरेण सखीभिः परिवारिता ।
द्वारकाभिमुखी ह्यूषा देव्या प्रस्थापिता ययौ ।। ३९
ततो बलश्च कृष्णश्च प्रद्युम्नश्च महाबलः ।
आरूढवन्तो गरुडमनिरुद्धश्च वीर्यवान् ।। 2.127.४० ।।
प्रस्थितश्च स तेजस्वी गरुडः पततां वरः ।
उन्मूलयंस्तरुगणान् कम्पयंश्चापि मेदिनीम् ।। ४१ ।।
आकुलाश्च दिशः सर्वा रेणुध्वस्तमिवाम्बरम् ।
गरुडे सम्प्रयातेऽभून्मन्दरश्मिर्दिवाकरः ।। ४२ ।।
ततस्ते दीर्घमध्वानं प्रययुः पुरुषर्षभाः ।
आरुह्य गरुडं सर्वे जित्वा बाणं महौजसम् ।। ४३ ।।
ततोऽम्बरतलस्थास्ते वारुणीं दिशमास्थिताः ।
अपश्यन्त महात्मानो गावो दिव्यपयःप्रदाः ।
वेलावनविचारिण्यो नानावर्णाः सहस्रशः ।। ४४ ।।
अवज्ञाय तदा रूपं कुम्भाण्डवचनाश्रयात् ।
कृष्णः प्रहरतां श्रेष्ठस्तत्त्वतोऽर्थविशारदः ।। ४५ ।।
निशम्य बाणगावस्तु तासु चक्रे मनस्तदा ।
आस्थितो गरुडं प्राह स तु लोकादिरव्ययः ।। ४६ ।।
श्रीकृष्ण उवाच
वैनतेय प्रयाहि त्वं यत्र बाणस्य गोधनम् ।
यासां पीत्वा किल क्षीरममृतत्वमवाप्नुयात् ।। ४७ ।।
आह मां सत्यभामा च बाणगावो ममानय ।
यासां पीत्वा किल क्षीरं न जीर्यन्ति महासुराः ।। ४८ ।।
विजराश्च जरां त्यक्त्वा भवन्ति किल जन्तवः ।
ता आनयस्व भद्रं ते यदि धर्मो न लुप्यते ।। ४९ ।।
अथवा कार्यलोपो वै मैव तासु मनः कृथाः ।
इति मामब्रवीत् सत्या ताश्चैता विदिता मम ।। 2.127.५० ।।
गरुड उवाच
दृश्यन्ते गाव एतास्ता दृष्ट्वा मां वरुणालयम् ।
विशन्ति सहसा सर्वाः कार्यमत्र विधीयताम् ।। ५१ ।।
इत्युक्त्वा चैव गरुडः पक्षवातेन सागरम् ।
सहसा क्षोभयित्वा च विवेश वरुणालयम् ।। ५२ ।।
दृष्ट्वा जवेन गरुडं प्राप्तं वै वरुणालयम् ।
वारुणाश्च गणाः सर्वे विभ्रान्ताः प्राचलंस्तदा।। ५३ ।।
ततस्तु वारुणं सैन्यमभियातं सुदुर्जयम् ।
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम् ।
तद् युद्धमभवद् घोरं वारुणैः पन्नगारिणा ।। ५४ ।।
तेषामापततां संख्ये वारुणानां सहस्रशः ।
भग्नं बलमनाधृष्यं केशवेन महात्मना ।। ५५ ।।
ततस्ते प्रद्रुता यान्ति तमेव वरुणालयम्।
षष्टिं रथसहस्राणि षष्टिं रथशतानि च ।। ५६ ।।
वारुणानि च युद्धानि दीप्तशस्त्राणि संयुगे ।
तद् बलं बलिभिः शूरैर्बलदेवजनार्दनैः ।। ५७ ।।
प्रद्युम्नेनानिरुद्धेन गरुडेन च सर्वशः ।
शरौघैर्विविधैस्तीक्ष्णैर्वध्यमानं समन्ततः ।। ५८ ।।
ततो भग्नं बलं दृष्ट्वा कृष्णेनाक्लिष्टकर्मणा ।
वरुणस्त्वथ संकुद्धो निर्ययौ यत्र केशवः ।। ५९ ।।
ऋषिभिर्देवगन्धर्वैस्तथैवाप्सरसां गणैः ।
संस्तूयमानो बहुधा वरुणः प्रत्यदृश्यत ।। 2.127.६० ।।
छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं चापमुद्यम्य धिष्ठितः ।। ६१ ।।
अपां पतिरतिक्रुद्धः पुत्रपौत्रबलान्वितः ।
आह्वयन्निव युद्धाय विस्फारितमहाधनुः ।। ६२ ।।
स तु प्राध्मापयच्छङ्खं वरुणः समधावत ।
हरिं हर इव क्रुद्धो बाणजालैः समावृणोत् ।। ६३ ।।
ततः प्रध्माय जलजं पाञ्चजन्यं जनार्दनः ।
बाणजालैर्दिशः सर्वास्ततश्चक्रे महाबलः ।। ६४ ।।
ततः शरौघैर्विमलैर्वरुणः पीडितो रणे ।
स्मयन्निव ततः कृष्णं वरुणः प्रत्ययुध्यत ।। ६५ ।।
ततोऽस्त्रं वैष्णवं घोरमभिमन्त्र्याहवे स्थितः ।
वासुदेवोऽब्रवीद् वाक्यं प्रमुखे तस्य धीमतः ।। ६६ ।।
इदमस्त्रं महाघोरं वैष्णवं शत्रुसूदनम् ।
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव ।। ६७ ।।
ततोऽस्त्रं वरुणो देवो ह्यस्त्रं वैष्णवमुद्यतः ।
वारुणास्त्रेण संयोज्य विननाद महाबलः ।। ६८ ।।
तस्यास्त्रे वितता ह्यापो वरुणस्य विनिःसृताः ।
वैष्णवास्त्रस्य शमने वर्तते समितिंजयः ।। ६९।।
आपस्तु वारुणास्तत्र क्षिप्ताः क्षिप्ता ज्वलन्ति वै।
दह्यन्ते वारुणास्तत्र ततोऽस्त्रे ज्वलिते पुनः ।। 2.127.७० ।
वैष्णवे तु महावीर्ये दिशो भीता विदुद्रुवुः ।
तद् बलं ज्वलितं दृष्ट्वा वरुणः कृष्णमब्रवीत् ।। ७१ ।।
स्मर स्वप्रकृतिं पूर्वामव्यक्तां व्यक्तलक्षणाम् ।
तमो जहि महाभाग तमसा मुह्यसे कथम् ।। ७२ ।।
सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते ।
पञ्चभूताश्रयान् दोषानहंकारं च वर्जय ।। ७३ ।।
या या ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव ।
ज्येष्ठभावेन मान्यं तु किं मां त्वं दग्धुमिच्छसि ।। ७४ ।।
नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर ।
त्वयि न प्रभविष्यामि जगतः प्रभवो ह्यसि ।। ७५ ।।
पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका ।
धर्मिणी बीजभावेन पूर्व धर्मं समाश्रिता ।। ७६ ।।
आग्नेयं वैष्णवं सौम्यं प्रकृत्यैवेदमादितः ।
त्वया सृष्टं जगदिदं स कथं मयि वर्तसे ।। ७७
अजेयः शाश्वतो देवः स्वयम्भूर्भूतभावनः ।
अक्षरं च क्षरं चैव भावाभावौ महाद्युते ।। ७८ ।।
रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते ।
आदिकर्तासि लोकानां त्वयैतद् बहुलीकृतम्।। ७९ ।।
विक्रीडसि महादेव बालः क्रीडनकैरिव ।
न ह्यहं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः ।। 2.127.८० ।।
प्रकृतिर्या विकारेषु वर्तते पुरुषर्षभ ।
तस्या विकारशमने वर्तसे त्वं महाद्युते ।। ८१ ।।
विकारो वा विकाराणां विकाराय न तेऽनघ ।
तानधर्मविदो मन्दान् भवान् विकुरुते सदा ।। ८२ ।।
इदं प्रकृतिजैर्दोषैस्तमसा मुह्यते यदा ।
रजसा वापि संस्पृष्टं तदा मोहः प्रवर्तते ।। ८३ ।।
परावरज्ञः सर्वत्र ऐश्वर्यविधिमास्थितः ।
किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम् ।। ८४ ।।
वरुणेनैवमुक्तस्तु कृष्णो लोकपरायणः ।
भावज्ञः सर्वकृद् धीरस्ततः प्रीतमना ह्यभूत् ।। ८५ ।।
इत्येवमुक्तः कृष्णस्तु प्रहसन् वाक्यमब्रवीत् ।
श्रीकृष्ण उवाच
गावः प्रयच्छ मे वीर शान्त्यर्थं भीमविक्रम ।। ८६ ।।
इत्येवमुक्ते कृष्णेन वाक्यं वाक्यविशारदः ।
वरुणो ह्यब्रवीद् भूयः शृणु मे मधुसूदन ।। ८७ ।।
वरुण उवाच
बाणेन सार्धं समयो मया देव कृतः पुरा ।
कथं च समयं कृत्वा कुर्यां विफलमन्यथा ।। ८८ ।।
त्वमेव वेद सर्वस्य यथा समयभेदकः ।
चारित्रं दुष्यते तेन न च सद्भिः प्रशस्यते ।। ८९ ।।
धर्मभाग्भिर्नरो नित्यं वर्ज्यते मधुसूदन ।
न च लोकानवाप्नोति पापः समयभेदकः ।। 2.127.९० ।।
प्रसीद धर्मलोपश्च मा भून्मे मधुसूदन ।
न मां समयभेदेन योक्तुमर्हसि माधव ।। ९१ ।।
जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण ।
हत्वा नयस्व मां गाव एष मे समयः पुरा ।। ९२ ।।
एतच्च मे समाख्यातं समयं मधुसूदन ।
सत्यमेव महाबाहो न मिथ्या तु सुरेश्वर ।। ९३ ।।
यद्येवाहमनुग्राह्यो रक्ष मां मधुसूदन ।
अथवा गोषु निर्बन्धो हत्वा नय महाभुज ।। ९४ ।।
वैशम्पायन उवाच
वरुणेनैवमुक्तस्तु यदूनां वंशवर्धनः ।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति ।। ९५ ।।
स प्रहस्य ततो वाक्यं व्याजहारार्थकोविदः ।
तस्मान्मुक्तोऽसि यद्येवं बाणेन समयः कृतः ।। ९६ ।।
प्रश्रितैर्मधुरैर्वाक्यैस्तत्त्वार्थमधुभाषितैः ।
कथं पापं करिष्यामि वरुण त्वय्यहं प्रभो ।। ९७ ।।
गच्छ मुक्तोऽसि वरुण सत्यसंधोऽसि नो भवान्।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशयः ।। ९८ ।
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः ।
अर्घ्यमादाय वरुणः केशवं प्रत्यपूजयत् ।
केशवोऽर्घ्यं तदा गृह्य वरुणाद् यदुनन्दनः ।। ९९ ।।
बलं चापूजयद् देवः कुशलीव समाहितः ।
वरुणायाभयं दत्त्वा वासुदेवः प्रतापवान् ।।2.127.१०० ।।
द्वारकां प्रस्थितः शौरिः शचीपतिसहायवान् ।
तत्र देवाः समरुतः ससाध्याः सिद्धचारणाः ।। १०१।।
गन्धर्वाप्सरसश्चैव किंनराश्चान्तरिक्षगाः ।
अनुगच्छन्ति भूतेशं सर्वभूतादिमव्ययम् ।। १०२।।
आदित्या वसवो रुद्रा अश्विनौ यक्षराक्षसाः ।
विद्याधरगणाश्चैव ये चान्ये सिद्धचारणाः ।
गच्छन्तमनुगच्छन्ति यशसा विजयेन च ।। १०३।।
नारदश्च महाभागः प्रस्थितो द्वारकां प्रति ।
तुष्टो बाणजयं दृष्ट्वा वरुणं च कृतप्रियम् ।। १०४।।
कैलासशिखरप्रख्यैः प्रासादैः कन्दरैः शुभैः ।
दूरान्निशम्य मधुहा द्वारकां द्वारमालिनीम् ।। १०५।।
पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः ।
संज्ञां प्रयच्छते देवो द्वारकापुरवासिनाम् ।। १०६।।
देवानुयाननिर्घोषं पाञ्चजन्यस्य निस्वनम् ।
श्रुत्वा द्वारवती सर्वा प्रहर्षमतुलं गता ।। १०७।।
पूर्णकुम्भैश्च लाजैश्च बहुविन्यस्तविस्तरैः ।
द्वारोपशोभितां कृत्वा सर्वां द्वारवतीं पुरीम् ।। १०८।।
सुश्लिष्टरथ्यां सश्रीकां बहुरत्नोपशोभिताम्।
विप्राश्चार्घ्यं समादाय तथैव कुलनैगमाः ।। १०९।।
जयशब्दैश्च विविधैः पूजयन्ति स्म माधवम् ।
वैनतेये तमासीनं नीलाञ्जनचयोपमम् ।।2.127.११०।।
ववन्दिरे तदा कृष्णं श्रिया परमया युतम् ।
तमानुपूर्व्या वर्णाश्च पूजयन्ति महाबलम् ।। १११।।
अनन्तं केशिहन्तारं श्रेष्ठिपूर्वाश्च श्रेणयः ।
ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः ।। ११२।
स्तूयते पुण्डरीकाक्षो द्वारकोपवने स्थितः ।
तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः ।। ११३।।
प्रहर्षमतुलं प्राप्ता दृष्ट्वा कृष्णं महाभुजम् ।
बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम् ।। ११४।।
द्वारकावासिनां वाचश्चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे यादवानां महारथे ।। ११५।।
गत्वा च दूरमध्वानं सुपर्णो द्रुतमागतः ।
धन्याः स्मोऽनुगृहीताःस्मो येषां वै जगतः पिता ।। ११६।।
रक्षिता चैव गोप्ता च दीर्घबाहुर्महाभुजः ।
वैनतेयं समारुह्य जित्वा बाणं सुदुर्जयम् ।। ११७।।
प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव ।
एवं कथयतामेव द्वारकावासिनां तदा ।। ११८।।
वासुदेवगृहं देवा विविशुस्ते महारथाः ।
अवतीर्य सुपर्णात्तु वासुदेवो बलस्तदा ।। ११९।।
प्रद्युम्नश्चानिरुद्धश्च गृहान् प्रविविशुस्तदा ।
ततो देवविमानानि संचरन्ति तदा दिवम् ।। 2.127.१२०।।
अवस्थितानि दृश्यन्ते नानारूपाणि सर्वशः ।
हंसर्षभमृगैर्नागैर्वाजिसारसबर्हिणैः ।। १२१।।
भास्वन्ति तानि दृश्यन्ते विमानानि सहस्रशः ।
अथ कृष्णोऽब्रवीद्वाक्यं कुमारांस्तान्सहस्रशः।
प्रद्युम्नादीन्समस्तांस्तु श्लक्ष्णं मधुरया गिरा।। १२२।।
एते रुद्रास्तथाऽऽदित्या वसवोऽथाश्विनावपि ।
साध्या देवास्तथान्ये च वन्दध्वं च यथाक्रमम् ।। १२३।।
सहस्राक्षं महाभागं दानवानां भयंकरम् ।
वन्दध्वं सहिताः शक्रं सगणं नागवाहनम् ।। १२४।।
सप्तर्षयो महाभागा भृग्वाङ्गिरसमाश्रिताः ।
ऋषयश्च महात्मानो वन्दध्वं च यथाक्रमम् ।।१२५।।
एते चक्रधराश्चैव तान् वन्दध्वं च सर्वशः ।
सागराश्च ह्रदाश्चैव मत्प्रियार्थमिहागताः ।।।१२६।।
दिशश्च विदिशश्चैव वन्दध्वं च यथाक्रमम् ।
वासुकिप्रमुखाश्चैव नागा वै सुमहाबलाः ।। १२७।।
गावश्च मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
ज्योतींषि सह नक्षत्रैर्यक्षराक्षसकिंनरैः ।। १२८।।
आगता मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
वासुदेववचः श्रुत्वा कुमाराः प्रणताः स्थिताः ।। १२९।।
यथाक्रमेण सर्वेषां देवतानां महात्मनाम् ।
सर्वान् दिवौकसो दृष्ट्वा पौरा विस्मयमागताः ।। 2.127.१३०।।
पूजार्थमथ समरान् प्रगृह्य द्रुतमागताः ।
अहो सुमहदाश्चर्यं वासुदेवस्य संश्रयात् ।। १३ १।
प्राप्यते यदिहास्माभिरिति वाचश्चरन्त्युत ।
ततश्चन्दनचू्र्णैश्च गन्धपुष्पैश्च सर्वशः ।।१३२ ।।
किरन्ति पौराः सर्वास्तान् पूजयन्तो दिवौकसः ।
लाजैः प्रणामैर्धूपैश्च वाद्यध्वनियमैस्तथा ।। १३३।।
द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः ।
आहुकं वासुदेवं च साम्बं च यदुनन्दनम् ।। १३४।।
सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम् ।
अक्रूरं च महाभाग तथा निशठमेव च ।। १३५।।
एतान् परिष्वज्य तदा मूर्ध्नि चाघ्राय वासवः ।
अथ शक्रो महाभागः समक्ष यदुमण्डले ।। १३६।।
स्तुवन्तं केशिहन्तारं तत्रोवाचोत्तरं वचः ।
सात्वतः सात्त्वतामेष सर्वेषां यदुनन्दनम् ।। १३७।।
मोक्षयित्वा रणे चैव यशसा पौरुषेण च ।
महादेवस्य मिषतो गुहस्य च महात्मनः ।। १३८।।
एव बाणं रणे जित्वा द्वारकां पुनरागतः ।
सहस्रबाहोर्बाहूनां कृत्वा द्वयमनुत्तमम् ।। १३९।।
स्थापयित्वा द्विबाहुत्वे प्राप्तोऽयं स्वपुरं हरिः ।
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ।। 2.127.१४०।।
तदप्यवसितं कार्यं नष्टशोका वयं कृताः ।
पिबतां मधु माध्वीकं भवतां प्रीतिपूर्वकम् ।। १४१।।
कालो यास्यत्यविरतं विषयेष्वेव सज्जताम् ।
बाहूनां संक्षयात् सर्वे वयमस्य महात्मनः ।। १४२।।
प्रणष्टशोका रंस्यामः सर्वं एव यथासुखम् ।
एवं स्तुत्वा सहस्राक्षः केशवं दानवान्तकम् ।। १४३।
आपृच्छ्य तं महाभागः सर्वदेवगणैर्वृतः ।
ततः पुनः परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पुरंदरो दिवं यातः सह देवमरुद्गणैः ।। १४४।।
ऋषयश्च महात्मानो जयाशीर्भिर्महौजसम् ।
यथागतं पुनर्याता यक्षराक्षसकिंनराः ।। १४५।।
पुरंदरे दिवं याते पद्मनाभो महाबलः ।
अपृच्छत महाभागः सर्वान् कुशलमव्ययम् ।। १४६।।
ततः किलकिलाशब्दं निर्वमन्तः सहस्रशः ।
गच्छन्ति कौमुदीं द्रष्टुं सोऽनघः प्रीयते सदा ।। १४७।।
द्वारकां प्राप्य कृष्णस्तु रेमे यदुगणैः सह ।
विविधान् सर्वकामार्थाञ्छ्रिया परमया युतः ।। १४८।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारकाप्रत्यागमने
सप्तविंशत्यधिकशततमोऽध्यायः ।। १२७ ।।