स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। ब्रह्मोवाच ।। ।।
त्वयोक्तो विधिसंयुक्तो मार्गशीर्षो मदापनः ।।
को विधिस्तस्य देवेश सर्वं मे ब्रूहि केशव ।। १ ।।
।। ।। श्रीभगवानुवाच ।। ।।
रात्रावन्ते समुत्थाय उपस्पृश्य यथाविधि ।।
नमस्कृत्या गुरुं स्वीयं संस्मरेन्मामतंद्रितः ।। २।।
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ।।
बहिर्ग्रामात्समुत्सृज्य मलमूत्रं यथाविधि ।। ३ ।।
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ।।
दंतधावनपूर्वं च स्नानं कृत्वा यथाविधि ।। ४ ।।
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ।।
मूलमंत्रेणाऽभिमंत्र्य गायत्र्या वा महामते ।। ५ ।।
मंत्रेणैवाऽनुलिप्तांगः स्नायादप्स्वघमर्षणम् ।।
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं विधीयते ।। ६ ।।
तीर्थं प्रकल्पयेद्विद्वान्मन्त्रेणाऽनेन मन्त्रवित् ।।
ॐनमो नारायणायेति मूलमन्त्र उदाहृतः ।। ७ ।।
दर्भपाणिस्तु विधिना आचांतः पुरतः शुचिः ।।
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ।।
प्रकल्प्याऽऽवाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः ।। ८ ।।
विष्णुपादप्रसूताऽसि वैष्णवी विष्णुदेवता ।।
त्राहि नस्त्वमघादस्मादाजन्ममरणांतिकात् ।। ९ ।।
तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् ।।
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि ।। 2.5.2.१० ।।
नंदिनीत्येव ते नाम देवेषु नलिनीति च ।।
दक्षपुत्री च विहगा विश्वगा योगिनां मता ।। ११ ।।
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।।
क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी ।।१२।।
एतानि पुण्यनामानि स्नानकाले सदा पठेत् ।।
सदा संनिहिता तत्र गंगा त्रिपथगामिनी ।। १३ ।।
सप्तवाराभिजप्तेन करसंपुटयोजितम् ।।
मूर्ध्ना कृतांजलिर्भूयस्त्रिचतुः पंच सप्त वा ।।
स्नानं कुर्यान्मृदा तद्वदामंत्र्याऽनुविधानतः ।। १४ ।।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुन्धरे ।।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।। १५ ।।
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ।।
नमस्ते सर्वभूतानां प्रभवाऽरणि सुव्रते ।। १६ ।।
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः।।
उत्थाय वाससी शुक्ले कूले वै परिधाय च ।। १७ ।।
आचम्य तपयेद्देवान्पितॄंश्चैव ऋषींस्तथा ।।
निष्पीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ।। १८ ।।
विमलां मृत्तिकां रम्यामादाय द्विजसत्तम ।।
मन्त्रेणैवाऽभिमंत्र्याऽथ ललाटादिषु वैष्णवः ।।
धारयेदूर्ध्वपुण्ड्राणि यथासंख्यमतंद्रितः ।। १९ ।।
ब्रह्मन्द्वादशपुण्ड्राणि ब्राह्मणः सततं वहेत् ।।
चत्वारि भूभृतां पुत्र पुण्ड्राणि द्वे विशां स्मृते ।।
एकं पुंड्रं च नारीणां शूद्राणां च विधीयते ।। 2.5.2.२० ।।
ललाट उदरे चैव वक्षो वै कण्ठकूबरे ।।
कुक्ष्योर्बाह्वोः कर्णयोश्च पृष्ठे त्रिके च वै शिरः ।।
तिलका द्वादश प्रोक्ता ब्राह्मणस्य सदाऽनघ ।।२१।।
ललाटे हृदि बाह्वोश्च क्षात्रः पुंड्राणि धारयेत्।।
ललाटे हृदये वैश्यो भाले वै शूद्रयोषिताम्।।२२।।
ललाटे केशवं ध्यायेन्नारायणमथोदरे।।
वक्षःस्थले माधवं च गोविंदं कण्ठकूबरे।।२३।।
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।।
त्रिविक्रमं कर्णमूले वामनं वामपार्श्वके ।।२४।।
श्रीधरं वामबाहौ च हृषीकेशं च कर्णके ।।
पृष्ठे तु पद्मनाभः स्यात्त्रिके दामोदरं न्यसेत्।।२५।।
तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि।।
एवं कार्यं ब्राह्मणस्य क्षत्रियस्योपधारयेत्।।२६।।
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ।।
बाह्वोश्च उभयोर्वत्स स्मरेद्वै मधुसूदनम् ।।२७।।
क्षत्रियस्य विधिः प्रोक्तो वैश्यकृत्यं निशामय ।।
ललाटे केशवं ध्यायेद्धृदये माधवं तथा ।। २८ ।।
योषिच्छूद्रौ स्मरेतां च केशवं भालदेशके ।।
अनेन विधिना कुर्यात्पुंड्राणि मम तुष्टये ।। २९ ।।
श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं तथा ।।
श्रीकरं पीतमित्याहुः श्वेतं मोक्षकरं शुभम्।।2.5.2.३०।।
एकांतिनो महाभागाः सर्वलोकहिते रताः ।।
सांऽतरालं प्रकुर्वंति पुण्ड्रं हरिपदाकृतिम् ।।३१।।
मध्ये छिद्रेण संयुक्तमेतद्धि हरिमंदिरम् ।।
ऊर्ध्वं सौम्यमृजुं सूक्ष्मं सुपार्श्वं सुमनोहरम्।। ३२ ।।
निरंतरालं यः कुर्यादूर्ध्वपुंड्रं द्विजाऽधमः ।।
स हि तत्र स्थितं लक्ष्म्या सह मां च व्यपोहति ।। ३३ ।।
अच्छिद्रमूर्ध्वपुंड्रं तु ये कुर्वंति द्विजाधमाः ।।
तैर्ललाटे शुनः पादं निक्षिप्तं वै न संशयः ।। ३४ ।।
तस्माच्छिद्रान्वितं पुंड्रं महच्छिद्रं शुभान्वितम् ।।
धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये त्रिपुंड्रधारणविधिकथनंनाम द्वितीयोऽध्यायः ।। २ ।।