स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीभगवानुवाच ।। ।।
ततः प्रभाते द्वादश्यां कार्यो मत्स्योत्सवो बुधैः ।।
मार्गशीर्षे शुक्लपक्षे यथाविध्युपचारतः ।। १ ।।
अथ मार्गशिरे मासे दशम्यां नियतात्मवान् ।।
कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ।। २ ।।
शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् ।।
पक्त्वा पंचपदे गत्वा पुनः शौचं तु पादयोः ।। ३ ।।
कृत्वाऽष्टांगुलमानं तु क्षीरवृक्षे समुद्भवम् ।।
भक्षयेद्दंतकाष्ठं तु ततश्चाचम्य यत्नतः ।। ४ ।।
दृष्ट्वाऽऽकाशानि सर्वाणि ध्यात्वा वै मां गदाधरम् ।।
शंखचक्रगदापाणिकिरीटं पीतवाससम् ।। ५ ।।
प्रसन्नवदनांऽभोजं सर्वलक्षणलक्षितम् ।।
ध्यात्वा पुनर्जलं हस्ते गृहीत्वा भानुमध्यगम् ।। ६ ।।
ध्यात्वाऽर्घ्यं दापयेत्तत्र करतोयेन मानवः ।।
एवमुच्चारयेद्वाचं तस्मिन्काले चतुर्मुख।।७।।
एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम् ।।
भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाऽच्युत ।। ८ ।।
एवमुक्त्वा ततो रात्रौ मम मूर्तेश्च सन्निधौ ।।
जपेन्नारायणायेति स्वयं तत्र विधानतः ।। ९ ।।
ततः प्रभाते विमलां नदीं गत्वा समुद्रगाम् ।।
इतरां वा तडागं वा गृहे वा नियतात्मवान् ।।2.5.14.१०।।
आनीय मृत्तिकां शुद्धां मंत्रेणाऽनेन मानवः।।
वंदयेद्देवदेवेशं तदा शुद्धो भवेन्नरः ।। ११ ।।
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।।
तेन सत्येन मे पापं यावन्मोचय सुव्रते ।।१२।।
ब्रह्मांडोदरतीर्थानि करैः स्पृष्टानि दैवतैः ।।
तेनेमां मृत्तिकां स्पृष्टा माऽऽलभामि त्वयोद्धृताम् ।। १३ ।।
त्वयि नित्यं रसाः सर्वे स्थिता वरुण सर्वदा ।।
तेनेमां मृत्तिकां प्लाव्य पूतां कुरुष्व माचिरम् ।।१४।।
एवं मृदं तथा तोयं प्रसाद्याऽऽत्मानमालभेत् ।।
त्रिःकृत्वाऽशेषमृदया पिंडमालिप्य वै जले ।। १५ ।।
तस्मिन्नरः सदा सम्यङ्नक्रकच्छपदूरतः ।।
स्नात्वा चावश्यकं कृत्वा पुनर्मम गृहं व्रजेत् ।। १६ ।।
तत्राऽऽराध्य महायोगिन्देवं नारायणं हरिम् ।।
केशवाय नमः पादौ कटिं दामोदराय च ।।१७।।
जानुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।।
कंठे कौस्तुभनाभाय वक्षः श्रीपतये तथा ।। १८ ।।
त्रैलोक्यविजयायेति बाहुं सर्वात्मने शिरः ।।
रथांगधारिणे वक्त्रं श्रीकरायेति वारिजम् ।। १९।।
गंभीरायेति च गदामंभोजं शांतमूर्तये ।।
एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ।। 2.5.14.२० ।।
पुनस्तस्याऽग्रतः कुंभांश्चतुरः स्थापयेद्बुधः ।।
जलपूर्णान्समाल्यांश्च सितचंदनलेपितान् ।। २१ ।।
चूतपल्लवसंयुक्तान्सितवस्त्रावगुंठितान् ।।
छादितांस्ताम्रपात्रैश्च तिलपूर्णैः सकांचनैः ।।२२।।
चत्वारस्तु समुद्राश्च कलशाः संप्रकीर्तिताः ।।
तेषां मध्ये शुभं पीठं स्थापयेद्वस्त्रगर्भितम् ।।२३।।
तस्मिन्सुवर्णं रौप्यं वा ताम्रं वा दारवं तथा ।।
अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते ।। २४ ।।
तोयपूर्णं च तत्कृत्वा तस्मिन्पात्रे ततो न्यसेत् ।।
सौवर्णं मत्स्यरूपं च कृत्वा देवं जनार्दनम् ।।२५।।
देवदेवांगसंयुक्तं श्रुतिस्मृतिविभूषितम् ।।
तत्राऽनेकविधैर्भक्ष्यैः फलैः पुष्पैश्च शोभितम् ।।२६।।
गन्धैर्धूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ।।
रसातलगता वेदा यथादेव त्वयोद्धृताः ।। २७ ।।
मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव ।।
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।। ।। २८ ।।
यथाविभवसारेण प्रभाते विमले तथा ।।
चतुर्णां ब्राह्मणानां च चतुरो दापयेद्घटान् ।। २९ ।।
पूर्वं च बह्वृचे दद्याच्छांदोग्ये दक्षिणं तथा ।।
यजुःशाखान्विते दद्यात्पश्चिमं घटमुत्तमम् ।। 2.5.14.३० ।।
उत्तरं कामतो दद्यादेष एव विधिः स्मृतः ।।
ऋग्वेदः प्रीयतां पूर्वं सामवेदस्तुदक्षिणे ।। ३१ ।।
यजुर्वेदः पश्चिमतो ह्यथर्वश्चोत्तरेण तु ।।
अनेन क्रमयोगेन प्रीयतामिति वाचयेत् ।। ३२ ।।
मत्स्यरूपं तु सौवर्णमाचार्याय निवेदयेत् ।।
गन्धधूपादि वस्त्रैस्तु संपूज्य विधिवत्क्रमात् ।। ३३ ।।
यस्त्विमं सरहस्यं च मन्त्रेणैवोपपादयेत् ।।
विधानं विधिवद्दत्त्वा दाता कोटिगुणोत्तरम् ।। ३४ ।।
प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते ।।
स जन्मकोटिं नरके पच्यते पुरुषाधमः ।। ३५ ।।
विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ।।
एवं दत्वा विधानेन द्वादश्यां मां समर्चयेत् ।। ३६ ।।
विप्राणां भोजनं दद्याद्यथाशक्त्या च दक्षिणाम् ।।
भूरिणा परमान्नेन ततः पश्चात्स्वयं नरः ।। ३७ ।।
भुञ्जीत सहितो विप्रैर्वाग्यतः संयतेन्द्रियः ।।
अनेन विधिना यस्तु कुर्यान्मत्स्योत्सवं नरः ।। ३८ ।।
तस्य पुण्यफलं चाग्रे शृणु सत्यवतां वर ।।
यदि वक्त्र सहस्राणां सहस्राणि भवंति हि ।। ३९ ।।
आयुश्च ब्रह्मणा तुल्यं लभेद्यदि महाव्रत ।।
तदा वै ह्यस्य धर्मस्य फलं कथयितुं भवेत् ।। 2.5.14.४० ।।
य इमं श्रावयेद्भक्त्या द्वादशीकल्पमुत्तमम् ।।
शृणोति वा स पापैस्तु सर्वैरेव विमुच्यते ।। ४१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये मत्स्योत्सवकथनंनाम चतुर्दशोऽध्यायः ।। १४ ।।