सामग्री पर जाएँ

हठयोगप्रदीपिका/उपदेशः ५

विकिस्रोतः तः

प्रमादी युज्यते यस्तु वातादिस्तस्य जायते ।

तद्दोषस्य चिकित्सार्थं गतिर्वायोर्निरूप्यते ।। 1 ।।

वायोरुर्ध्वं प्रवृत्तस्य गतिं ज्ञात्वा प्रयत्नतः ।

कुर्याच्चित्तकित्सां दोषस्य द्रुतं योगी विचक्षण: ।। 2 ।।

तलपादनाभिदेशे वातस्थान मुदीरितम् ।

आनाभेर्हृदयं यावत् पित्तकोष्ठं प्रकीर्तितम् ।। 3 ।।

हृद्देशादूर्ध्वकायस्तु श्लेष्मधातुरिहोच्यते ।

इति त्रयाणां धातूनां स्वं स्वं स्थानमुदीरितम् ।। 4 ।।

प्रमादाद्योगिना वायुरुन्मार्गेण प्रवर्तित: ।

तदा मार्गमना साद्य ग्रन्थी भूत्वावतिष्ठते ।। 5 ।।

तदा नानाविधा रोगा जायन्ते विध्नकारका: ।

तेषां चिकित्सां वक्ष्यामि यथोक्तां तन्त्र वेदिभि: ।। 6 ।।

उन्मार्गं प्रस्थितो वायु: पित्तकोष्ठे यदा स्थित: ।

हृच्छूलं पार्श्वशूलं च पृष्ठशूलं च जायते ।। 7 ।।

तैलाभ्यङ्गं तदा पथ्यं स्नान चोष्णेन वारिणा ।

सघृतं पायसं भुक्त्वा जीर्णेऽन्ने योगमभ्यसेत् ।। 8 ।।

यस्मिन् यस्मिन् यदा देशे रुजा बाधा प्रजायते ।

तस्मिन् देशे स्थितं वायुं मनसा परिचिन्तयेत् ।। 9 ।।

एकचित्तेन तद् ध्यात्वा पूरयेत् पूरकेण तु ।

नि:शेषरेचकं कुर्यात् यथाशक्तया प्रयत्नतः ।। 10 ।।

बहुधा रेचकं कृत्वा पूरयित्वा पुनः पुनः ।

कर्षयेत् प्राक्स्थितं वायुं कर्णतोयमिवाम्बुना ।। 11 ।।

प्रायः स्निग्धमाहरं च इह भुञ्जीत योगवित् ।

एवं शूलादयो रोगा: शाम्यन्ति वातपित्तजा: ।। 12 ।।

कफकोष्ठे यदा वायुर्ग्रन्थीभूत्वावतिष्ठते ।

हृत्का सहिक्काश्वासशिर: शूलादयो रुजा: ।। 13 ।।

जायन्ते धातुवैषमयात्तदा कुर्यात् प्रतिक्रियाम् ।

सम्यक् भोजनमादायोपस्पृश्य तदनन्तरम् ।। 14 ।।

कुम्भकं धारणं कुर्याद् द्वित्रिवारं विचक्षण: ।

एवं श्वासादयो रोगा: शाम्यन्ति कफपित्तजा: ।। 15 ।।

भुक्त्वा पायससं चोष्णं क्षीरं वापि घृतप्लुतम् ।

वारुणीधारणां कृत्वा कुर्यात् सर्वाङ्गयन्त्रणम् ।। 16 ।।

एवं कुष्ठादयो रोगा: प्रणश्यन्ति न संशय: ।

नेत्रे निमील्य कुर्वीत तिमिरादि प्रणश्यति ।। 17 ।।

वेपथुर्वातरक्तं च योगिनो जायते यदा ।

यत्र यत्र रुजा बाधा तत्र वायुं विचिन्तयेत् ।। 18 ।।

पूरयित्वा तत: सम्यक् पूरकेण विचक्षण: ।

धारयित्वा यथाशक्ति नाडीयोगेन रेचयेत् ।। 19 ।।

सङ्कुच्याकर्षयेद् भूय: कूर्मवद्रेचकेन तु ।

चक्रवद् भ्रामयेद्वापि पूरयित्वा पुनः पुनः ।। 20 ।।

उत्तानोऽथ समे देशे ततं कृत्वा तु विग्रहम् ।

प्राणायामं प्रकुर्वीत सर्वदोषप्रशान्तये ।। 21 ।।

वैद्यशास्त्रोक्तविधिना क्रियां कुर्वीत यत्नत: ।

कुर्याद्योगचिकित्सां च सर्वरोगेषु रोगवित् ।। 22 ।।

यत्र यत्र रुजा बाधा तं देशं व्याप्य धारयेत् ।। 23 ।।

भीतिबाधान्तरायेषु समुत्पन्नेषु योगवित् ।

यथाशक्ति प्रयत्नेन योगाभ्यासं विवर्धयेत् ।। 24 ।।

इति स्वात्मारामविरिचितायां हठयोगप्रदीपिकायां पञ्चमोऽध्यायः