हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९७ हरिवंशपुराणम्
अध्यायः ९८
वेदव्यासः
अध्यायः ०९९ →
इन्द्रस्याज्ञया विश्वकर्मणा पुनः परिष्कृतायाः द्वारकापुर्याः वर्णनम्

अष्टनवतितमोऽध्यायः

वैशम्पायन उवाच
ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।
देवसद्मप्रतीकाशां समन्तात् प्रतिनादिताम् ।। १ ।।
मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च ।
उद्यानवनमुख्यानि वलभीचत्वराणि च ।। २ ।।
सम्प्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।
विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् ।। ३ ।।
प्रियमिच्छसि चेत् कर्तुं मह्यं शिल्पवतां वर ।
कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम् ।। ४ ।।
उद्यानशतसम्बाधां द्वारकां स्वर्गसम्मिताम् ।
कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा ।। ५ ।।
यत्किंचित् त्रिषु लोकेषु रत्नभूतं प्रपश्यसि ।
तेन संयुज्यतां क्षिप्रं पुरीं द्वारवतीं त्वया ।। ६ ।।
कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः ।
संग्रामान् घोररूपांश्च विगाहति महाबलः ।। ७ ।।
तामिन्द्रवचनाद् गत्वा विश्वकर्मा पुरीं ततः ।
अलंचक्रे समन्ताद् वै यथेन्द्रस्यामरावती ।। ८ ।।
तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः ।
विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलंकृताम् ।। ९ ।।
तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः ।
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ।। 2.98.१० ।।
सोऽपश्यद्वृक्षखण्डांश्च रम्यान् दृष्टिमनोहरान्।
द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा ।।११ ।।
पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् ।। १२ ।।
प्राकारेणार्कवर्णेन शातकौम्भेन राजता ।
चयमूर्घ्नि निविष्टेन द्यां यथैवाभ्रमालया ।। १३ ।।
काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः ।
बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः ।। १४ ।।
वभौ रैवतकः शैलो रम्यसानुगुहाजिरः ।
पूर्वस्यां दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः ।। १५ ।।
दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः ।
सुकक्षो राजतः शैलश्चित्रपुष्पमहावनः ।। १६ ।
उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् ।
मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ ।। १७ ।।
चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् ।
सर्वर्तुकवनं चैव भाति रैवतकं प्रति ।। १८ ।।
लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् ।
भाति भानुवनं चैव पुष्पकं च महद् वनम् ।। १९ ।।
अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् ।
शतावर्तवनं चैव करवीराकरं तथा ।। 2.98.२० ।।
भाति चैत्ररथं चैव नन्दनं च वनं महत् ।
रमणं भावनं चैवं वेणुमन्तं समन्ततः ।। २१ ।।
वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी ।
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ।। २२ ।।
सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः ।
बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा ।। २३ ।।
महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः ।
प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ।। २४ ।।
अप्रमेयां महोत्सेधामगाधपरिखायुताम्।
प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम् ।। २५ ।।
तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिता। ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम् ।। २६ ।। ।।
अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् ।
समुच्छ्रितपताकानि यथा देवपुरे तथा ।। २७ ।।
अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् ।। २८ ।।
अष्टमार्गमहारथ्यां महाषोडशचत्वराम् ।
एवंमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् ।। २९।।
स्त्रियोऽपि यस्यां युध्येरन् किमु वृष्णिमहारथाः ।
व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः ।। 2.98.३० ।।
तत्र वै विहिताः साक्षाद् विविधा विश्वकर्मणा ।
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ।। ३१ ।
वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः ।
काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः ।। ३२ ।
भीमघोषमहाघोषैः प्रासादवरचत्वरैः ।
समुच्छ्रितपताकानि पारिप्लववनानि च ।। ३३ ।।
काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च ।
गृहाणि रमणीयानि मेरुकूटनिभानि च ।। ३४ ।।
पाण्डुपाण्डुरशृङ्गैश्च शातकुम्भपरिष्कृतैः ।
रन्नसानुगुहाशृङ्गैर्विचित्रैरिव पर्वतैः ।। ३५।।
पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः ।।३६ ।।
दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा ।
आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ।। ३७ ।।
तैर्दाशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः ।
वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलंकृता ।। ३८ ।
ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता ।
साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा ।। ३९ ।।
ददृशे वासुदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयमहाधनम् ।। 2.98.४० ।।
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ।
यश्चकार महाभागस्त्वष्टा वासवनोदितः ।। ४१ ।।
प्रासादं चैव हेमाभं सर्वभूतमनोहरम् ।। ४२ ।।
मेरोरिव गिरः शृङ्गमुच्छ्रितं काञ्चनं महत् ।
रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ।। ४३ ।।
सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् ।
विचित्रमणिसोपानं तद् विदुर्भोगवानिति ।। ४४।।
विमलादित्यवर्णाभिः पताकाभिरलंकृतम् ।
व्यक्तसंजवनोद्देशो यश्चतुर्दिङ्महाध्वजः ।। ४५ ।।
स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः ।
प्रभयाभ्यभवत् सर्वांस्तानन्यो भास्करो यथा ।। ४६ ।।
उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः ।।
विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ।। ४७ ।।
जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा ।
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ।। ४८ ।।
तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी ।
गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ।। ४९ ।।
पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् ।
सुभीमाया महाकूटं वेश्मातिरुचिरप्रभम् ।। 2.98.५० ।।
सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः ।
लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ।। ५१ ।।
वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि परमित्येव भारत ।। ५२ ।।
वासं तं मित्रविन्दाया देवर्षिगणपूजितम् ।
महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु ।। ५३ ।।
यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा ।
अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा ।। ५४ ।।
सुवार्ताया निवासः स प्रशस्तः सर्वदैवतैः ।
महिष्या वासुदेवस्य केतुमानिति विश्रुतः ।। ५५ ।।
यस्तु प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् ।
योजनायतविप्कम्भः सर्वरत्नमयः शुभः ।। ५६ ।।
स श्रीमान् विरजा नाम व्यराजत्तत्र सुप्रभः ।
उपस्थानगृहं यत्र केशवस्य महात्मनः ।। ५७ ।।
तस्मिन् सुविहिताः सर्वे रुक्मदण्डाः पताकिनः ।
सदने वासुदेवस्य मार्गसंजवनध्वजाः ।। ५८ ।।
रत्नजालानि दिव्यानि तत्रैव च निवेशिताः ।
आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् ।। ५९ ।।
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति ।
षष्टितालसमुत्सेधमर्धयोजनमायतम् ।। 2.98.६० ।।
सकिन्नरमहानागं तदप्यमिततेजसा ।
पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् ।। ६१ ।।
आदित्यपथगं यत् तु मेरोः शिखरमुत्तमम् ।
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।। ६२ ।।
तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा ।
भ्राजमानमतीवाग्र्यं सर्वौषधिसमन्वितम् ।। ६३ ।।
तदिन्द्रवचनात् त्वष्टा कार्यहेतोः समानयत् ।
पारिजातश्च तत्रैव केशवेनाहृतः स्वयम् ।। ६४ ।।
नीयमाने तु तत्रासीद् युद्धमद्भुतकर्मणः ।
कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम् ।। ६५।।
पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ।
विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः ।। ६६ ।।
पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः ।
मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ।। ६७।। ।।
तासां परमकूलानि शोभयन्ति महाद्रुमाः ।
शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः ।।६८।।
ये च हैमवता वृक्षा ये च मेरुरुहास्तथा ।
आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा ।। ६९ ।।
रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः ।
सर्वर्तुफलसम्पन्नास्तेषु काननसन्धिषु ।। 2.98.७०।।
समकूलजलोपेताः शान्तशर्करवालुकाः ।
तस्मिन् पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ।। ७१ ।।
पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः ।
अपराश्चाभवन् नद्यो हेमशर्करवालुकाः ।। ७२
मत्तबर्हिणसंघैश्च कोकिलैश्च सदामदैः ।
बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः ।। ७३ ।।
तत्रैव गजयूथानि पुरे गोमहिषास्तथा ।।
निवासश्च कृतस्तत्र वराहमृगपक्षिभिः ।। ७४ ।।
पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः ।
व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा।। ७५ ।।
अतीव रम्यः सोऽथासीद् वेष्टितः पर्वतो यथा ।
ते च ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि भौमेन वनान्युपवनानि च ।। ७६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारका विशेषनिर्माणं नामाष्टनवतितमोऽध्यायः ।। ९८ ।।