स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ श्रीवेंकटाद्रौ जलदानप्रशंसा ।।
।। श्रीसूत उवाच ।। ।।
वेंकटाख्ये महापुण्ये तृषार्तानां विशेषतः ।।
जलदानमकुर्वाणस्तिर्यग्योनिमवाप्नुयात् ।।१।।
तस्माद्वेंकटशैलेन्द्रे यथाशक्त्यनुसारतः ।।
जलदानं हि कर्तव्यं सर्वेषां जीवनं महत्।। २ ।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।।
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ।। ३ ।।
।। अथ हेमांगस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः ।। ।।
पुरा चेक्ष्वाकुवंशेऽभूद्धेमांग इति भूमिपः ।।
ब्रह्मण्यो ब्रह्मभूयिष्ठो जितामित्रो जितेंद्रियः ।।४।।
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ।।
यावन्त्युडूनि गगने तावतीर्गा ददात्यसौ ।। ५ ।।
येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती स्मृता ।।
गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः ।। ६ ।।
तेनादत्तानि दानानि न विद्यन्त इति श्रुतम् ।।
तेनादत्तं जलं चैकं सुखलभ्यधिया द्विजाः ।। ७ ।।
बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ।।
अमूल्यं सर्वतोलभ्यं तद्दातुः किं फलं लभेत् ।। ८ ।।
इति दुर्धीर्हेतुवादैर्न जलं दत्तवान्विभुः ।।
अलभ्यदाने पुण्यं स्यादित्यवादीत्सयुक्तिकम् ।। ९ ।।
स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ।।
नानर्च श्रोत्रियान्विप्रान्ब्रह्मज्ञान्ब्रह्मवादिनः ।। 2.1.16.१० ।।
प्रख्यातान्पूजयिष्यन्ति सर्वलोकाः सहार्हणैः ।।
अनाथानामविद्यानां व्यङ्गानां च कुटुंबिनाम् ।। ११ ।।
दरिद्राणां गतिः का वा तस्मात्ते मद्दयास्पदाः ।।
इति दुष्टेषु पात्रेषु दत्तवान्किमपि स्वकम् ।। १२ ।।
तेन दोषेण महता चातकत्वं त्रिजन्मसु ।।
एकजन्मनि गृध्रत्वं श्वत्वं वा सप्त जन्मसु ।। १३ ।।
प्राप्य पश्चाद्गृहे जातो भूपोऽयं गृहगोधिका ।।
श्रुतकीर्तेस्तु भूपस्य मिथिलाधिपतेर्द्विजाः ।। १४ ।।
गृहद्वारप्रतोल्यां स्म वर्तते कीटकाशनः ।।
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ।। १५ ।।
।। अथ श्रुतदेवपादोदकसेवनेन हेमांगस्य जातिस्मरणम् ।। ।।
विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ।।
श्रुतदेव इति ख्यातः श्रान्तो मध्याह्न आगमत् ।। १६ ।।
तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ।।
मधुपर्कः सुसंपूज्य तस्य पादावनेजनीः ।। १७ ।।
अपो मूर्ध्नावहत्क्षिप्रं तदोत्क्षिप्तैश्च बिन्दुभिः ।।
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ।। १८ ।।
सद्यो जातिस्मृतिरभूत्कृतकर्मातिदुःखिता ।।
त्राहि त्राहीति चुक्रोश ब्राह्मणं गृहमागतम् ।। १९ ।।
तिर्यग्जन्तुरवं श्रुत्वा ब्राह्मणो विस्मितोऽभवत् ।।
कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा ।। 2.1.16.२० ।।
उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तमः ।।
कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे ।। २१ ।।
इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ।।
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ।। २२ ।।
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ।।
यावन्त्युडूनि गगने तावतीर्गा अदामहम् ।। २३ ।।
सर्वैर्यज्ञैर्मया चेष्टं पूर्तान्याचरितानि मे ।।
दानान्यपि च दत्तानि धर्मजातं स्वनुष्ठितम् ।। ।। २४ ।।
तथापि दुर्गतिर्जाता न मे चोर्ध्वगतिर्विभो ।।
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि ।।२५।।
सप्तजन्मसु च श्वत्वं प्राप्तं पूर्वं मया द्विज ।।
धरतानेन भूपेन चापः पादावनेजनीः ।। २६ ।।
बिन्दवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथंचन ।।
तदा जन्मस्मृतिरभूत्तेन मे हतपाप्मनः ।। २७ ।।
गोधाजन्मानि भाव्यानीत्यष्टाविंशति मे द्विज ।।
दृश्यन्ते देवदिष्टानि बिभ्यते जन्मभिर्भृशम् ।। २८ ।।
न कारणं प्रपश्यामि तन्मे विस्तरतो वद ।।
इत्युक्तः स द्विजः प्राह ज्ञातं विज्ञानचक्षुषा ।। २९ ।।
।। अथ श्रुतदेवदत्तपुण्येन हेमांगस्य गोधिकात्वविमुक्तिः ।। ।।
शृणु भूप प्रवक्ष्यामि तव दुर्गतिकारणम् ।।
न जलं तु त्वया दत्तं वेंकटाह्वयभूधरे ।। 2.1.16.३० ।।
तज्जलं सुलभं मत्वा न मौल्यमिति निश्चितः ।।
नाध्वगानां द्विजादीनां घर्मकालेऽप्यजानता ।। ३१ ।।
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम् ।।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ।। ३२ ।।
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम् ।।
अनाथव्यंगपंगुत्वं न प्रयोजकतामियात् ।। ३३ ।।
पंग्वाद्या येप्यनाथा हि दयापात्रं हि केवलम् ।।
तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रपरायणाः ।। ३४ ।।
विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन ।।
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ।। ३५ ।।
ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ।।
तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः ।। ३६ ।।
न जलं तु त्वया दत्तं साधवो वा न सेविताः ।।
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन ।। ३७ ।।
वेंकटाद्रौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ।।
भूतं भव्यं भवत्तेन कर्मजातं विजेष्यसि ।। ३८ ।।
इत्युक्त्वाप उपस्पृश्य ददौ पुण्यमनुत्तमम् ।।
यद्दत्तं ब्राह्मणेनापि स्नानं चैकदिने कृतम् ।। ३९ ।।
तेन ध्वस्ताखिलाऽऽगास्तु त्यक्त्वा च गृहगोधिका ।।
रूपं कर्मोचितं घोरं सद्योऽदृश्यत पूरुषः ।। 2.1.16.४० ।।
दिव्यं विमानमारूढो दिव्यस्रग्वस्त्रभूषणः ।।
पश्यतामेव साधूनां मैथिलस्य गृहान्तरे ।। ४१ ।।
बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ।।
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ।। ४२ ।।
तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ।।
स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः ।। ४३ ।।
सप्तद्वीपप्रतीपालो ब्रह्मण्यः साधुसंमतः ।।
देवेन्द्रस्य समो विष्णोरंश एवं महाप्रभुः ।। ४४ ।।
बोधितस्तु वसिष्ठेन सर्वान्धर्मान्मनोहरान् ।।
अनुष्ठायाखिलान्राजा तेन ध्वस्ताशुभादिकः ।। ४५ ।।
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ।।
तस्माद्वेंकटशैलेन्द्रः पुण्यः पापविनाशनः ।। ४६ ।।
तस्मिंश्च जलदानं तु विष्णुलोकप्रदायकम् ।।
एवं वः कथितं विप्रा जलदानस्य वैभवम् ।।
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ।। ४७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये जलदानवैभववर्णनंनाम षोडशोऽध्यायः ।। १६ ।।