स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रुतकीर्तिरुवाच ।। ।।
वैशाखधर्मानखिलानिहामुत्र फलप्रदा।।
भूयोऽपि शृण्वतश्चासीत्तृप्तिर्नाऽद्यापि मानद ।।१।।
यत्र चाकैतवो धर्मो यत्र विष्णुकथा शुभाः ।।
तच्छास्त्रं शृण्वतो नैव तृप्तिः कर्णरसायनम् ।। २ ।।
पूर्वजन्मकृतं पुण्यं दिष्ट्या पारमुपागतम् ।।
आतिथ्यव्यपदेशेन यद्भवान्गृहमागतः ।। ३ ।।
वचोऽमृतं मुखांभोजनिःसृतं परमाद्भुतम् ।।
पीत्वा तृप्तः पारमेष्ठ्यं मोक्षं वा च न कामये ।।४।।
तस्मात्तानेव धर्मान्मे भुक्तिमुक्तिप्रदायकान् ।।
विष्णुप्रीतिकरान्दिव्यान्भूयो विस्तरतो वद ।। ५ ।।
इत्युक्तस्तु पुरा राज्ञा श्रुतदेवो महायशाः।।
संहृष्टाऽऽत्मा शुभान्धर्मान्पुनर्व्याहर्तुमारभत् ।। ६ ।।
।। श्रुतदेव उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।।
वैशाखधर्मविषयां भावितां मुनिभिर्मुहुः।।७।।
पंपातीरे द्विजः कश्चिच्छंखोनाम महायशाः ।।
गुरौ सिंहगते चागान्नदीं गोदावरीं शुभाम् ।।८।।
तीर्त्वा भीमरथीं पुण्यां कांतारे कण्टकाचले ।।
निर्जले निर्जने घोरे वैशाखे तपकर्षितः ।। ९ ।।
वृक्षे चोपविवेशाऽसौ मध्याह्नसमये द्विजः ।।
तदा कश्चिद्दुराचारो व्याधश्चापधरः शठः ।।2.7.17.१०।।
निर्घृणः सर्वभूतेषु कालांतक इवाऽपरः ।।
तं कुण्डलधरं विप्रं दीक्षितं भास्करोपमम् ।। ११ ।।
दृष्ट्वा बद्ध्वा स जग्राह कुण्डलादिकमुग्रधीः ।।
उपानहौ च च्छत्रं च अक्षमालां कमण्डलुम् ।। १२ ।।
पश्चाद्विसृज्य तं विप्रं गच्छेत्याह विमूढधीः ।। १३ ।।
ततः स च्छन्पथि शर्कराऽऽविले सूर्यांशुतप्ते जलवर्जिते खरे ।।
संतप्तपादस्तृणछादिते स्थले क्वचिच्चचारोपवसन्नूर्ध्वरेताः ।। १४ ।।
स वै द्रुतं संपतन्क्वापि तुष्यन्हाहेति वादी स जगाम तूर्णम् ।।
दृष्ट्वा मुनिं खिद्यमानं पृथिव्यां मध्यं गते पूष्णि दया बभूव ।। १५ ।।
व्याधस्य धर्मविमुखस्य च पापबुद्धेस्तस्मै ददामि सुखदां खलु पादरक्षाम् ।। १६ ।।
चौर्येणैव स्वधर्मेण या गृहीता वनांतरे ।।
तदीयमेव तत्सर्वं व्याधानां धर्मनिर्णयः ।।
तस्मादुपानहौ दास्ये मुहुर्दुःखापनुत्तये ।। १७ ।।
तेन श्रेयो भवेद्यच्च तद्भवेन्मम पापिनः ।।
जीर्णे चोपानहौ द्वे च वर्तेते पादयोर्मम ।।
न ताभ्यामस्ति मे कृत्यं तस्मात्ते वै ददाम्यहम्।। ।। १८ ।।
इति निश्चित्य मनसि तूर्णं गत्वा ददौ च ते ।।
शर्करातप्तपादाय द्विजवर्याय सीदते ।। १९ ।।
उपानहौ गृहीत्वा ते निर्वृतिं च परां ययौ ।।
सुखी भवेति तं व्याधमाशीर्भिरभिनन्द्य च ।। 2.7.17.२० ।।
नूनं सुपक्वपुण्योऽयं वैशाखे दत्तवानमू ।।
व्याधस्यापि च दुर्बुद्धेः प्रायो विष्णुः प्रसीदति ।। २१ ।।
सर्वस्याऽऽप्त्या च भूयोऽपि यत्सुखं तदभून्मम ।।
ततोऽभिश्रुत्य तद्वाक्यं किमेतदिति विस्मितः ।। २२ ।।
व्याजहार पुनर्विप्रं ब्रह्मिष्ठं ब्रह्मवादिनम् ।।
त्वदीयं तु मया दत्तं कथं पुण्यं भवेन्मम ।। २३ ।।
प्रशंससि च वैशाखं हरिस्तुष्टो भवेदिति ।।
एतदाचक्ष्व मे ब्रह्मन्को वैशाखस्तु को हरिः ।। २४ ।।
को धर्मः किं फलं तस्य शुश्रूषोर्मे दयानिधे ।।
इति व्याधवचः श्रुत्वा शंखस्तुष्टमना अभूत् ।। २५ ।।
प्रशंसन्स च वैशाखं पुनर्विस्मितमानसः ।।
इदानीं दत्तवान्पादत्राणे मे लुब्धकः शठः ।।२६।।
यद्दुर्बुद्धेश्च वैषम्यं जातं चित्रमहो वत ।।
सर्वेषामेव धर्माणां फलं जन्मांतरेषु वै ।। २७ ।।
वैशाखमासधर्माणां फलं सद्यः क्षणे नृणाम् ।।
पापाचारस्य दु्र्बुद्धेर्व्याधस्यापि दुरात्मनः ।। २८ ।।
दैवादुपानहोर्दानात्सत्त्वशुद्धिरभूदहो ।।
यच्च विष्णोः प्रियं कर्म यत्तत्सन्तोषनिर्मलम् ।। २९ ।।
तदेव धर्ममित्या हुर्मन्वाद्या धर्मवित्तमाः ।।
धर्मा माधवमासीयाः प्रिया विष्णोरतीव ते ।। 2.7.17.३० ।।
धर्मैर्माधवमासीयैर्यथा तुष्यति केशवः ।।
न तथा सर्वदानैश्च तपोभिश्च महामखैः ।। ३१ ।।
नानेन सदृशो धर्मः सर्वधर्मेषु विद्यते ।।
मा गयां यांतु मा गंगां मा प्रयागं तु पुष्करम् ।। ३२ ।।
मा केदारं कुरुक्षेत्रं मा प्रभासं स्यमन्तकम् ।।
मा गोदा मा च कृष्णां च मा सेतुं मा मरुद्वृधम् ।। ३३ ।।
वैशाखधर्ममाहात्म्यं शंसंती च कथाऽऽपगा ।।
तत्र स्नातस्य वै विष्णुः सद्यो हृद्यवरुध्यते ।। ३४ ।।
मासे माधवसंज्ञेऽस्मिन्यस्त्वल्पेनैव साध्यते ।।
न तद्बहुव्ययैर्दानैर्न धर्मैर्वाऽपि वै मखैः ।। ।। ३५ ।।
मासोऽयं माधवोनाम व्याध पुण्यविवर्द्धनः ।।
तस्मिन्मह्यं त्वया दत्ते पादुके तापनाशने ।। ३६ ।।
तेन ते पूर्वकालीनं पुण्यं पाकमुपागतम् ।।
तुष्टस्तु भगवान्प्रायः श्रेयो व्याध विधास्यति ।। ३७ ।।
अन्यथा ते कथं भूयाद्बुद्धिरेतादृशी शुभा ।।
मुनावेवं ब्रुवाणे च मृत्युना प्रेरितो बली ।। ३८ ।।
सिंहो व्याघ्रवधार्थाय प्राद्रवत्क्रोधविह्वलः ।।
मध्ये दृष्ट्वा च मातङ्गं दैवाद्देवेन कल्पितम् ।। ३९ ।।
तं हंतुमुद्यतोऽगच्छत्पदाक्रांतं व्यवस्थितम् ।।
तयोर्युद्धमभूद्राजन्सिंहमातंगयोर्वने ।। 2.7.17.४० ।।
श्रांतौ युद्धाच्च विरतौ निरीक्षंतौ च तस्थतुः ।।
व्याधमुद्दिश्य यच्चोक्तं मुनिना च महात्मना ।। ४१ ।।
समस्तपातकध्वंसि दैवाच्छुश्रुवतुश्च तौ ।।
तेनैव मासमाहात्म्यश्रवणेनामलाशयौ ।। ४२ ।।
शापान्मुक्तौ च तौ देहात्सद्यो मुक्तौ दिवं गतौ ।।
दिव्यरूपधरौ दिव्यौ दिव्यगंधानुलेपनौ ।। ४३ ।।
दिव्यं विमानमारूढौ दिव्यनारीनिषेवितौ ।।
सद्योऽवनतमूर्द्धानौ प्रांजली चोपतस्थतुः ।। ४४ ।।
मुनींद्रो धर्मवक्ता च व्याधमुद्दिश्य वै पथि ।।
तौ दृष्ट्वा विस्मितः प्राह कौ युवामिति निश्चलः ।। ४५ ।।
दुर्योनौ तु कुतो जन्म युवयोर्वा कथं मृतिः ।।
अहेतोर्विपिने चाऽस्न्मिपरस्परवधोद्यतौ ।। ४६ ।।
एतत्सर्वं सुविस्तार्य सम्यग्वदत मेऽनघौ ।।
इत्युक्तौ मुनिना तेन वचः प्रत्यूचतुः पुनः ।। ४७ ।।
मतंगस्य मुनेः पुत्रौ दंतिलः कोहलोऽपरः ।।
शापदोषेण तौ जातौ नाम्ना दंतिलकोहलौ ।। ४८ ।।
रूपयौवनसंपन्नौ सर्वविद्याविशारदौ ।।
आवामुद्दिश्य प्रोवाच पिता धर्मार्थकोविदः ।। ४९ ।।
मतंगोनाम ब्रह्मर्षिः सर्वधर्मविदुत्तमः ।।
वैशाखे मासि तनयौ मधुसूदनवल्लभे ।। 2.7.17.५० ।।
प्रपां कुरुत मार्गे च जनान्वीजयतं क्षणम्।।
मार्गे छाया विधत्तां च भूर्यन्नं शीतलांबु च ।। ५१ ।।
कुरुतं स्नानमुषसि तथैवार्चयतं विभुम् ।।
कथां च शृणुतं नित्यं यया बन्धो निवर्तते ।। ५२ ।।
एवं च बहुभिर्वाक्यैर्बोधितावपि दुर्मती ।।
कुद्धोऽभवं दंतिलोऽहं मत्तोऽहं कोहलाह्वयः ।। ५३ ।।
क्रुद्धः शशाप तौ सद्यः पिता धर्मेषु लालसः ।। ५४ ।।
पुत्रं च धर्मविमुखं भार्यां चाऽप्रियवादिनीम् ।।
अब्रह्मण्यं च राजानं त्यजेत्सद्यो न चेत्पतेत् ।। ।। ५५ ।।
दाक्षिण्यादर्थलोभाद्वा संसर्गं ये प्रकुर्वते ।।
ते सर्वे नरकं यांति यावदिंद्राश्चतुर्दश ।।
इति ज्ञात्वा शशापावां मदक्रोधपरिप्लुतौ ।।५६।।
कुद्धोऽयं दंतिलो भूयात्सिंहः क्रोधपरिप्लुतः ।।
मत्तस्तु कोहलो भूयान्मत्तो मातंगयूथपः ।।५७।।
कृतानुतापौ पश्चात्तु प्रार्थयावो विमोचनम्।।
आवाभ्यां प्रार्थितो भूयो विशापं च ददौ पिता ।। ५८ ।।
युवां प्राप्य च दुर्योनिं कियत्कालांतरेऽपि च ।।
संगमो भविता तत्र परस्परवधेषिणोः ।। ५९ ।।
तस्मिन्नेव हि समये संवादो व्याधशंखयोः ।।
वैशाखधर्मविषयो दैवाद्वां श्रवणेऽपि च ।। 2.7.17.६० ।।
गमिष्यति क्षणादेव तस्मान्मुक्तिर्भविष्यति ।।
शापान्मुक्तौ पूर्वमेव रूपमास्थाय पुत्रकौ ।। ६१ ।।
मामेव प्राप्य वसतं नान्यथा मे वचो भवेत्।।
इति शप्तौ च गुरुणा दुर्योनिं प्राप्य दुर्मती ।। ६२ ।।
प्राप्य दैवात्संगतिं च परस्परवधैषिणौ ।।
संवादं युवयोर्दिव्यं शुभं तं शुश्रुवावहे ।। ६३ ।।
तेन सद्यो विमुक्तिश्च क्षणादेवाऽऽवयोरभूत् ।।
इति सर्वं समाख्याय प्रणम्य च मुनीश्वरम् ।। ६४ ।।
समामंत्र्याभ्यनुज्ञातौ जग्मतुः पितुरंतिकम्।।
तदेवं संप्रदृश्याह मुनिर्व्याधं दयानिधिः ।। ६५ ।।
पश्य वैशाखमाहात्म्यश्रवणस्य फलं महत् ।।
मुहूर्तश्रवणादेव तयोर्मुक्तिः करे स्थिता ।। ६६ ।।
इति ब्रुवाणं मुनिपुंगवं तं दयानिधिं निःस्पृहमग्र्यबुद्धिम् ।।
विशुद्धसत्त्वं सुकृतैकपात्रं स न्यस्तशस्त्रः पुनराह व्याधः ।। ६७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दंतिलकोहलमुक्तिप्राप्तिवृत्तान्तवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।। ।। छ ।।