स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

।। ब्रह्मोवाच।। ।।
श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो ।।
यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
मणिकांचनपुष्पाणि तथा मुक्तामयानि च ।।
तुलसीपत्रदानस्य कलां नार्हंति षोडशीम् ।। २ ।।
तुलसीमंजरीभिर्यः कुर्याद्वै मम पूजनम् ।।
न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः ।। ३ ।।
आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम् ।।
दिवि संमोदमानः स श्वेतद्वीपे च मे गृहे ।। ४ ।।
श्रीमत्तुलस्यार्चयते सकृद्धि मां पत्रैः सुगन्धैर्विमलैरखंडितैः ।।
यस्तस्य पापं पटसंस्थितं तदा निरीक्षयित्वा परिमार्जयेद्यमः ।। ५ ।।
तुलसी न येषां मम पूजनार्थं संपादितैकादशिपुण्यवासरे ।।
धिग्यौवनं जीवितमर्थसन्ततिस्तेषां सुखं नेह च दृश्यते परे ।। ६ ।।
लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम् ।।
तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ।। ७ ।।
नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ।।
महापापानि नश्यंति किं पुनश्चोपपातकम् ।।८।।
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ।।
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम् ।। ९ ।।
तावद्गर्जंति पुष्पाणि मालत्यादीनि भोः सुत ।।
यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा ।। 2.5.8.१० ।।
सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः ।।
मुक्तिभागी निरातंको मम पार्श्वगतो भवेत् ।। ११ ।।
बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात् ।।
वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम।।१२।।
अभिन्नपत्रा तुलसी हृद्या मंजरिसंयुता ।।
क्षीरोदार्णवसंभूता पद्मेवेयं सदा मम ।।१३।।
अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा ।।
सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा ।।। १४ ।।
गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत् ।।
अर्चितं तेन सकलं सदेवासुरमानुषम् ।। ।। १५ ।।
तावद्गर्जंति रत्नानि कौस्तुभादीन्यनन्तशः ।।
यावन्न प्राप्यते कृष्ण तुलसीकृष्णमंजरी ।। १६ ।।
कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः ।।
स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ।। १७ ।।
ममाऽर्चनार्थं भिक्षूणां यच्छंति तुलसीदलम् ।।
अन्येषामपि भक्तानां यांति ते पदमव्ययम्।। १८ ।।
तुलसी कृष्णगौरा या तया यो मां समर्चयेत् ।।
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम् ।। १९ ।।
।। ब्रह्मोवाच ।। ।।
धूपदानस्य माहात्म्यं दीपस्याऽपि च केशव ।।
यत्फलं लभते मर्त्यस्तन्मे ब्रूहि यथार्थतः ।। 2.5.8.२० ।।
।। श्रीभगवानुवाच ।। ।।
शृणु पुत्र प्रवक्ष्यामि धूपदानस्य यत्फलम् ।।
दीपदानस्य माहात्म्यं मम प्रीतिकरं परम् ।।२१।।
अगुरुं च सकर्पूरं दिव्यचंदनसौरभम् ।।
दत्त्वा मां वै सहोमासे कुलानां तारयेच्छतम् ।। २२ ।।
कृष्णागुरुसमुत्थेन धूपेन च ममाऽलयम् ।।
धूपयेद्वैष्णवो यस्तु स मुक्तो नरकाऽर्णवात् ।। २३ ।।
माहिषं गुग्गुलं यस्तु आज्ययुक्तं सशर्करम् ।।
धूपं ददाति यो वै मां तस्येच्छां प्रददाम्यहम् ।। २४ ।।
गुग्गुलो हंत्यशेषाणि अरिष्टानि च धूपितः ।।
कामान्नानाविधांश्चैव अगुरुः संप्रयच्छति ।। २५ ।।
देहं गेहं पुनात्येव धूपस्त्वगुरुसंभवः ।।
नाशयेद्यक्षरक्षांसि धूपः सर्जरसोद्भवः ।। २६ ।।
जातिपुष्पमथैला च गुग्गुलश्च हरीतकी ।।
कूटः सर्जरसश्चैव गुडःसैलाच्छडस्तथा ।।
नखयुक्तानि चैतानि दशांगो धूप उच्यते ।। २७ ।।
धूपं दशांगं यदि चेत्करोति मासे सहे मे अतिवल्लभे च ।।
ददामि कामानतिदुर्लभानपि बलं च पुष्टिं सुतदारभक्तिम् ।। २८ ।।
मुस्ताधूपे मानुषाणां प्रियत्वं मांगल्यकं वश्यकरं गुडस्य ।।
कुर्यात्सहोमासि ममाग्रतो यो विहाय पापानि स मां समाप्नुयात् ।। २९ ।।
न भयं विद्यते तस्य दिव्यभौमांतरिक्षजम् ।।
मम धूपावशेषेण यस्यांऽगं परिमार्जितम् ।। 2.5.8.३० ।।
न चापद्विद्यते तस्य भवंति संपदोऽखिलाः ।।
धूपे कृते सहोमासे ममाग्रे श्रद्धयाऽनिशम् ।।३१ ।।
धूपः सुरूपतां धत्ते धूपः पावनमुत्तमम् ।।
वनस्पतिरसो दिव्यः परमः पावनः शुचिः ।। ३२ ।।
अतः परं प्रवक्ष्यामि दीपमाहात्म्यमुत्तमम् ।।
यस्मिन्कृते नरो याति वैकुण्ठं नात्र संशयः ।। ३३ ।।
बहुवर्तिसमायुक्तं घृतपूरसमन्वितम् ।।
कुर्यादारार्तिकं यो वै कल्पकोटिं दिवं वसेत् ।। ३४ ।।
नीराजनं तु यः पश्येत्सहोमासे ममाऽग्रतः ।।
सप्तजन्म भवेद्विप्रो ह्यंते च परमं पदम् ।। ३५ ।।
कर्पूरेण तु यः कुर्याद्भक्त्या चैव ममाग्रतः ।।
आरार्तिकं द्विजश्रेष्ठ प्रविशेन्मामनंतकम् ।। ३६ ।।
मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं मम ।।
सर्वं संपूर्णतामेति कृते नीराजने सुत।। ३७ ।।
यः करोति सहोमासे कर्पूरेण च दीपकम् ।।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ।। ३८ ।।
ममाऽग्रे वै द्विजानां च दीपं दद्याच्चतुष्पथे ।।
मेधावी ज्ञानसंपन्नश्चक्षुष्माञ्जायते नरः ।। ३९ ।।
घृतेन वाऽथ तैलेन दीपं प्रज्वालयेन्नरः ।।
सहोमासे ममाऽग्रे च तस्य पुण्यफलं शृणु ।। 2.5.8.४० ।।
विहाय सकलं पापं सहस्रादित्यसन्निभः ।।
ज्योतिष्मता विमानेन मम लोके महीयते ।। ४१ ।।
तस्मात्सर्वप्रयत्नेन दीपं दद्याद्विचक्षणः ।।
तं च दत्त्वा विहिंसेद्यः स पतेन्नरके धुवम् ।। ४२ ।।
दीपं यो वै हरेत्पापी लोभाद्द्वेषाद्द्विजोत्तम ।।
तद्दीपहरणात्सोऽपि मूकोंऽधश्च प्रजायते ।। ४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये दीपमाहात्म्यवर्णनंनाम अष्टमोऽध्यायः ।। ८ ।।