हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२५ हरिवंशपुराणम्
अध्यायः १२६
वेदव्यासः
अध्यायः १२७ →
स्वामी कार्तिकेयस्य श्रीकृष्णेन सह युद्धे स्वामी कार्तिकेयस्य पराजयं, कोटव्या देव्या कार्तिकेयस्य रक्षणं, बाणासुरस्य श्रीकृष्णेन सह युद्धं, श्रीकृष्णेन बाणासुरस्य सहस्रभुजानां कर्तनं, महादेवेन बाणासुराय महाकालभवनस्य वरदानम्

षड्विंशत्यधिकशततमोऽध्यायः

जनमेजय उवाच
अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चासीत् कथं युद्धं परेषां लोमहर्षणम् ।। १ ।
वैशम्पायन उवाच
कुम्भाण्डसंगृहीते तु रथे तिष्ठन् गुहस्तदा ।
अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च ।। २ ।।
ततः शरशतैरुग्रैस्तान्विव्याध रणे गुहः ।
अमर्षरोषसंक्रुद्धः कुमारः प्रवरो नदन् ।। ३ ।।
शरसंवृतगात्रास्ते त्रयस्त्रय इवाग्नयः ।
शोणितौघप्लुतैर्गात्रैः प्रायुध्यन्त गुहं ततः ।। ४ ।।
ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः ।
वायव्याग्नेयपार्जन्यैर्बिभिदुर्दीप्ततेजसः ।। ५
तानस्त्रांस्त्रिभिरेवास्त्रैर्विनिवार्य स पावकिः ।
शैलवारुणसावित्रैस्तान्स विव्याध कोपवान् ।। ६ ।।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।
शरौघानस्त्रमायाभिर्ग्रसन्ति स्म महात्मनः ।
यदा तदा गुहः क्रुद्धः प्रज्वलन्निव तेजसा ।। ७ ।।
अस्त्रं ब्रह्मशिरो नाम कालकल्पं दुरासदम् ।
संदष्टौष्ठपुटः संख्ये जगृहे पावकिः प्रभुः ।। ८ ।।
प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे ।
उग्रे परमदुर्धर्षे लोकक्षयकरे तथा ।। ९ ।।
हाहाभूतेषु सर्वेषु प्रधावत्सु समन्ततः ।
अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः ।
केशवः केशिमथनश्चक्रं जग्राह वीर्यवान् ।। 2.126.१० ।।
सर्वेषामस्त्रवीर्याणां वारणं घातनं तथा ।
चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः ।। ११ ।।
अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा ।
घनैरिवातपापाये सवितुर्मण्डलं यथा ।। १२ ।।
ततो निष्प्रभतां याते नष्टवीर्ये महौजसि ।
तस्मिन् ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तलोचनः ।। १३ ।।
गुहः प्रजज्वाल रणे हविषेवाग्निरुल्बणः ।
शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह काञ्चनीम् ।।१४।।
अमोघां दयितां घोरां सर्वलोकभयावहाम् ।
तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम् ।
घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुहः ।। १५ ।।
ननाद बलवच्चापि नादं शत्रुभयंकरम् ।
सा च क्षिप्ता तदा तेन ब्रह्मण्येन महात्मना ।। १६ ।।
जृम्भमाणेव गगने सम्प्रदीप्तमुखी तदा ।
आधावत महाशक्तिः कृष्णस्य वधकाङ्क्षिणी ।। १७ ।।
भृशं विषण्णः शक्रोऽपि सर्वामरगणैर्वृतः ।
शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्णेति चाब्रवीत् ।। १८ ।।
तां समीपमनुप्राप्तां महाशक्तिं महामृधे ।
हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ।। १९ ।।
पतितायां महाशक्त्यां साधुसाध्विति सर्वशः ।
सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः ।। 2.126.२० ।।
ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् ।
पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे ।। २१ ।।
व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा ।
कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ।। २२ ।।
दिग्वासा देववचनात् प्रविष्टा तत्र कोटवी ।
लम्बमाना महाभागा भागो देव्यास्तथाष्टमः ।
चित्रा कनकशक्तिस्तु सा च नग्ना स्थितान्तरे ।। २३ ।।
अथान्तरात् कुमारस्य देवीं दृष्ट्वा महाभुजः ।
पराङ्मुखस्ततो वाक्यमुवाच मधुसूदनः ।। २४ ।।
श्रीभगवानुवाच
अपगच्छापगच्छ त्वं धिक् त्वामिति वचोऽब्रवीत्।
किमेवं कुरुषे विघ्नं निश्चितस्य वधं प्रति ।। २५ ।।
वैशम्पायन उवाच
श्रुत्वैवं वचनं तस्य कोटवी तु तदा विभोः ।
नैव वासः समाधत्ते कुमारपरिरक्षणात् । २६ ।।
श्रीभगवानुवाच
अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात् ।
स्वस्ति ह्येवं भवेदद्य योत्स्यतो योत्स्यता मया।।२७।।
तां च दृष्ट्वा स्थितां देवो हरिः संग्राममूर्धनि ।
संजहार ततश्चक्रं भगवान् वासवानुजः ।। २८ ।।
एवं कृते तु कृष्णेन देवदेवेन धीमता ।
अपवाह्य गुहं देवी हरसांनिध्यमागता ।। २९ ।।
एतस्मिन्नन्तरे चैव वर्तमाने महाभये ।
कुमारे रक्षिते देव्या बाणस्तं देशमाययौ ।। 2.126.३० ।।
अपयान्तं गुहं दृष्ट्वा मुक्तं कृष्णेन संयुगात् ।
बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम् ।। ३१ ।।
वैशम्पायन उवाच
भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ।
दिशं प्रदुद्रुवुः सर्वे भयमोहितलोचनाः ।। ३२ ।।
प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुरः ।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।। ३३ ।।
भीमप्रहरणैर्घोरैर्दैत्येन्द्रैः सुमहारथैः ।
महाबलैर्महावीरैर्वज्रीव सुरसत्तमैः ।। ३४ ।।
पुरोहिताः शत्रुवधं वदन्तस्तथैव चान्ये श्रुतशीलवृद्धाः ।
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ।। ३५ ।।
ततस्तूर्यप्रणादैस भेरीणां तु महास्वनैः ।
सिंहनादैश्च दैत्यानां बाणः कृष्णमभिद्रवत् ।। ३६ ।।
दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम् ।
आरुह्य गरुडं कृष्णो बाणायाभिमुखो ययौ ।। ३७ ।।
आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे ।
वैनतेयमथारूढं कृष्णमप्रतिमौजसम् ।। ३८ ।।
अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम् ।
उवाच वचनं क्रुद्धो वासुदेवं तरस्विनम् ।।३९।।
बाण उवाच
तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन्प्रतिगमिष्यसि ।
द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च ।। 2.126.४० ।।
सुवर्णवर्णान् वृक्षाग्रानद्य द्रक्ष्यसि माधव ।
मयाभिभूतः समरे मुमूर्षुः कालनोदितः ।। ४१ ।।
अद्य बाहुसहस्रेण कथमष्टभुजो रणे ।
मया सह समागम्य योत्स्यसे गरुडध्वज ।। ४२ ।।
अद्य त्वं वै मया युद्धे निर्जितः सहबान्धवः ।
द्वारकां शोणितपुरे निहतः संस्मरिष्यसि ।। ४३।।
नानाप्रहरणोपेतं नानाङ्गदविभूषितम् ।
अद्य बाहुसहस्रं मे कोटिभूतं निशामय ।। ४४ ।।
गर्जतस्तस्य वाक्यौघा जलौघा इव सिन्धुतः ।
निश्चरन्ति महाघोरा वातोद्धूता इवोर्मयः ।। ४५ ।।
रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः ।
जगद्दिधक्षन्निव खे महासूर्य इवोदितः ।। ४६ ।।
तच्छ्रुत्वा नारदस्तस्य बाणस्यात्यूर्जितं वचः ।
जहास सुमहाहासं भिन्दन्निव नभस्तलम् ।। ४७।।
योगपट्टमुपाश्रित्य तस्थौ युद्धदिदृक्षया ।
कौतूहलोत्फुल्लदृशः कुर्वन् पर्यटते मुनिः ।। ४८ ।।
श्रीकृष्ण उवाच
बाण किं गर्जसे मोहाच्छूराणां नास्ति गर्जितम् ।
एह्येहि युध्यस्व रणे किं वृथा गर्जितेन ते ।। ४९ ।।
यदि युद्धानि वचनैः सिद्ध्येयुर्दितिनन्दन ।
भवानेव जयेन्नित्यं बह्वबद्धं प्रजल्पति ।। 2.126.५० ।।
एह्येहि जय मां बाण जितो वा वसुधातले ।
चिरायावाङ्मुखो दीनः पतितः शेष्यसे ऽसुरैः ।। ५१ ।।
इत्येवमुक्त्वा बाणं तु मर्मभेदिभिराशुगैः ।
निर्बिभेद तदा कृष्णस्तममोघैर्महाशरैः ।। ५२ ।।
विनिर्भिन्नस्तु कृष्णेन मार्गणैर्मर्मभेदिभिः ।
स्मयन् बाणस्ततः कृष्णं शरवर्षैरवाकिरत् ।। ५३ ।।
ज्वलद्भिरिव संयुक्तं तस्मिन् युद्धे सुदारुणे ।
ततः परिघनिस्त्रिंशैर्गदातोमरशक्तिभिः ।। ५४ ।।
मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।
स तु बाहुसहस्रेण गर्वितो दैत्यसत्तमः ।। ५५ ।।
योधयामास समरे द्विबाहुमथ लीलया ।
लाघवात् तस्य कृष्णस्य बलिसूनू रुषान्वितः ।। ५६ ।।
ततोऽस्त्रं परमं दिव्यं तपसा निर्मितं महत् ।
यदप्रतिहतं युद्धे सर्वामित्रविनाशनम् ।। ५७ ।।
ब्रह्मणा विहितं दिव्यं तन्मुमोच दितेः सुतः ।
तस्मिन् मुक्ते दिशः सर्वास्तमःपिहितमण्डलाः।। ५८ ।।
प्रादुरासन् सहस्राणि सुघोराणि च सर्वशः ।
तमसा संवृते लोके न प्राज्ञायत किंचन ।। ५९ ।।
साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः ।
हा हा धिगिति देवानां श्रूयते वागुदीरिता ।। 2.126.६० ।।
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः ।। ६१ ।।
नैव वाताः प्रवायन्ति न मेघाः संचरन्ति च ।
अस्त्रे विसृष्टे बाणेन दह्यमाने च केशवे ।। ६२ ।।
ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः ।
पार्जन्यं नाम भगवान् कालान्तकनिभं रणे ।। ६३ ।।
ततो वितिमिरे लोके शराग्निः प्रशमं गतः ।
दानवा मोघसंकल्पाः सर्वेऽभूवंस्तदा भृशम् ।। ६४ ।।
दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रेऽभिमन्त्रिते ।
ततो देवगणाः सर्वे नदन्ति च हसन्ति च ।। ६५ ।।
हते शस्त्रे महाराज दैतेयः क्रोधमूर्च्छितः ।
भूयः स छादयामास केशवं गरुडे स्थितम् ।। ६६ ।।
मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।
तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम् ।। ६७ ।।
प्रहसन् वारयामास केशवः शत्रुसूदनः ।
केशवस्य तु बाणेन वर्तमाने महाहवे ।। ६८ ।।
तस्य शार्ङ्गविनिर्मुक्तैः शरैरशनिसंनिभैः ।
तिलशस्तद्रथं चक्रे सोऽश्वध्वजपताकिनम् ।। ६९ ।।
चिच्छेद कवचं कायान्मुकुटं च महाप्रभम् ।
कार्मुकं च महातेजा हस्तावापं च केशवः ।। 2.126.७० ।।
विव्याध चैनमुरसि नाराचेन स्मयन्निव ।
स मर्माभिहतः संख्ये प्रमुमोहाल्पचेतनः ।। ७१ ।।
तं दृष्ट्वा मूर्च्छितं बाणं प्रहारपरिपीडितम् ।
प्रासादवरशृंगस्थो नारदो मुनिपुङ्गवः ।। ७२ ।।
उत्थायापश्यत तदा कक्ष्यास्फोटनतत्परः ।
वादयानो नखांश्चैव दिष्ट्या दिष्ट्येति चाब्रवीत् ।। ७३।।
अहो मे सफलं जन्म जीवितं च सुजीवितम् ।
दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम् ।। ७४ ।।
जय बाणं महाबाहो दैतेयं देवकिल्बिषम् ।
यदर्थमवतीर्णोऽसि तत् कर्म सफलीकुरु ।। ७५ ।।
एवं स्तुत्वा तदा देवं बाणैः खं द्योतयञ्छितैः ।
इतस्ततः सम्पतद्भिर्नारदो व्यचरद् रणे ।। ७६ ।।
केशवस्य तु बाणेन वर्तमाने महाभये ।
प्रयुध्येतां ध्वजौ तत्र तावन्योन्यमभिद्रुतौ ।
युद्धं त्वभूत् वाहनयोरुभयोर्देवदैत्ययोः ।। ७७ ।।
गरुडस्य च संग्रामो मयूरस्य च धीमतः ।
पक्षतुण्डप्रहारैस्तु चरणास्यनखैस्तथा ।। ७८ ।।
अन्योन्यं जघ्नतुः क्रुद्धौ मयूरगरुडावुभौ ।
वैनतेयस्ततः क्रुद्धो मयूरं दीप्ततेजसम् ।। ७९ ।।
जग्राह शिरसि क्षिप्रं तुण्डेनाभिपतंस्तदा ।
उत्क्षिप्य चैव पक्षाभ्यां निजघान महाबलः ।। 2.126.८० ।।
पद्भ्यां पार्श्वाभिघाताभ्यां कृत्वा घातान्यनेकशः।
आकृष्य चैनं तरसा विकृष्य च महाबलः ।। ८१
निःसंज्ञं पातयामास गगनादिव भास्करम् ।
मयूरे पतिते तस्मिन् पपातातिबलो भुवि ।। ८२ ।।
बाणः समरसंविग्नश्चिन्तयन् कार्यमात्मनः ।
मयातिबलमत्तेन न कृतं सुहृदां वचः ।। ८३ ।।
पश्यतां देवदैत्यानां प्राप्तोऽस्म्यापदमुत्तमाम् ।
तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् ।। ८४ ।।
चिन्तयद् भगवान् रुद्रो बाणरक्षणमातुरः ।
ततो नन्दीं महादेवः प्राह गम्भीरया गिरा ।। ८५ ।।
नन्दिकेश्वर याहि त्वं यतो बाणो रणे स्थितः ।
रथेनानेन दिव्येन सिंहयुक्तेन भास्वता ।। ८६ ।।
बाणं संयोजयाशु त्वमलं युद्धाय वानघ ।
प्रमाथगणमध्येऽहं स्थास्यामि न हि मे मनः ।। ८७ ।।
योद्धुं प्रभवते ह्यद्य बाणं संरक्ष गम्यताम् ।
तथेत्युक्त्वा ततो नन्दी रथेन रथिनां वरः ।। ८८ ।।
यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् ।
दैत्यामु रथमातिष्ठ शीघ्रमेहि महाबल ।। ८९।।
ततो युध्यस्व कृष्णं वै दानवान्तकरं रणे ।
आरुरोह रथं बाणो महादेवस्य धीमतः ।। 2.126.९० ।।
आरूढः स तु बाणश्च तं रथं ब्रह्मनिर्मितम् ।
तं स्यन्दनमधिष्ठाय भवस्यामिततेजसः ।। ९१ ।।
प्रादुश्चक्रे महारौद्रमस्त्रं सर्वास्त्रघातनम् ।
दीप्तं ब्रह्मशिरोनाम बाणः क्रुद्धोऽतिवीर्यवान्।। ९२ ।।
प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् ।
लोकसंरक्षणार्थे वै तत् सृष्टं ब्रह्मयोनिना ।। ९३ ।।
तच्चक्रेण निहत्यास्त्रं प्राह कृष्णस्तरस्विनम् ।
लोके प्रख्यातयशसं बाणमप्रतिमं रणे ।। ९४ ।।
कत्थितानि क्व ते तात बाण किं न विकत्थसे ।
अयमस्मि स्थितो युद्धे युद्ध्यस्व पुरुषो भव ।। ९५ ।।
कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्रवान् ।
महाबलः स रामेण द्विबाहुः समरे कृतः ।। ९६ ।।
तथा तवापि दर्पोऽयं बाहूनां वीर्यसम्भवः ।
एश् ते दर्पशमनं करोमि रणमूर्द्धनि ।। ९७ ।।
यावत् ते दर्पशमनं करोम्यद्य स्वबाहुना ।
तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि ।। ९८ ।।
अथ तद् दुर्लभं दृष्ट्वा युद्धं परमदारुणम् ।.
तत्र देवासुरसमे युद्धे नृत्यति नारदः ।। ९९ ।।
निर्जिताश्च गणाः सर्वे प्रद्युम्नेन महात्मना ।
निक्षिप्तवादा युद्धस्य देवदेवं गताः पुनः ।। 2.126.१००।।
स तच्चक्रं सहस्रारं नदन् मेघ इवोष्णगे ।
जग्राह कृष्णस्त्वरितो बाणान्तकरणं रणे ।।१०१।
तेजो यज्ज्योतिषां चैव तेजो वज्राशनेस्तथा ।
सुरेशस्य च यत् तेजस्तच्चक्रे पर्यवस्थितम् ।। १०२।।
त्रेताग्नेश्चैव यत् तेजो यच्च वै ब्रह्मचारिणाम् ।
ऋषीणां च ततो ज्ञानं तच्चक्रे समवस्थितम् ।।१०३।।
पतिव्रतानां यत्तेजः प्राणाश्च मृगपक्षिणाम् ।
यश्च चक्रधरेष्वस्ति तच्चक्रे संनिवेशितम् ।। १०४।।
नागराक्षसयक्षाणां गन्धर्वाप्सरसामपि ।
त्रैलोक्यस्य च यत्प्राणं सर्वं चक्रे व्यवस्थितम् ।।१०५।।
तेजसा तेन संयुक्तं ज्वलन्निव च भास्करः ।
वपुषा तेज आदत्ते बाणस्य प्रमुखे स्थितम् ।। १ ०६।।
ज्ञात्वातितेजसा चक्रं कृष्णेनाभ्युदितं रणे ।
अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम् ।। १०७।।
अजेयमेतत् त्रैलोक्ये चक्रं कृष्णेन धार्यते ।
बाणं त्रायस्व देव त्वं यावच्चक्रं न मुञ्चति ।।१०८।।
ततस्त्र्यक्षो वचः श्रुत्वा देवीं लम्बामथाब्रवीत्।
गच्छैहि लम्बे शीघ्रं त्वं बाणसंरक्षणं प्रति ।।१०९।।
ततो योगं समाधाय अदृश्या हिमवत्सुता ।
कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वमागता ।। 2.126.११०।।
चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे ।।
अन्तर्धानमुपागम्य त्यज्य सा बाससी पुनः ।।१११ ।।
परित्राणाय बाणस्य विजयाधिष्ठिता ततः ।
प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता ।। १ १२।।
तां दृष्ट्वाथ पुनः प्राप्तां देवीं रुद्रस्य सम्मताम् ।
लम्बाद्वितीयां तिष्ठन्तीं कृष्णो वचनमब्रवीत् ।। ११३।।
भूयः सामर्षताम्राक्षीं दिग्वस्त्रावस्थितां रणे ।
बाणसंरक्षणपरा हन्मि बाणं न संशयः ।।१ १४।।
एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम् ।
जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् ।
महाभागं महादेवमनन्तं नीलमव्ययम् ।। ११५।।
पद्मनाभं हृषीकेशं लोकानामादिसम्भवम् ।
नार्हसे देव हन्तुं वै बाणमप्रतिमं रणे ।। १ १६।।
प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च ।
मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते ।। ११७।।
न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव ।
एवमुक्ते तु वचने देव्या परपुरंजयः ।।११८।।
कृष्णः प्रभाषते वाक्यं शृणु सत्यं तु भामिनि ।
बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः ।। ११९।।
एतेषां छेदनं त्वद्य कर्तव्यं नात्र संशयः ।
द्विबाहुना च बाणेन जीवपुत्री भविष्यसि ।। 2.126.१२०।।
आसुरं दर्पमाश्रित्य न च मां संश्रयिष्यति ।
एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा ।। १२१।।
प्रोवाच देवी बाणोऽयं देवदत्तो भवेदिति ।
अथ तां कार्तिकेयस्य मातरं सोऽभिभाष्य वै ।
ततः क्रुद्धो महाबाहुः कृष्णः प्रवदतां वरः ।। १२२।।
प्रोवाच बाणं समरे वदतां प्रवरः प्रभुः ।
युध्यतां युध्यतां संख्ये भवतां कोटवी स्थिता ।। १२३।।
अशक्तानामिव रणे धिग् बाण तव पौरुषम् ।
एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमात्मवान् ।। १२४।।
निमीलिताक्षो व्यसृजद् बाणं प्रति महाबलः ।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।। १२५।।
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ।
तमप्रतिमकर्माणं समानं सूर्यवर्चसा ।।१२६।।
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः ।
स मुष्णन् दानवं तेजः समरे स्वेन तेजसा।। १२७ ।।
चिच्छेद बाहूंश्चक्रेण श्रीधरः परमौजसा ।
अलातचक्रवत् तूर्णं भ्राम्यमाणं रणाजिरे ।। १२८।।
क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्द्धनि ।
विष्णुचक्रं भ्रमत्याशु शैघ्र्याद् रूपं न दृश्यते ।। १२९।।
तस्य बाहुसहस्रस्य पर्यायेण पुनः पुनः ।
बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्द्धनि ।। 2.126.१३०।।
कृत्वा द्विबाहुं तं बाणं छिन्नशाखमिव द्रुमम् ।
पुनः कराग्रे कृष्णस्य चक्रं प्राप्तं सुदर्शनम् ।। १३१।।
वैशम्पायन उवाच
कृतकृत्ये तु सम्प्राप्ते चक्रे दैत्यनिपातने ।
स्रवता तेन कायेन शोणितौघपरिप्लुतः ।। १३२ ।।
अभवत् पर्वताकारश्छिन्नबाहुर्महासुरः ।
असृङ्मत्तश्च विविधान् नादान् मुञ्चन् घनो यथा ।।
तस्य नादेन महता केशवो रिपुसूदनः ।
चक्रं भूयः क्षेप्तुकामो बाणनाशार्थमुद्यतः ।
तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् ।। १३४।।
ईश्वर उवाच
कृष्ण कृष्ण महाबाहो जाने त्वां पुरुषोत्तमम्।
मधुकैटभहन्तारं देवदेवं सनातनम् ।।१३५।।
लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् ।।
अजेयस्त्वं त्रिभिर्लोकैः ससुरासुरपन्नगैः ।। १३६।।
तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् ।
अनिवार्यमसंहार्यं रणे शत्रुभयंकरम् ।।१३७।।
बाणस्यास्याभयं दत्तं मया केशिनिषूदन ।
तन्मे न स्याद्वृथा वाक्यमतस्त्वां क्षामयाम्यहम्।। १३८।।
श्रीकृष्ण उवाच
जीवतां देव बाणोऽयमेतच्चक्रं निवर्तितम् ।
मान्यस्त्वं देवदेवानामसुराणां च सर्वशः ।। १३९।।
नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर ।
न तावत् क्रियते तस्मान्मामनुज्ञातुमर्हसि ।। 2.126.१४०।।
एवमुक्त्वा महादेवं कृष्णस्तूर्ण महामनाः ।
जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश्चितः ।। १४१।।
गते कृष्णे ततो नन्दी बाणमाह वचः शुभम् ।
गच्छ वाण प्रसन्नस्य देवदेवस्य चाग्रतः ।। १४२।।
तच्छ्रुत्वा नन्दिवाक्यं तु बाणोऽगच्छत शीघ्रगः ।
छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान् ।। १४३।।
अपवाह्य रथेनैनं यतो देवस्ततो ययौ ।
ततो नन्दी पुनर्बाणं प्रागुवाचोत्तरं वचः ।। १४४।।
बाण बाण प्रनृत्यस्व श्रेयस्तव भविष्यति ।
एष देवो महादेवः प्रसादसुमुखस्तव ।। १४५।।
शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः ।
जीवितार्थी ततो बाणः प्रमुखे शंकरस्य वै ।।१४६।।
अनृत्यत् भयसंविग्नो दानवः स विचेतनः ।
तं दृष्ट्वा च प्रनृत्यन्तं भयोद्विग्नं पुनः पुनः ।। १४७।
नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद् भवः ।
करुणावशमापन्नो महादेवोऽब्रवीद् वचः ।। १४८।।
ईश्वर उवाच
वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि ।
प्रसाद सुमुखस्तेऽहं प्रियोऽसि मम दानव ।। १४९।।
बाण उवाच
अजरश्चामरश्चैव भवेयं सततं विभो ।
एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे ।। 2.126.१५०।।
देव उवाच
तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते ।
अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा ।। १५१ ।।
बाण उवाच
यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडितः ।
भक्तानां नृत्यतां देव पुत्रजन्म भवेद्भव ।। १५२।
श्रीहर उवाच
निराहाराः क्षमावन्तः सत्यार्जवसमाहिताः ।
मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यति ।। १५३।।
तृतीयं त्वमथो बाण वरं वर मनोगतम् ।
तद् विधास्यामि ते पुत्र सफलोऽस्तु भवानिह।। १५४।।
बाण उवाच
चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ ।
वरेणासौ तृतीयेन शान्तिं गच्छतु मे भव ।। १५५।।
श्रीरुद्र उवाच
एवं भवतु भद्रं ते न रुजा प्रभविष्यति ।
अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति ।। १५६।।
चतुर्थे ते वरं दद्मि वृणीष्व यदि काङ्क्षसि ।
न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम् ।। १५७।।
बाण उवाच
प्रमाथगणवंश्यस्य प्रथमः स्यामहं विभो ।
महाकाल इति ख्यातिं गच्छेयं शाश्वतीः समाः ।। १५८।।
वैशम्पायन उवाच
एवं भविष्यतीत्याह बाणं देवो महेश्वरः ।
दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात् ।। १५९।।
ममातिसर्गाद् बाण त्वं भव चैवाकुतोभयः ।
भूयस्ते पञ्चमं दद्मि प्रख्यातबलपौरुष ।
पुनर्वरय भद्रं ते यत्ते मनसि वर्तते ।। 2.126.१६०।।
बाण उवाच
वैरूप्यमङ्गजं यन्मे मा भूद् देव कदाचन ।
द्विबाहुरपि मे देहो न विरूपो भवेद् भव ।।१६१।।
श्रीहर उवाच
भविता सर्वमेतत् ते यथेच्छसि महासुर ।
भवत्येवं न चादेयं भक्तानां विद्यते मम ।। १६२।।
ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके ।
एवं भविष्यते सर्व यत् त्वया समुदाहृतम् ।। १६३।।
एतावदुक्त्वा भगवांस्त्रिनेत्रो गणसंवृतः ।
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ।।१६४।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणे बाणासुरवरप्रदाने षड्विंशत्यधिकशततमोऽध्यायः ।।१२६।।