हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०९४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०९३ हरिवंशपुराणम्
अध्यायः ९४
वेदव्यासः
अध्यायः ०९५ →
प्रद्युम्नप्रभावत्योः गान्धर्वविवाहं समागमं च, तदनन्तरं गदचन्द्रवत्योः एवं साम्बगुणवत्योः गान्धर्वविवाहम्

चतुर्नवतितमोऽध्यायः

वैशम्पायन उवाच
आविष्टेयं मया बाला सर्वथेत्यवगम्य तु ।
कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह ।। १ ।।
दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह ।
षट्पदैः सह षट्पादो भूत्वा माल्ये निलीय हि ।। २ ।।
विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।
इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः ।। ३ ।।
तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।
अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा ।। ४ ।।
प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः ।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ।। ५ ।।
सलज्जाधोमुखी किञ्चित्किञ्चित्तिर्यगवेक्षिणी।
प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा ।। ६ ।।
करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।
स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः ।। ७ ।।
मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् ।
अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे ।। ८ ।।
प्रभोपमर्दं मा कार्षीर्वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम् ।। ९ ।।
न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज ।
याचाम्येषोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे ।। 2.94.१० ।।
गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।
देशकालानुरूपेण रूपेणाप्रतिमा सती ।। ११ ।।
उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।
जुहाव समये वीरः पुष्पैर्मन्त्रानुदीरयन् ।। १२ ।।
जग्राहाथ करं तस्या वराभरणभूषितम् ।
चक्रे प्रदक्षिणं चैवं तं मणिस्थं हुताशनम् ।। १३ ।।
प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम्।
भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च ।। १४
उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।
उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ।। १५ ।।
तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् ।
प्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ।। १६ ।।
ऊरावेवोपवेश्यैनां सान्त्वयित्वा पुनः पुनः ।
चुचुम्ब शनकैर्गण्डं वासयन् मुखमारुतैः ।। १७ ।।
ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा ।
आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ।। १८ ।।
अरीरमद् रहस्येनां न चोद्वेजितवांस्तदा ।
अपकृष्टं चरत्यर्थं रतिकार्यविशारदः ।
उवास स तया सार्द्धं रमन् कृष्णसुतः प्रभुः ।। १९ ।।
अरुणोदयकाले च ययौ यत्र नटालयम् ।
अकामया प्रभावत्या कथञ्चित्स विसर्जितः ।। 2.94.२० ।।
तामेव मनसा कान्तां कान्तरूपां समुद्वहन् ।
त ऊषुर्नटवेषेण कार्यार्थं भैमवंशजाः ।। २१ ।।
प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा ।
उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ।। २२ ।।
प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।
कश्यपस्य मुनेः सत्रं यावत् तावन्नराधिप ।। २३ ।।
देवासुराणां सर्वेषामविरोधो महात्मनाम् ।
त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम् ।। २४ ।।
एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् ।
सम्प्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ।। २५ ।।
अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ।
शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम् ।। २६ ।।
रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया ।
रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ।। २७ ।।
तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया ।
व्याप्तं नृप नटांस्तांश्च न विदुः कालमोहिताः ।। २८ ।।
दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये ।
तिष्ठत्यन्तर्हितो वीरो हंससंघाभिरक्षितः ।। २९ ।।
माययास्य प्रतिच्छाया दृश्यते हि नटालये ।
देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम् ।। 2.94.३० ।।
संनतिं विनयं शीलं लीलां दाक्ष्यमथार्जवम् ।
स्पृहयन्त्यसुरा दृष्ट्वा विद्वत्तां च महात्मनाम् ।। ३१ ।।
रूपं विलासं गन्धं च मञ्जुभाषामथार्यताम् ।
तासां यादवनारीणां स्पृहयन्त्यसुरस्त्रियः ।। ३२ ।।
वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः ।
दुहितृद्वयं च नृपते तस्य रूपगुणान्वितम् ।। ३३ ।।
एका चन्द्रवती नाम्ना गुणवत्यथ चापरा ।
प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा ।। ३४ ।।
ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् ।
परिपप्रच्छतुश्चैव विस्रम्भोपगतां सतीम् ।। ३५ ।।
सोवाच मम विद्यास्ति याधीता काङ्क्षितं पतिम् ।
रत्यर्थं साऽऽनयत्याशु सौभाग्यं च प्रयच्छति ।।३६ ।।
देवं वा दानवं वापि विवशं सद्य एव हि ।
साहं रमामि कान्तेन देवपुत्रेण धीमता ।। ३७ ।।
दृश्यतां मत्प्रभावेण प्रद्युम्नः सुप्रियो मम ।
ते दृष्ट्वा विस्मयं याते रूपयौवनसम्पदम् ।। ३८ ।।
पुनरेवाब्रवीत् ते तु भगिन्यौ चारुहासिनी ।
प्रभावती वरारोहा कालप्राप्तमिदं वचः ।। ३९ ।।
देवा धर्मरता नित्यं दम्भशीला महासुराः ।
देवास्तपसि रक्ता हि सुखे रक्ता महासुराः ।। 2.94.४० ।।
देवाः सत्ये रता नित्यमनृते तु महासुराः ।
धर्मस्तपश्च सत्यं च यत्र तत्र जयो धुवम् ।। ४१ ।।
देवपुत्रौ वरयतां पतिविद्यां ददाम्यहम् ।
उचितौ मत्प्रभावेण सद्य एवोपलप्स्यथः ।। ४२ ।।
तां तथेत्यूचतुर्हृष्टे भगिन्यौ चारुलोचनाम् ।
परिपप्रच्छ भैमं च कार्यं तत् पतिमानिनी ।। ४३ ।।
स पितृव्यं गदं वीरं साम्बं चाथाब्रवीत् तदा ।
रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि ।। ४४ ।।
प्रभावत्युवाच
परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा ।
परितुष्टेन सौभाग्यं सदा कन्यात्वमेव च ।। ४५ ।।
देवदानवयक्षाणां यं ध्यास्यति स ते पतिः ।
भवितेति मया चैव वीरोऽयमभिकाङ्क्षितः ।। ४६ ।।
गृह्णीतं तदिमां विद्यां सद्यो वां प्रियसङ्गमः ।
ततो जगृहतुर्हृष्टे तां विद्यां भगिनीमुखात् ।। ४७ ।।
दध्यतुर्गदसाम्बौ च विद्यामभ्यस्य ते शुभे ।
तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ ।। ४८ ।।
प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप ।
गान्धर्वेण विवाहेन तावप्यरिबलार्दनौ ।। ४९ ।।
पाणिं जगृहतुर्वीरौ मन्त्रपूर्वं सतां प्रियौ ।
चन्द्रवत्या गदः साम्बो गुणवत्या च कैशविः ।। 2.94.५० ।।
रेमिरेऽसुरकन्याभिर्वीरास्ते यदुपुङ्गवाः ।
मार्गमाणास्त्वनुज्ञां ते शक्रकेशवयोस्तदा ।। ५१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रभावतीपाणिग्रहणे चतुर्नवतितमोऽध्यायः ।। ९४ ।।