स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। ब्रह्मोवाच ।। ।।
पंचामृतस्य स्नपनाद्यत्फलं लभते हरेः।।
शंखोदकेन यत्किंचित्तन्मे ब्रूह्यजिताऽच्युत ।।१।।
।। ।। श्रीभगवानुवाच।। ।।
क्षीरस्नानं प्रकुर्वंति ये नरा मम मूर्द्धनि।।
शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम्।।२।।
क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम्।।
मधुना तद्दशगुणं सितया तु ततोऽधिकम् ।।
गंधपुष्पोदके मंत्रं सर्वोत्कृष्टं प्रशस्यते ।।३।।
द्वादश्यां पंचदश्यां वा गव्येन पयसा मम ।।
स्नापनं देवशार्दूल महापातकनाशनम्।। ४ ।।
दध्यादीनां विकाराणां क्षीरतः संभवो यथा ।।
तथैव शेषकामानां क्षीरस्नपनतो मम ।। ५ ।।
क्षीरस्नानेन सौभाग्यं दध्ना मिष्टान्नभोजनम्।।
घृतेन स्नापयेद्यो मां नरो मम पुरं व्रजेत् ।। ६ ।।
मधुना सितया यस्तु कारयेन्मार्गशीर्षके ।।
स राजा जायते लोके पुनः स्वर्गादिहागतः ।।७।।
गजाश्वरथसंपूर्णं स राज्यं लभते भुवि ।।
कारयेन्मार्गशीर्षे वै यः क्षीरस्नापनं मम ।। ८ ।।
स्वर्गे लोके स जयति चंद्रेंद्ररुद्रमारुतान् ।।
क्षीरस्नानं परं श्रेष्ठं मार्गशीर्षे च पुत्रक ।। ९ ।।
क्षीरस्नपनमाहात्म्यं वर्चस्कं पुष्टिवर्धनम् ।।
दौर्भाग्यं विलयं याति क्षीरस्नानेन मे सुत ।। 2.5.5.१० ।।
स्नापयेन्मार्गशीर्षे मां यो वै पंचाऽमृतेनतु ।।
स न शोच्यो भवेज्जंतुर्बंधुना भुवि मानद ।। ११ ।।
कपिलाक्षीरमादाय यः स्नापयति मां सुत ।।
कपिलाशतदानस्य फलं प्राप्नोति मानवः ।। १२ ।।
शंखे तीर्थोदकं कृत्वा यः स्नापयति देशिकः ।।
बिंदुनाऽपि सहोमासे स्वकुलं तारयेद्धि सः ।।१३।।
कापिलं क्षीरमादाय शंखे कृत्वा च मानवः ।।
यः स्नापयति मां भक्त्या सर्वतीर्थफलं लभेत् ।।१४।।
शंखे कृत्वा तु पानीयं साक्षतं कुशसंयुतम् ।।
यः स्नापयेत्सहोमासे सर्वतीर्थफलं लभेत् ।। १५ ।।
शंखाष्टकेन यः स्नानं कारयेन्मार्गशीर्षके ।।
भक्त्या भगवतः श्रेष्ठो मम लोके महीयते ।। १६ ।।
शंखषोडशकेनाथ यः स्नापयति मे सुत ।।
स पापमुक्तः सुचिरं स्वर्गलोके महीयते ।। १७ ।।
चतुर्विंशतिसंख्याकैः शंखैर्यः स्नापयेच्च माम् ।।
इंद्रलोके चिरं स्थित्वा स राजा भुवि जायते ।। १८ ।।
शंखाऽष्टोत्तरशतेनैव स्नापयेन्मार्गशीर्षके ।।
शंखेशंखे सुवर्णस्य फलं प्राप्नोति मानवः ।। १९ ।।
मार्गशीर्षे भक्तिमान्यः कृत्वा शंखध्वनिं हि माम् ।।
स्नापयेत्पितरस्तस्य स्वर्गं तावत्प्रतिष्ठिताः ।। 2.5.5.२० ।।
अष्टोत्तरसहस्रं तु शंख स्नानं तु यश्चरेत् ।।
स गणो मुक्तिमाप्नोति यावदाभूतसंप्लवम् ।। २१ ।।
नित्यं संस्नापयेद्यो मां शंखेन सुरसत्तम ।।
गंगास्नानफलं प्राप्य नित्यं नंदति देववत् ।। २२ ।।
शंखेतोयं समादाय यः स्नापयति मां सुत ।।
नमो नारायणेत्युक्त्वा मुच्यते सर्वकिल्बिषैः ।। २३ ।।
कृत्वा पादोदकं शंखे वैष्णवानां महात्मनाम् ।।
यो ददाति तिलोन्मिश्रं चांद्रायणफलं लभेत् ।। २४ ।।
नाद्यं तडागजं वाऽपि वापीकूपादिकं च यत् ।।
गांगेयं जायते सर्वं जलं शंखकृतं च यत् ।।२५।।
गृहीत्वा मम पादांबु शंखे कृत्वा तु वैष्णवः ।।
यो वहेच्छिरसा नित्यं स मुनिस्तपतां वरः ।।२६।।
त्रैलोक्ये यानि तीर्थानि मम चैवाज्ञया सुत ।।
शंखे तानि वसंतीह तस्माच्छंखो वरः स्मृतः ।। २७ ।।
सांबुं शंखं करे धृत्वा मंत्रैरेतैस्तु वैष्णवः ।।
यः स्नापयेन्मार्गशीर्षे तुष्टस्तस्य भवाम्यहम् ।। २८ ।।
शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ।।
पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती ।। २९ ।।
तेषामुच्चारपूर्वं तु स्नापयेन्मामतंद्रितः ।।
तस्य पुण्यस्य संख्यां वै कर्तुं नैव सुराः क्षमाः।। 2.5.5.३० ।।
पुरतो मम देवेश सपुष्पः सजलाक्षतः।।
शंखस्त्वभ्यर्चितस्तिष्ठेत्तस्य श्रीः सर्वतोमुखी ।। ३१ ।।
विलेपनेन संपूर्णं शंखं कृत्वा तु मां भजेत् ।।
तदा मे परमा प्रीतिर्भवेद्वै शतवार्षिकी ।। ३२ ।।
शंखे कृत्वा तु पानीयं सपुष्पं सजलाक्षतम् ।।
अर्घ्यं ददाति यो मां वै तस्य पुण्यमनंतकम् ।। ३३ ।।
अर्घ्यं कृत्वा स्वयं शंखे यः करोति प्रदक्षिणाम् ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ।। ३४ ।।
भ्रामयित्वा च मे मूर्ध्नि मंदिरं शंखवारिणा ।।
प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्ग्रहे भवेत् ।। ३५ ।।
नाधयो न क्लमस्तस्य नारकं न भयं क्वचित् ।।
यस्य पादोदकं शंखे कृतं मूर्धानमालभेत् ।। ३६ ।।
ग्रहा रक्षांसि कूष्मांडपिशाचोरगदानवाः ।।
दृष्ट्वा शंखोदकं मूर्ध्नि विद्रवंति दिशो दश ।। ३७ ।।
वादित्रनिनदैरुच्चैर्गीतमंगलनिःस्वनैः ।।
यः स्नापयति मां भक्त्या जीवन्मुक्तो भवेद्धि सः ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये शंखपूजनफलकथनंनाम पंचमोऽध्यायः ।। ५ ।।