हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०९५ हरिवंशपुराणम्
अध्यायः ९६
वेदव्यासः
अध्यायः ०९७ →
कश्यपेन निषिद्धोपि वज्रनाभस्य त्रिलोकविजयाय प्रस्थानं, श्रीकृष्णइन्द्राभ्यां प्रद्युम्नाय संदेशदानं एवं तेषां सन्ततीनां प्रभावस्य उल्लेखं, दैत्येभिः प्रद्युम्नादीनां पुत्राणां बन्धनं, प्रभावत्यादिना स्वपतीन् असीन् प्रदत्वा युद्धाय प्रेषणम्, इन्द्रेण तेषां साहाय्यं एवं प्रद्युम्नस्य अद्भुतं पराक्रमम्।

षण्णवतितमोऽध्यायः

वैशम्पायन उवाच
सत्रावसाने च मुनेः कश्यपस्यातितेजसः ।
जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः ।। १ ।।
वज्रनाभोऽपि निर्वृत्ते सत्रे कश्यपमभ्यगात् ।
त्रैलोक्यविजयाकाङ्क्षी तमुवाचाथ कश्यपः ।। २ ।।
वज्रनाभ निबोध त्वं श्रोतव्यं यदि चेन्मम ।
वस वज्रपुरे पुत्र स्वजनेन समावृतः ।। ३ ।।
तपसाभ्यधिकः शक्रः शक्तश्चैव स्वभावतः ।
ब्रह्मण्यश्च कृतज्ञश्च ज्येष्ठः श्रेष्ठतमो गुणैः ।। ४ ।
राजा कृत्स्नस्य जगतः पात्रभूतः सतां गतिः ।
सम्प्राप्तो लोकराज्यं स सर्वभूतहिते रतः ।। ५ ।।
नैव शक्यस्त्वया जेतुं वज्रनाभ विहन्यसे ।
अहिं पदा व्युत्क्रमन्वै नचिराद् विनशिष्यसि ।। ६ ।।
वज्रनाभश्च तद्वाक्यं नाभिनन्दति भारत ।
कालपाशपरीताङ्गो मर्तुकाम इवौषधम् ।। ७ ।।
अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम्।
त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः ।। ८ ।।
ज्ञातियोधान् समानीय मित्राणि सुबहूनि च ।
प्रतस्थे स्वर्गमेवाग्रे विजिगीषन् विशाम्पते ।। ९ ।।
एतस्मिन्नन्तरे देवौ कृष्णेन्द्रौ च महाबलौ ।
प्रेषयामासतुर्हंसान् वज्रनाभवधं प्रति ।। 2.96.१० ।।
समागतास्तु तच्छ्रुत्वा यदुमुख्या महाबलाः ।
मन्त्रयित्वा महात्मानश्चिन्तामापेदिरे तथा ।। ११ ।।
वज्रनाभोऽद्य हन्तव्यः प्रद्युम्नेनेत्यसंशयम् ।
तयोर्दुहितरो भार्या भक्त्या ताः सर्वभावनाः ।। १२ ।।
सर्वाः सगर्भास्ताश्चैव किं नु कार्यमनन्तरम् ।
प्राप्तः प्रसवकालश्च तासां नातिचिरादिव ।। १३ ।।
सम्मन्त्रयित्वैतदर्थं हंसानूचुर्महाबलाः ।
आख्येयमर्थवत् कृत्स्नं शक्रकेशवयोस्तदा ।। १४ ।।
हंसैर्गत्वा तदाख्यातं देवयोस्तद् यथातथम् ।
ताभ्यां हंसास्तु संदिष्टा न भेतव्यमिति प्रभो ।। १५ ।।
उत्पत्स्यन्ति गुणैः श्लाघ्याः पुत्रा वः कामरूपिणः ।
गर्भस्थाः सर्ववेदांश्च साङ्गान्वेत्स्यन्त्यनिन्दिताः।। १६ ।।
तथा चानागतं सर्वमस्त्राणि विविधानि च ।
सद्य एव युवानश्च भविष्यन्ति सुपण्डिताः ।। १७ ।।
 एवमुक्ता गता हंसाः पुनर्वज्रपुरं विभो ।
शशंसुश्चैव भैमानां शक्रकेशवभाषितम् ।। १८ ।।
प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः ।
सद्यो यौवनसम्प्राप्तं सर्वज्ञत्वं च भारत ।। १९ ।।
मासमात्रेण सुषुवे देवी चन्द्रवती नृप ।
चन्द्रप्रभमिति ख्यातं तनयं सदृशं पितुः ।। 2.96.२० ।।
सद्यश्च यौवनं प्राप्तं सर्वज्ञत्वं च भारत ।
गुणवत्यपि पुत्रं च गुणवन्तमनिन्दिता ।। २१ ।।
युवानावथ सद्यस्तौ सर्वशास्त्रार्थकोविदौ ।
इन्द्रोपेन्द्रप्रसादेन संवृत्तौ युद्धवर्द्धनौ ।। २२ ।।
हर्म्यपृष्ठे वर्द्धमाना दृष्टास्ते यदुनन्दनाः ।
इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्यवधार्यताम् ।। २३ ।।
निवेदिताश्च सम्भ्रान्तैर्दैत्यैराकाशरक्षिभिः ।
वज्रनाभाय वीराय त्रिविष्टपजयैषिणे ।। २४ ।।
वधाय सर्वे गृह्यन्तां ममैते गृहधर्षकाः ।
इत्युवाचासुरपतिर्वज्रनाभो महासुरः ।।२५ ।।
ततः सैन्यं समा्ज्ञप्तमसुरेन्द्रेण धीमता ।
आवारयामास दिशः सर्वाः कुरुकुलोद्वह ।। २६ ।।
गृह्यन्तामाशु वध्यन्तामिति वाचस्ततस्ततः ।
उच्चेरुरसुरेन्द्रस्य शासनादरिशासिनः ।। २७ ।।
तच्छ्रुत्वा व्यथितास्तेषां मातरः पुत्रवत्सलाः ।
रुरुदुस्ता रुदन्तीश्च प्रद्युम्नः प्रहसन् ब्रवीत् ।। २८ ।।
मा भैष्ट जीवमानेषु स्थितेष्वस्मासु सर्वथा ।
किं नो दैत्याः करिष्यन्ति सर्वथा भद्रमस्तु वः ।। २९ ।।
प्रभावतीमथोवाच प्रद्युम्नो विप्लवां स्थिताम् ।
पिता तव गदापाणिः पितृव्याश्च स्थितास्तव ।। 2.96.३० ।।
भ्रातरश्चैव ते देवि ज्ञातयश्च तथापरे ।
एते पूज्याश्च मान्याश्च तवार्थे खलु सर्वथा ।। ३१ ।।
भगिन्यौ पृच्छ भद्रं ते कालोऽयं खलु दारुणः ।
मरणं सहमानानां युद्ध्यतां विजयो ध्रुवम् ।। ३२ ।
दानवेन्द्रादयो ह्येते योत्स्यन्तेऽस्मद्वधैषिणः ।
किमत्र कार्यमस्माभिः सर्वैश्चक्रान्तरस्थितैः ।। ३३ ।।
प्रभावती रुदन्ती तु प्रद्युम्नमिदमब्रवीत् ।
शिरस्यञ्जलिमाधाय जानुभ्यां पतिता क्षितौ ।। ३४ ।।
गृहाण शस्त्रमात्मानं रक्ष शत्रुनिबर्हण ।
जीवन् पुत्रांश्च दारांश्च द्रष्टासि यदुनन्दन ।। ३५ ।।
आर्यां नृवर वैदर्भीमनिरुद्धं च मानद ।
स्मृत्वैतन्मोक्षयात्मानं व्यसनादरिमर्दन ।। ३६ ।।
दुर्वाससा वरो दत्तो मुनिना मम धीमता ।
वैधव्यरहिता हृष्टा जीवपुत्रा भविष्यसि ।। ३७ ।।
एष मे हृदयाश्वासो भविता न तदन्यथा ।
सूर्याग्नितेजसो वाक्यं मुनेरिन्द्रानुजात्मज ।। ३८ ।।
इत्युक्त्वाथासिमादाय सूपस्पृष्ट्वा मनस्विनी ।
प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा ।। ३९ ।।
स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया ।।2.96.४० ।।
चन्द्रवत्यपि निस्त्रिंशं गदाय प्रददौ मुदा ।
तदा गुणवती चैव साम्बायासिं महात्मने ।। ४१ ।।
हंसकेतुमथोवाच प्रद्युम्नः प्रणतं प्रभुः ।
इहैव साम्बसहितो युध्यस्व सह यादवैः ।। ४२ ।।
आकाशे दिक्षु सर्वासु योत्स्याम्यहमरिंदम ।
इत्युक्त्वाथ रथं चक्रे मायया मायिनां वरः ।। ४३ ।।
सहस्रशिरसं नागं कृत्वा सारथिमात्मवान् ।
अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम् ।। ४४ ।।
स तेन रथमुख्येन हर्षयन् वै प्रभावतीम् ।
चचारासुरसैन्येषु तृणेष्विव हुताशनः ।। ४५ ।।
शरैराशीविषप्रख्यैरर्द्धचन्द्रानुकारिभिः ।
भेदनैर्गाधनैश्चैव ततर्द दितिसम्भवान् ।। ४६ ।।
असुराश्च रणे मत्ताः कार्ष्णिं शस्त्रैरितस्ततः ।
जघ्नुः कमलपत्राक्षं परं निश्चयमास्थिताः ।। ४७ ।।
चिच्छेद बाहून् केषांचित्केयूरवलयोज्ज्वलान् ।
सकुण्डलानि केषांचिच्छिरांस्यपि च चिच्छिदे ।।४८।।
क्षुरच्छिन्नैः शिरोभिश्च कायैश्च शकलैरपि ।
असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा ।। ४९ ।।
देवेश्वरो देवगणैः सहितः समितिंजयः ।
ददर्श मुदितो युद्धं भैमानां दितिजैः सह ।। 2.96.५० ।।
ये गदं चैव साम्बं च दैत्याः समभिदुद्रुवुः ।
ते ययुर्निधनं सर्वे यादांसीव महोदधौ ।। ५१ ।।
विषमं तु तदा युद्धं दृष्ट्वा देवपतिर्हरिः ।
गदाय प्रेषयामास स्वं रथं हरिवाहनः ।। ५२ ।।
दिदेश मातलिसुतं यन्तारं च सुवर्चसम् ।
साम्बायैरावणं नागं प्रेषयामास चेश्वरः ।। ५३ ।।
जयन्तं रौक्मिणेयस्य सहायमददाद् विभुः ।
ऐरावणमधिष्ठातुं प्रवरं स नियुक्तवान् ।। ५४ ।।
देवपुत्रद्विजौ वीरावप्रमेयपराक्रमौ ।
अनुज्ञाप्य सुराध्यक्षं ब्रह्माणं लोकभावनम् ।। ५५ ।।
तं मातलिसुतं चैव गजमैरावणं तदा ।
देवः प्रेषितवाञ्छक्रो विधिज्ञो वरकर्मसु ।। ५६ ।।
क्षीणमस्य तपो वध्यो यदूनामेष दुर्मतिः ।
प्रवदन्ति तु भूतानि सर्वत्र तु यथेप्सितम् ।। ५७ ।।
प्रद्युम्नश्च जयन्तश्च प्राप्तौ हर्म्यं महाबलौ ।
असुराञ्च्छरजालौघैर्विक्राम्यन्तौ प्रणश्यतुः ।। ५८ ।।
गदं कार्ष्णिस्तदोवाच दुर्वार्यरणदुर्जयः ।
उपेन्द्रानुज शक्रेण रथोऽयं प्रेषितस्तव ।। ५९ ।।
हरियुङ्मातलिसुतो यन्ता चायं महाबलः ।
प्रवराधिष्ठितश्चायं साम्बस्यैरावणो गजः ।। 2.96.६० ।।
अद्योपहारो रुद्रस्य द्वारकायां महाबलः ।
श्व एष्यति हृषीकेशस्तस्मिन् वृत्तेऽच्युतानुज।। ६१ ।।
तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् ।
अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति ।। ६२ ।।
करिष्यामि विधानं तु नैष शक्रं सुतान्वितम् ।
विजेष्यत्यप्रमादस्तु कर्तव्य इति मे मतिः ।। ६३ ।।
कलत्ररक्षणं कार्यं सर्वोपायैर्नरैर्बुधैः ।
कलत्रधर्षणं लोके मरणादतिरिच्यते ।। १४ ।।
एवं संदिश्य भैमः स गदसाम्बौ महाबलः ।
प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया ।। ६५ ।।
तमश्च नाशयामास दैत्यसृष्टं दुरासदम् ।
जहृषे देवराजश्च तं दृष्ट्वा रिपुमर्दनम् ।। ६६ ।।
ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु ।
अन्तरात्मनि वर्तन्तं क्षेत्रज्ञमिव तं विदुः ।। ६७ ।।
एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः ।
असुराणां त्रिभागश्च निहतश्चातितेजसा ।। ६८ ।।
यावद् वियोधयामास कार्ष्णिर्दैत्यान् रणाजिरे ।
संध्योपास्ता जयन्तेन तावद् विष्णुपदीजले ।।६९ ।।
अयोधयज्जयन्तश्च यावद् दैत्यान् महाबलः ।
तावदाकाशगङ्गायां भैमः संध्यामुपास्तवान् ।। 2.96.७० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नदैत्ययुद्धे षण्णवतितमोऽध्यायः ।। ९६ ।।