स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ।। ।।
।। श्रीवराह उवाच ।। ।।
ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम् ।।
किं कार्यं वद कल्याणि विवाहार्थं सुलोचने ।। १ ।।
आज्ञापयस्व स्वसखी रमे कार्यं कुरु प्रियम् ।।
श्रीस्तु कृष्णवचः श्रुत्वा सखीराहूय चोदयत् ।। २ ।।
श्रियाज्ञप्ता ततः प्रीतिः सुगंधं तैलमाददौ ।।
श्रुतिः क्षौमं समादाय तस्थौ देवस्य सन्निधौ ।। ३ ।।
भूषणानि समादाय स्मृतिरप्याययौ मुदा ।।
धृतिरादर्शमाधत्त शान्तिर्मृगमदं दधौ ।। ४ ।।
यक्षकर्दममादाय ह्रीः स्थिता पुरतो हरेः ।।
कीर्तिः कनकपट्टं च सरत्नं मुकुटं दधौ ।। ५ ।।
छत्रं दधौ तदेंद्राणी चामरं तु सरस्वती ।।
द्वितीयं चामरं गौरी व्यजने विजयाजये ।। ६ ।।
आगतास्ताः समालोक्य श्रीरुत्थायाथ सत्वरा ।।
सुगंधं तैलमादाय देवमभ्यज्य शीर्षतः ।। ७ ।।
उद्वर्तितं गंधचूर्णैर्देवांगं परिमृज्य च ।।
आनीतान्करिभिस्तोयकलशान्कांचनाञ्छतम् ।। ८ ।।
वियद्गंगादितीर्थेभ्यः कर्पूरादिसुवासितान्।।
एकमेकं समादाय त्वभ्यषिंचद्रमा हरिम् ।। ९ ।।
संधूप्य केशान्धूपेन तानाश्यामान्बबंध च ।।
सुगंधेनानुलिप्यांगं स्वर्णवर्णेन तद्विभोः ।। 2.1.8.१० ।।
पीतकौशेयकं बद्ध्वा कट्यां कांचीसमन्वितम् ।।
मुकुटादिविभूषाभिर्भूषयामास चेन्दिरा ।। ११ ।।
अंगुलीयकरत्नानि सर्वास्वेवांगुलीषु च ।।
आदर्शं दर्शयामास धृतिर्देवस्य सन्निधौ ।। १२ ।।
दृष्ट्वादर्शं देवदेवो ह्यूर्ध्वपुंड्रं स्वयं दधौ ।।
आरुह्य गरुडं पश्चात्स्वयं लक्ष्मीसमन्वितः ।। १३ ।। ।।
अथ ब्रह्मादिभिस्साकं श्रीनिवासस्य वियद्राजपुरगमनम् ।। ।।
ब्रह्मेशवज्रिवरुणयमयक्षेशसेवितः ।।
वसिष्ठाद्यैर्मुनींद्रैश्च सनकाद्यैश्च योगिभिः ।। १४ ।।
भक्तैर्भागवतैर्युक्तो नारायणपुरीं ययौ ।।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।।१५।।
देवदुंदुभयो नेदुस्तदा देवस्य सन्निधौ ।।
जपन्तः स्वस्तिसूक्तानि मुनयस्तं समन्वयुः ।। १६ ।।
देवो देवगणैर्युक्तो विष्वक्सेनादिपार्षदैः ।।
सखीभिस्स्यंदनस्थाभिर्बकुलाद्याभिरन्वितः ।।
आकाशराजस्य पुरमाससाद स्वलंकृतम् ।। १७ ।।
।। अथ पद्मावतीपरिणयघट्टः ।। ।।
देवमागतमालोक्य कन्यामैरावतस्थिताम्।।
पुरीं प्रदक्षणीकृत्य गोपुरद्वारमागताम् ।। १८ ।।
आलोक्याकाशराजोऽपि समानीय वधूवरौ ।।
बन्धुभिः सहितस्तस्थौ देवमालोक्य केशवम् ।। १९ ।।
विष्णुर्मालां स्वकंठस्थां हस्तेनादाय सस्मितः ।।
कमलायाः स्कन्धदेशे मुमोच सुमनश्चिताम् ।। 2.1.8.२० ।।
आदाय मल्लिकामाला साऽस्य कंठे समर्पयत् ।।
एवं त्रिवारं तौ कृत्वा वाहनादवरुह्य च ।। २१ ।।
स्थित्वा पीठे क्षणं पश्चाद्गृहं विविशतुः शुभम् ।।
ब्रह्मादिदेवयूथैश्च सहितौ भूमिजाहरी ओ। २२ ।।
मांगल्यसूत्रबंधादि सांकुरार्पणमब्जजः ।।
वैवाहिकं कारयित्वा लाजहोमान्तमेव च ।। २३ ।।
व्रतादेशं समाज्ञाय शयितौ कमलाहरी ।।
चतुर्थे दिवसे सर्वं समापय्य चतुर्मुखः ।। २४ ।।
अनुज्ञाप्य वियद्राजमारोप्य गरुडे हरिम् ।।
देवीभ्यां सहितं देवं देवैर्गन्तुं प्रचक्रमे ।। २५ ।।
दिव्यदुन्दुभिर्निर्घोषैः संप्राप्य वृषभाचलम् ।।
तुष्टुवुर्देवदेवेशं ब्रह्माद्या देवतागणाः ।। २६ ।।
शुकादयो मुनिगणास्तुष्टुवुः पुरुषोत्तमम् ।।
स्तूयमानोऽथ देवोऽपि विवेश मणिमंडपम् ।। २७ ।।
रमाधरणिजाभ्यां च तत्र सिंहासनं ययौ।। २८ ।।
।। अथ वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् ।। ।।
आकाशराजोऽपि तदा महेन्द्रादिसुरैः सह ।।
पुत्रीविष्ण्वोः प्रियार्थं तु प्राभृतं कतुमुद्यतः ।।२९।।
सौवर्णेषु कटाहेषु तंडुलाञ्छालिसंभवान्।।
मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च ।। 2.1.8.३० ।।
पयोघटसहस्राणि दधिभाण्डान्यनेकशः ।।
दिव्यानि चूतकदलीनारिकेलफलानि च ।। ३१ ।।
धात्रीफलानि कूष्माडराजरंभाफलानि च ।।
पनसान्मातुलुंगांश्च शर्करापूरितान्घटान् ।। ३२ ।।
सुवर्णमणिमुक्ताश्च क्षौमकोट्यंबराणि च ।।
दासीदाससहस्राणि कोटिशो गास्तथैव च।। ३३ ।।
हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ ।।
तुंगानां नित्यमत्तानां गजानामधिकं शतात् ।। ३४ ।।
अंतःपुरचरा नारीर्नृत्तगीतविशारदाः ।।
ददौ चतुःसहस्राणि श्रीनिवासाय विष्णवे ।।
दत्त्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः ।। ३५ ।।
।। अथ श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्तिः ।। ।।
दृष्ट्वा देवोऽपि तत्सर्वं देवीभ्यां सहितो हरिः ।। ३६ ।।
सुप्रीतः प्राह राजानं श्वशुरं वेंकटेश्वरः ।।
वरं वृणीष्व हे राजन्गुरो मत्तो यदीच्छसि ।। ३७ ।।
इति श्रीशवचः श्रुत्वा वियद्राजोऽवदद्विभुम् ।।
त्वत्सेवैवेह देवैवं भूयादव्यभिचारिणी ।। ३८ ।।
मनस्त्वत्पादकमले त्वयि भक्तिर्ममास्तु वै ।। ३९ ।।
।। श्रीभगवानुवाच ।। ।।
त्वया यदुक्तं राजेन्द्र सर्वमेतद्भविष्यति ।।
इति दत्त्वा वरं तस्मै संमान्यैव यथोचितम् ।। 2.1.8.४० ।।
।। अथ विवाहार्थमागतानां ब्रह्मादीनां स्वावासगमनम् ।। ।।
ब्रह्मेशादिसुरान्सर्वान्समभ्यर्च्य यथोचितम् ।।
स्वर्लोकगमनायैवमनुमेने मुदा हरिः ।।
गतेषु तेषु सर्वेषु श्रिया भूमिजया युतः ।। ४१ ।।
विहरन्स यथापूर्वं स्वामिपुष्करिणीतटे ।।
आस्ते दिव्यालये देवोप्यर्च्यमानो गुहेन वै ।। ४२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमन कमलालयापरिणयादिवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।