हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०९४ हरिवंशपुराणम्
अध्यायः ९५
वेदव्यासः
अध्यायः ०९६ →
प्रद्युम्नेन प्रभावत्यां वर्षायाः वर्णनं कुर्वन्तं स्वकुलस्य परिचयदानम्

पञ्चनवतितमोऽध्यायः

वैशम्पायन उवाच
नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् ।
प्रभावतीं चारुविशालनेत्रामुवाच पूर्णेन्दुनिकाशवक्त्रः ।। १ ।
तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः ।
त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु ।। २ ।।
संदृश्यते सुभ्रु तडिद् घनस्था त्वं हेमचार्वाभरणान्वितेव ।
मुञ्चन्ति धाराश्च घना नदन्तस्त्वद्धारयष्टेः सदृशा वराङ्गि ।। ३ ।।
घनप्रदेशेषु बलाकपङक्तयस्त्वद्दन्तपङ्क्तिप्रतिमाविभान्ति ।
निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि ।। ४ ।।
अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः ।
अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः ।। ५ ।।
धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् ।
विभूषयन्तं गगनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते ।। ६ ।।
घनान् नदन्तः प्रतिनर्दमानान् निरीक्ष्यसुश्रोणि शिखीन्प्रहृष्टान् ।
समादृतानुद्धतपिच्छभारान् प्रियाभिरामानुपनृत्यमानान्।। ७ ।।
हर्म्येषु चान्ये शशिपाण्डुरेषु यजन्ति सुश्रोणि मयूरसंघाः ।
मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु ।। ८ ।।
प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय ।
प्रयान्ति भूमिं नवशाद्वलानामाशङ्कमाना धृतचारुदेहाः ।। ९ ।।
प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः ।
कदम्बसर्जार्जुनपुष्पभूतं समावहन् गन्धमनङ्गबन्धुम् ।। 2.95.१० ।।
रतिश्रमस्वेदविनाशहेतुर्नवोदभारानयने च हेतुः ।
न मारुतः स्याद् यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात् ।। ११ ।।
एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः ।
रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके ।। १२ ।।
जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः ।
गताः भ्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगणानुविद्धाः ।।। १३।।
न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे ।
गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव ।। १४
भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।
निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रणम्योत्तरचारुरूपाम् ।। १५ ।।
निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य ।
पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति ।। १६ ।।
कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति ।
पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात् प्रसादानभिकाङ्क्षमाणाः ।।१७।।
नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान्।
पेपीयमानान् भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव ।। १८ ।।
तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य ।
निपानगम्भीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु ।। १९ ।।
बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् ।
सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे ।। 2.95.२० ।।
जलावलम्बाम्बुदवृन्दकर्षी घनैर्घनान् योधयतीव वायुः ।
प्रवृत्तचक्रो नृपतिर्वनस्थान् गजान्गजैः स्वैरिव वीर्यदृप्तान् ।। २१ ।।
अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि ।
हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम् ।। २२ ।।
प्लवंगमः पोडशपक्षशायी विरौति गोष्ठः सहकामिनीभिः ।
ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः ।। २३ ।।
गुणो महांस्तोयदकालजोऽयमबुद्धमेघस्वनभीषितानाम् ।
परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम् ।। २४ ।।
दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले ।
न दृश्यते यत् तव वक्त्रतुल्यो धनग्रहग्रस्ततनुः शशाङ्कः ।। २५ ।।
प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः ।
तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव संनिवृत्तम् ।। २६ ।।
विलापसाक्षी प्रियहीनितानां संदृश्यते भीरु यदा शशाङ्कः ।
नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि ।। २७ ।।
नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् ।
तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च ।। २८ ।।
विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी ।
गुणागुणांश्चन्द्रमसा न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये ।। २९।।
अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः ।
गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम्।। 2.95.३० ।।
पिता बुधस्योत्तरवीर्यकर्मा पुरूरवा यस्य सुतो नृदेवः ।
प्राणाग्निरीड्योऽग्निमजीजनद् यो नष्टं शमीगर्भभवं भवात्मा ।। ३१।।
तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम्।
पीतः पुरा योऽमृतसर्वदेहो मुनिप्रवीरैर्वरगात्रि घोरैः ।। ३२ ।।
नृपः कुशाग्रैः पुनरेव यश्च धीमानतोऽग्निर्दिवि पूज्यते च ।
आयुश्च वंशे नहुषश्च यस्य यो देवराजत्वमवाप वीरः ।। ३३ ।।
देवातिदेवो भगवान् प्रसूतो वंशे हरिर्यत्र जगत्प्रणेता ।
भैमः प्रवीरः सुरकार्यहेतोर्यः सुभ्रुदक्षस्य वृतः सुताभिः ।। ३४ ।।
बभूव राजाथ वसुश्च यस्य वंशे महात्मा शशिवंशदीपः ।
यश्चक्रवर्तित्वमवाप वीरः स्वैः कर्मभिः शक्रसमप्रभावः ।। ३५ ।।
यदुश्च राजा शशिवंशमुख्यो योऽवाप मह्यामधिराजभावम्।
भोजाः कुले यस्य नराधिपस्य वीराः प्रसूताः सुरराजतुल्याः ।। ३६ ।।
न कूटकृद् यस्य नृपोऽस्ति वंशे न नास्तिको नैष्कृतिकोऽपि वाथ ।
अश्रद्दधानोऽप्यथवा कदर्यः शौर्येण वा वारिरुहाक्षि हीनः ।। ३७ ।।
वंशे वधूस्त्वं कमलायताक्षि श्लाघ्या गुणानामतिपात्रभूता ।
कुरु प्रणामं शिखराग्रदन्ति तस्य त्वमीशस्य सतां प्रियस्य ।। ३८ ।।
नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय ।
खगेन्द्रकेतोः पुरुषोत्तमाय कुरु प्रणामं श्वशुराय देवि ।। ३९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः ।। ९५ ।।