स्वप्नवासवदत्तम्/चतुर्थोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

<poem> अथ चतुर्थोऽङ्क (ततः प्रविशति विदूषकः) विदूषकः - (सहर्षम्) भो! दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलरमणिज्जो कालो दिट्ठो । भो! को णाम एदं जाणादि तादिसे वयं अणत्थसलिलावत्ते पक्खित्ता उण उम्मज्जिस्मामो त्ति । इदाणिं पासादेसु वसिअदि, अन्देउरदिगिघआसु ह्णहाईअदि पकिदिमहुरसु उमाराणि मोदअखज्जआणि खज्झीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि। एक्को खु महन्तो दोसो, मम आहारो सुट्ठ ण परिणमदि । सुपप्पच्छदणाए सय्याए णिद्दं ण ऴभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि!। भो! सुहं णामअपरिभूदं अकल्लवत्तं च। (भो! दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः कालो दृष्टः । भो! को नामैतज्जानाति तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं प्रासादेषूष्यते, अन्तःपुरदीर्घिकासु स्नायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यकानि खाद्यन्त इत्यनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः । ममाहारः सुष्ठु परिणमति । सुप्रच्छदनायां शय्यायां निद्रां न लभे । यथा वातशोणितमभित इव वर्तत इति पश्यामि। भोः! सुखं नामयपरिभूतमकल्यवर्तं च ।) (ततः प्रविशति चेटी) चेटी - कहिं णु खु गदो अय्यवसन्तओ? (परिक्रम्यावलोक्य) अम्हो एसो अय्यवसन्तओ । (उपगम्य) अय्य वसन्तअ! को कालो तुमं अण्णेसामि । (कुत्र नु खलु गत आर्यवसन्तकः? अहो एष आर्यवसन्तकः! क कालः त्वामन्विष्यामि। विदूषकः - (दृष्ट्वा) किंणिमित्तं भद्दे! मं अण्णेससि। (किंनिमित्तं भद्रे। मामन्विष्यसि।) चेटी - अम्हाणं भट्टिणी भणादि अवि ण्हादो जामादुओ त्ति। (अस्माकं भट्टिनी भणति अपि स्नातो जामातृक इति।) विदूषक - किंणिमित्तं भोदी! पुच्छदि। (किंनिमित्तं भवति! पृच्छति।) चेटी - किमण्णं। सुमणावण्णअं आणेमि त्ति। (किमन्यत्। सुमनोवर्णकमानयामीति।) विदूषकः - ण्हादो तत्तभवं। सव्वं आणेदु भोदी वज्जिअ भोअणं। (स्नातस्तत्रभवान्। सर्वमानयतु भवती वर्जयित्वा भोजनम्।) चेटी - किंणिमित्तं वारेसि भोअणं। (किंनिमित्तं वारयसि भोजनम्।) विदूषकः - अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो। (अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः।) चेटी - ईदिसो एव्व होहि। (ईदृश एव भव।) विदूषकः - गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। (गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि।) (निष्क्रान्तौ) इति प्रवेशकः । (ततः प्रविशति सपरिवारा पद्मावती, आवन्तिकावेषधारिणी वासवदत्ता च) चेटी - किं णिमित्तं भट्टिदारिआ पमदवणं आअदा। (किं निमित्तं भर्तृदारिका प्रमदवनमागता।) पद्मावती - हळा! ताणि दाव सेहालिआगुम्हआणि पेक्खामि कुसुमिदाणि वा णवेत्ति। (हला! तानि तावच्छेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा न वेति।) चेटी - भट्टिदारिए! ताणि कुसुमिदाणि णाम, पवालन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं। (भर्तृदारिके! तामि कुसुमितानि नाम, प्रवालान्तरितैरिव मौक्तिकलम्बकैराचिताः कुसुमैः।17 पद्मावती - हळा! जदि एव्वं, किं दाणिं विलम्बेसि। (हला! यद्येवं किमिदानीं विलम्बसे।) चेटी - तेण हि इमस्सि सिलावट्टए, मुहुत्तअं उपविसदु भट्टिदारिआ जाव अहं वि कुसुमावचअं करेमि। (तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसुमावचयं करोमि।) पद्मावती - अय्ये! किं एत्य उपविसामो। (आर्ये। किमत्रोपविशावः।) वासवदत्ता - एव्वं होदु। (एवं भवतु।) (उभे उपविशतः) चेटी - (तथा कृत्वा) पेक्खदु पेक्खदु भट्टिदारिया अद्धा मणसिला-वट्टाएहिं विअ सेहालिआकुसुमेहिं पूरिअं मे अञ्जलि। (प्रेक्षतां प्रेक्षतां भर्तृदारिका अर्ध मनः शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितं मेऽञ्जलिम्।) पद्मावती - (दृष्ट्वा) अहो विइत्तदा कुसुमाणं। पेक्खदु पेक्खदु अय्या। (अहो विचित्रता कुसुमानाम्। प्रेक्षतां प्रेक्षतामार्या।) वासवदत्ता - अहो दंसणीअदा कुसुमाणं। (अहो दर्शनीयता कुसुमानाम्) चेटी - भट्टिदारिए! किं भूयो अवइणुस्सं। (भर्तृदारिके! किं भूयोऽवचेष्यामि।) पद्मावती - हला! मा मा भूयो अवइणिअ (हला मा मा भूयोऽवचित्य।) वासवदत्ता - हला! किंणिमित्तं वारेसि। (हला! किनिमित्तं वारयसि।) पद्मावती - अय्यउत्तो इह आअच्छिअ इमं कुसुमसमिदिं्ध पेक्खिअ सम्माणिदा भवेअं। (आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं प्रेक्ष्य संमानिता भवेयम्।) वासवदत्ता - हला! पिओ दे भत्ता। (हला प्रियस्ते भर्ता।) पद्मावती - अय्ये! ण आणामि, अय्यउत्तेण विरहिदा उक्कण्ठिदा होमि। (आर्ये! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि) वासवदत्ता - (आत्मगतम्) दुक्खरं खु अहं करेमि। इअं वि णामएव्वं मन्तेदि। (दुष्करं खल्वहं करोमि, इयमपि नामैवं मन्त्रयति।) चेटी - अभिजादं खु भट्टिदाइआए मन्दिदं पिओ मे भत्त त्ति। (अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति।) पद्मावती - एक्को खु मे सन्देहो। (एकः खलु मे सन्देहः।) वासवदत्ता - किं किं। (किं किम्।) पद्मावती - जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए त्ति। यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति।) वासवदत्ता - अदो वि अहिअं। (अतोऽप्यधिकम्।) पद्मावती - कहं तुवं जाणासि। (कथं त्वं जानासि।) वासवदत्ता - (आत्मगतम्) हं, अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। एव्वं दाव भणिस्सं। (प्रकाशम्) जइ अप्पो सिणेहो, सा सजणं ण परित्तजदि। (हम् आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः। एवं तावद् भणिष्यामि। यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति।) पद्मावती - होदव्वं। (भवितव्यम्।) चेटी - भट्टिदारिए! साहु भट्टारं भणाहि अहं पि वीणं सिक्खिस्सामित्ति। (भर्तृदारिके! साधु भर्तारं भण, अहमपि वीणां शिक्षिष्य इति।) पद्मावती - उत्तो मए अय्यउत्तो (उक्तो मयार्यपुत्रः।) वासवदत्ता - तदो कि भणिदं (ततः कि भणितम्।) पद्मावती - अभणिअ किञ्चि दिग्घं णिस्ससिअ तुण्हीओ संवुत्तो। (अभणित्वा किंचिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः।) वासवदत्ता - तदो तुवं किं विअ तक्केसि। (ततस्त्वं किमिव तर्कयसि।)18 पद्मावती - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति। (तर्कयाम्यार्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति।) वासवदत्ता - (आत्मगतम्) धञ्जा खु म्हि, जदि एव्वं सच्चं भवे। (धन्या खल्वस्मि, यद्येवं सत्यं भवेत्।) (ततः प्रविशति राजा विदूषकश्च) विदूषकः - ही ही! पचिअपडिअबन्धुजीवकुसुमविरलवादरमणिज्जं पमदवणं। इदो दाव भवं। (ही ही! प्रचितपतितबन्धुजीवकुसुमविरलवातरमणीयं प्रमदवनम्। इतस्तावद् भवान्।) राजा - वयस्य वसन्तक! अयमहमागच्छामि। कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः । तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ।। 1 ।। विदूषकः - कहिं णु खु गता तत्तहोदी पदुमावदी। लदामण्डवं गदा भवे। उदाहो असणकुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिलअं णाम सिलाण्ट्टअं गदा भवे। आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव आलिहिदमिअपक्खिसङ्कुलं दारुपव्वदअं गदा भवे। (ऊध्र्वमवलोक्य) ही ही सरअकालणिम्मले अन्तरिक्खे पसादिअबलदेवबाहुदंसणीअं सारसपÏन्त जाव समाहिदं गच्छन्ति पेक्खदु दाव भवं। (कुत्र नु खलु गता तत्रभवती पद्मावती। लतामण्डपं गता भवेद्। उताहो असनकुसुमसंचितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत्। अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालिखितमृगपक्षिसंकुलं दारुपर्वतकं गता भवेत्। ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपंक्ति यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान्।) राजा - वयस्य! पश्याम्येनाम् ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ।। चेटी - पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमालापण्डुररमणीअं सारसपÏन्त जाव समाहिदं गच्छÏन्त । अंहो भट्टा। (प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपंक्ति यावत् समाहितं गच्छन्तीम्। अहो भर्ता।) पद्मावती - हं अय्यउत्तो। अय्ये! तव कारणादो अय्यउत्तदंसणं परिहरामि। ता इमं दाव माहवीलदामण्डवं पविसामो। (हम्, आर्यपुत्रः । आर्ये! तव कारणादार्यपुत्रदर्शनं परिहरामि। तदिमं तावन्माधवीलतामण्डपं प्रविशामः।) वासवदत्ता - एव्वं होदु। (एवं भवतु) (तथा कुर्वन्ति) विदूषकः - तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे। (तत्रभवती पद्मावतीहागत्य निर्गता भवेत्।) राजा - कथं भवान् जानाति। विदूषकः - इमाणि अवइदकुसुमाणि सेफलिआगुच्छआणि पेक्खदु दाव भवं। (इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान्।) राजा - अहो विचित्रता कुसुमस्य, वसन्तक। वासवदत्ता - (आत्मगतम्) वसन्तअसंकित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति। (वसन्तकसंकीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्त इति।) राजा - वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे। विदूषकः - भो तह। (उपविश्योत्थाय) ही ही सरअकालतिक्खो दुस्सहो आदवो। ता इमं दाव माहवीमण्डवं पविसामो (भोस्तथा। ही ही शरत्कालतीक्ष्णो दुःसह आतपः। तदिमं तावन्माधवीमण्डपं प्रविशावः।)19 राजा - बाढम्। गच्छाग्रतः। विदूषकः - एव्वं होदु । (एवं भवतु।) (उभौ परिक्रामतः) पद्मावती - सव्वं आउलं कत्तुकामो अय्यवसन्तओ। किं दाणिं करेम्ह। (सर्वमाकुलं कर्तुकाम आर्यवसन्तकः। किमिदानीं कुर्मः। चेटी - भट्टिदारिए! एदं महुअरपरिणिलीणं ओलंबलदं ओधूय भट्टारं वारइस्सं (भर्तृदारिके! एतां मधुकरपरिनिलीनामवलम्बलतामवधूय भर्तारं वारयिष्यामि। पद्मावती - एव्वं करेहि (एवं कुरु।) (चेटी तथा करोति) विदूषकः - अविहा अविहा, चिट्ठदु चिट्ठदु दाव भवं। (अविधा अविधा, तिष्ठतु तावद् भवान्।) राजा - किमर्थम्। विदूषकः - दासीए पुत्तेहि महुअरेहि पीडिदो म्हि। (दास्याः पुत्रैर्मधुकरैः पीडितोऽस्मि।) राजा - मा मा भवानेवम्। मधुकरसंत्रासः परिहार्यः। पश्य, मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढाः। पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ।। 3 तस्मादिहैवासिष्यावहे। विदूषकः - एव्वं होदु।। (एवं भवतु।) (उभावुपविशतः) चेटी - भर्तृदारिके! रुद्धा खु म्हवयं । (भर्तृदारिके! रुद्धाः खलु स्मो वयम्।) पद्मावती - दिट्टिआ उवविट्ठो अय्यउत्तो। (दिष्ट्योपविष्ट आर्यपुत्रः।) वासवदत्ता - (आत्मगतम्) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो। (दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः) चेटी - भट्टिदारिए! सस्सुपादा खु अय्याए दिट्ठी। (भर्तृदारिके! साश्रुपाता खल्वार्याया दृष्टिः।) वासवदत्ता - एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेणसोदआ मे दिठ्ठी। (एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः। पद्मावती - जुज्जइ । (युज्यते।) विदूषकः - भो सुण्णं खु इदं पमदवणं । पुच्छिदव्वं किञ्चि अत्थि। पुच्छामि भवन्तं। (भोः! भोः! शून्यं खल्विदं प्रमदवनम्। प्रष्टव्यं किंचिदस्ति। पृच्छामि भवन्तम्।) राजा - छन्दतः। विदूषकः - का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पदुमावदी वा। (का भवतः प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा।) राजा - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति। पद्मावती - हला! ईदिसे सङ्कडे निक्खितो अय्यउत्तो। (हला! ईद्दशे सङ्कटे निक्षिप्त आर्यपुत्रः।) वासवदत्ता - (आत्मगतम्) अहं अ मन्दभाआ। (अहं च मन्दभागा।) विदूषकः - सेरं सेरं भणादु भवं। एक्का उवरदा, अवरा असण्णिहिदा। (स्वैरं स्वैरं भणतु भवान्। एकोपरता, अपरासंनिहिता।) राजा - वयस्य! न खलु न खलु ब्रूयाम्। भवांस्तु मुखरः।20 पद्मावती - एत्तएण भणिदं अय्यउत्तेण। (एतावता भणितमार्यपुत्रेण।) विदूषकः - भो! सच्चेण सवामि, कस्स वि ण आचक्खिस्सं। एसा सन्दट्ठा मे जीहा। (भोः! सत्येन शपामि, कस्मा अपि नाख्यास्यामि! एषा संदष्टा मे जिह्वा।) राजा - नोत्सहे, सखे! वक्तुम्। पद्मावती - अहो इमस्स पुरोभाइदा। एत्तिएण हिअअं ण जाणादि। (अहो अस्य पुरोभागिता। एतावता हृदयं न जानाति।) विदूषकः - किं ण भणादि मम। अणाचक्किअ इमादो सिलावट्टआदौ ण सक्कं एक्कपदं वि गमिदुं। एसो रुद्धो अत्तभवं। (किं न भणति मह्यम्। अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम्। एष रुद्धोऽत्रभवान्।) राजा - किं बलात्कारेण। विदूषकः - आम, बलक्कारेण। (आम् बलात्कारेण।) राजा - तेन हि पश्यामस्तावत्। विदूषकः - पसीददु पसीददु भवं। वअस्सभावेण साविदो सि, जइ सच्चं ण भणासि। (प्रसीदतु प्रसीदतु भवान्। वयस्यभावेन शापितोऽसि, यदि सत्यं न भणसि।) राजा - का गतिः। श्रूयताम्। पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः। वासवदत्ताबद्धं न तु तावन्मे मनो हरति।। 4 ।। वासवदत्ता - (आत्मगतम्) भोदु, भोदु। दिण्णं वेदणं इमस्स परिखेदस्स। अहो अञ्जादवासंपि एत्थ बहुगुणं सम्पज्जइ। (भवतु भवतु। दत्तं वेतनमस्य परिखेदस्य। अहो अज्ञातवासोऽप्यत्र बहुगुणः संपद्यते।) चेटी - भट्टिदारिए! अदक्खिञ्जो खु भट्टा। (भर्तृदारिके! अदाक्षिण्यः खलु भर्ता।) पद्मावती - हला! मा मा एव्वं। सदक्खिञ्जो एव्वं अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि। (हला! मा मैवम्। सदाक्षिण्य एवार्यपुत्रो, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति।) वासवदत्ता - भद्दे! अबिजणस्स सदिसं मन्तिदं। (भद्रे! अभिजनस्य सदृशं मन्त्रितम्।) राजा - उक्तं मया। भवानिदानीं कथयतु। का भवतः प्रिया, तदा वासवदत्ता, इदानीं पद्मावती वा। पद्मावती - अय्यउत्तो पि वसन्तओ संवुत्तो। (आर्यपुत्रोऽपि वसन्तकः संवृत्तः।) विदूषकः - किं मे विप्पलविदेण । उभओ पि तत्तहोदीओ मे बहुमदाओ। (किं मे विप्रलपितेन। उभे अपि तत्रभवत्यौ मे बहुमते।) राजा - वैधेय! मामेवं बलाच्छ्र ुत्वा किमिदानीं नाभिभाषसे। विदूषकः - किं मं पि बलक्कारेण। (किं मामपि बलात्कारेण।) राजा - अथ किं, बलात्कारेण। विदूषकः - तेण हि ण सक्कं सोदुं । (तेन हि न शक्यं श्रोतुम्।) राजा - प्रसीदतु प्रसीदतु महाब्राह्मणः। स्वैरं स्वैंरमभिधीयताम् विदूषकः - इदाणिं सुणादु भवं। तत्तहोदी वासवदत्ता मे बहुमदा। तत्तहोदी पदुमावदी तरुणी दंसणीआ अकोवणा अणाहङ्कारा महुरवाआ सदक्खिञ्जा। अअं च अवरो महन्तो गुणो, सिणिद्धेण भाअणेण मं पच्चुगच्छइ कहिं णु खु गदो अय्यवसन्तओत्ति। (इदानीं श्रृणोतु भवान्। तत्रभवती वासवदत्ता मे बहुमता। तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहंकारा मधुरवाक् सदाक्षिण्या। अयं चापरो महान् गुणः। स्निग्धेन भोजनेन मां प्रत्युद्गच्छति- कुत्र न खलु गत आर्यवसन्तक इति।) वासवदत्ता - भोदु भोदु, वसन्तअ! सुमरेहि दाणिं एदं। (भवतु भवतु, वसन्तक! स्मरेदानीमेतत्।) राजा - भवतु भवतु, वसन्तक! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै।21 विदूषकः - अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। (अविधा वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलूपरता वासवदत्ता।) राजा - (सविषादम्) एवम्। उपरता वासवदत्ता। अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया।। ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता।। पद्मावती - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ। (रमणीयः खलु कथायोगो नृशंसेन विसंवादितः।) वासवदत्ता - (आत्मगतम्) भोदु भोदु, विस्सत्थम्हि। अहो पिअं णाम, ईदिसं वअणं अपच्चक्खं सुणीअदि। (भवतु भवतु, विश्वस्तास्मि। अहो प्रियं नाम, ईदृशं वचनमप्रत्यक्षं श्रूयते।) विदूषकः - धारेदु धारेदु भवं। अणदिक्खमणीओ हि विही। ईदिसं दाणिं एदं। (धारयतु धारयतु भवान्। अनतिक्रमणीयो हि विधिः। ईदृशमिदानीमेतत्।) राजा - वयस्य! न जानाति भवानवस्थाम् । कुतः, दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ।। 6 ।। विदूषक: - अस्सुपादकिलिण्णं खु तत्तहोदो मुहं । जाव मुहोदअं आणेमि । (निष्कान्तः) । (अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।) पद्मावती - अय्ये! बप्फाउलपडन्तरिदं अय्यउत्तस्स मुहं। जाव णिक्कमम्ह। (आर्ये! बाष्पाकुलपटान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः।) वासवदत्ता - एव्वं होदु । अहव चिट्ठ तुवं । उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं । अहं एव्व गमिस्सं । (एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गमनम् । अहमेव गमिष्यामि ।) चेटी - सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टिदारिआ । (सुष्ट्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका ।) पद्मावती - किं णु खु पविसामि । (किं नु खलु प्रविशामि ।) वासवदत्ता - हला। पविस । (इत्युक्त्वा निष्क्रान्ता) । (हला! प्रविश।) (प्रविश्य) विदूषक - (नलिनीपत्रेण जलं गृहीत्वा) एसा तत्तहोदी पदुमावदी । (एषा तत्रभवती पद्मावती ।)द् पद्मावती - अय्य वसन्तअ! किं एदं । (आर्य वसन्तक! किमेतत्।) विदूषक - एदं इदं । इदं एदं (एतदिदम् । इदमेतत् ।)- पद्मावती - भणादु भणादु अय्यो भणादु । (भणतु भणत्वार्यो भणतु।) विदूषकः - भोदि! वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं खुतत्तहाद्दो मुहं । ता गण्हदु होदी इदं मुहोदअं । (भवति! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम्।) पद्मावती - (आत्मगतम्) अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं मुहोदअं । (अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति। जयत्वार्यपुत्रः। इदं मुखोदकम् ।) राजा - अये पद्मावती । (अपवार्य) वसन्तक किमिदम्। विदूषक: - (कर्णे) एव्वं विअ। (एवमिव।) राजा - साधु वसन्तक साधु! (आचम्य) पद्मावति! आस्यताम् । पद्मावती - जं अय्यउत्तो आणवेदि । (उपविशति) (यदार्यपुत्र आज्ञापयति।)22 राजा - पद्मावति ! शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि । काशपुष्पलवेनेदं साश्रुपातं मुखं मम ।। 7 ।। (आत्मगतम्) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ।। 8 ।। विदूषकः - उइदं तत्तहोदो मअधराअस्स अवरण्हकाले भवन्तं अग्गदो करिअ सुहिज्जणादंसणं । सक्कारो हि णाम सक्कारेण पटिच्छिदो पीदिं उप्पादेदि । ता उट्ठेदु दाव भवं । (उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तमग्रतः कृत्वा सुहज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीप्सितः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् ।) राजा - बाढम् । प्रथमः कल्पः । (उत्थाय) गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तार: सुलभा लोके विज्ञातारस्तु दुर्लभाः ।। 9 ।। (निष्क्रान्ताः सर्वे) इति चतुर्थोऽङ्कः।