हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९८ हरिवंशपुराणम्
अध्यायः ९९
वेदव्यासः
अध्यायः १०० →
श्रीकृष्णस्य द्वारकायां अन्तःपुरे च प्रवेशं, मणिपर्वतस्य एवं पारिजातस्य

यथोचिते स्थाने स्थापनम्

नवनवतितमोऽध्यायः

वैशम्पायन उवाच
एवमालोकयानः स द्वारकां वृषभेक्षणः ।
अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ।। १ ।
मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः ।
तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः ।। २ ।।
तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः ।
प्रासादस्तत्र सुमहान् कृष्णोपस्थानिकोऽभवत्।। ३ ।
स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ।। ४ ।।
मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः ।
मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः ।। ५ ।।
बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः ।
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः ।। ६ ।।
व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः ।
तद् गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा ।। ७ ।
महेन्द्रसदृशं वेश्म समन्तादर्धयोजनम् ।
ततस्तं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन् गरुत्मतः ।। ८ ।।
प्रीतः शङ्खमुपाध्मासीद् द्विषतां रोमहर्षणम् ।
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम्।
ररास च नभः कृत्स्नं तच्चित्रमभवत् तदा ।। ९ ।।
पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः ।
विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ।। 2.99.१० ।।
शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् ।
दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम् ।। ११ ।।
ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः ।
जज्ञिरे सिंहनादाश्च सर्वेषां पुरवासिनाम् ।। १२ ।।
ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ।। १३ ।।
वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह ।
उग्रसेनो ययौ राजा वसुदेवनिवेशनम् ।। १४ ।।
आनन्दिनी पर्यचरत् स्वेषु वेष्मसु देवकी ।
रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः ।। १५ ।।
ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् ।
चचार च यथोद्देशमीश्वरानुचरो हरिः ।। १६ ।।
अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः ।
यथार्हं पूजयामास यादवान् यादवर्षभः ।। १७।।
रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः ।
प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ।। १८।।
तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ।
प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः ।। १९ ।।
तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् ।
पारिजातप्रभावेण ततो मुमुदिरे जनाः ।। 2.99.२० ।।
तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः ।
प्रविवेश गृहं श्रीमान् विहितं विश्वकर्मणा ।। २१ ।।
ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् ।
न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः ।। २२ ।।
तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित्।
अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत् ।। २३ ।।
अनुज्ञाप्य ततो ज्ञातीन् केशवः परवीरहा ।
ताः स्त्रियः पूजयामास संहृता नरकेण याः ।। २४ ।।
वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसंचयैः ।
हारैश्चन्द्राशुसंकाशैर्मणिभिश्च महाप्रभैः ।। २५ ।।
पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः ।
देवक्या सह रोहिण्यां रेवत्या चाहुकेन च ।। २६ ।।
सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा ।
कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा।।२७।।
तासां यथार्हहर्म्याणि प्रासादशिखराणि च ।
आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान् ।। २८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारकाप्रवेशनं नाम नवनवतितमोऽध्यायः ।। ९९ ।।