स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

।। स्कंद उवाच ।। ।।
कराद्विगलितं यत्र कपालं ते महेश्वर ।।
तस्य तीर्थस्य माहात्म्यं कृपया वद मे पितः ।। १ ।।
।। ।। शिव उवाच ।। ।।
अतिगुह्यमिदं तीर्थं सुरासुरनमस्कृतम् ।।
ब्रह्महाऽपि नरो यत्र स्नानमात्रेण शुद्ध्यति ।। २ ।।
पंच तीर्थानि तिष्ठंति कपाले पापमोचने ।।
तत्र स्नानं तपो दानं सर्वमक्षयमिष्यते ।। ३ ।।
पिंडं विधाय विधिवन्नरकात्तारयेत्पितॄन् ।।
पितृतीर्थमिदं प्रोक्तं गयातोऽष्टगुणाधिकम् ।। ४ ।।
तिलतर्प्पणतो यांति पितरः स्वर्गमुत्तमम् ।। ५ ।।
अहोरात्रं स्थिरो भूत्वा जपनिष्ठः समाहितः ।।
तस्येष्टसिद्धिर्महती तत्क्षणादेव जायते ।। ६ ।।
पारलौकिककर्माणि सर्वाण्यव्याहतानि च ।।
कपालमोचने तीर्थे नाधिकं पितृकर्मणि ।। ७ ।।
।। स्कंद उवाच ।। ।।
कुत्र वा ब्रह्मतीर्थं वै फलं वा कीदृशं भवेत् ।।
के वा तत्र वसंतीह कृपया वद मे पितः ।। ८ ।।
शिव उवाच ।। ।।
एकदा विष्णुनाभ्यम्भोरुहस्थस्य प्रजापतेः ।।
वेदान्मुखांबुजाद्धृत्वा जग्मतुर्मधुकैटभौ ।। ९ ।।
ततो ह्युत्थाय शयनात्सिसृक्षुरब्जसंभवः ।।
स्रष्टुं विनाऽगमं लोके न शशाक हृतस्मृतिः ।। 2.3.6.१० ।।
तदा बदरिकामेत्य हरिणा प्रतिपालिताम् ।।
तुष्टाव प्रणतो भूत्वा भगवंतं सनातनम् ।। ११ ।।
ततः कुंडात्समुद्भूतो हयशीर्षो निजायुधः ।।
पीतांबरधरः शुक्लश्चतुर्बाहुः सुदृप्तदृक् ।। १२ ।।
अत्यद्भुतः प्रकटकठोरलोचनश्चलच्छटाविच्छुरितमेघडंबरः ।।
स्वतेजसा हतनिखिलप्रभाकुलः कृपान्वितो द्रुहिणपुरःसरोऽभवत् ।। १३ ।।
निरीक्ष्य तं विधिरपि विस्मयाकुलः प्रणम्य च स्तुतिमकरोत्प्रसन्नदृक् ।। १४ ।। ।।
।। ब्रह्मोवाच ।। ।।
नमः कमलनाभाय नमस्ते कमलाश्रय ।।
नमस्ते कमलावासविशालवनमालिने ।। १५ ।।
नमो विज्ञानभात्राय गुहावास निवासिने ।।
हृषीकेशाय शांताय तुभ्यं भगवते नमः ।। १६ ।।
स्वभक्तरक्षणकृते धृतदेहाय शार्ङ्गिणे ।।
अनंतक्लेशनाशाय गदिने ब्रह्मणे नमः ।।।। १७ ।।
संसारविविधासारनिवृत्तिकृतकर्मणे ।।
रक्षित्रे सर्वजंतूनां विष्णवे जिष्णवे नमः ।। १८ ।।
नमो विश्वंभराशेषनिवृत्तगुणवृत्तये ।।
सुरासुरवरस्तंभनिवृत्तिस्थितिकीर्तये ।।१९।।
इतीरितः सुरपतिना महेश्वरो हृदिस्थितोऽखिलविदशेषकर्मभिः ।।
ततोऽन्तरं सपदि गतो निबध्य तौ सुरद्रुहौ किल निजघान लीलया ।। 2.3.6.२० ।।
ततो निगममादाय ब्रह्मणोंऽतिकमाययौ।।
दत्त्वा स्वनिगमं तस्मै स्वस्थोऽभूत्स समीडितः ।। २१ ।।
ततः प्रभृति तत्तीर्थं ब्रह्मणा प्रकटीकृतम् ।।
ब्रह्मकुंडमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ।। २२ ।।
यस्य दर्शनमात्रेण महापातकिनो जनाः ।।
विमुक्तकिल्बिषाः सद्यो ब्रह्मलोकं व्रजंति ते ।। २३ ।।
स्नानं कुर्वंति ये लोका व्रतचर्यामथापि वा ।।
ब्रह्मलोकमतिक्रम्य विष्णुलोकं व्रजंति ते ।। २४ ।।
।। स्कंद उवाच ।। ।।
ततः किमकरोद्धाता लब्ध्वा वेदाञ्जनार्द्दनात् ।।
एतदन्यच्च सर्वं मे कृपया वद सांप्रतम् ।। २५ ।।
।। महादेव उवाच ।। ।।
चतुर्णामपि वेदानां दृष्ट्वा बदरिकाश्रमम् ।।
मतिर्न जायते गंतुं ब्रह्मणा सह पुत्रक ।। २६ ।।
ततस्तु विकलं दृष्ट्वा ब्रह्माणं जनवासिनः ।।
सिद्धास्तु विधिवत्स्तुत्वा प्रणिपत्येदमब्रुवन् ।। २७ ।।
।। सिद्धा ऊचुः ।। ।।
आज्ञा भगवतः कार्या सर्वैः स्थावरजंगमैः ।।
भगवान्सर्वजंतूनां कर्त्ता हर्ता पिता गुरुः ।। २८ ।।
स्थितिर्ब्रह्मांतिके वश्च हरिणैवानुकल्पिता ।।
निवृत्तिर्वर्तते चैषा तथाप्येतन्निरामयम् ।।२९।।
एकांते द्रवरूपेण मूर्तिर्वोऽत्रावतिष्ठताम् ।।
द्वितीया ब्रह्मणा सार्द्धं ब्रह्मलोकं व्रजेत्पुनः ।। 2.3.6.३० ।।
ततः सहृदया वेदा द्वैधीकृतात्मरूपकाः ।।
ब्रह्मणा ब्रह्मलोकं ते ययुः सार्द्धं प्रहर्षिताः ।। ३१ ।।
ततस्त्रिलोकं विधिवत्ससर्ज चतुराननः ।।
द्रवरूपेषु वेदेषु स्नानदानतपःक्रियाः ।।
कृता विच्छेदिता न स्युर्यावदाभूतसंप्लवम् ।। ३२ ।।
फलमुद्दिश्य कुर्वंति उपवासत्रयं नराः ।।
चतुर्णामपि वेदानां व्याख्यातारो न संशयः ।। ३३ ।।
अनुक्रमेण तिष्ठंति वेदाश्चत्वार एव च ।।
ऋग्यजुःसामाथर्वाख्या भगवत्पार्श्ववर्तिनः ।। ३४ ।।
ये पुण्यवंतोऽकलुषा वेदवेदांगपारगाः ।।
ते वेदघोषं विरलाः शृण्वंत्यपि कलौ युगे ।। ३५ ।।
चतुर्णामपि वेदानामुदगस्ति सरस्वती ।।
जप्ताथ सा नृणां हंति जडतां जलरूपिणी ।। ३६ ।।
सरस्वत्या जले स्थित्वा जपं कृत्वा समाहितः ।।
मनोस्तस्य न विच्छेदः कदाचिदपि जायते ।। ३७ ।।
वेदव्यासोऽपि भगवान्यत्प्रसादादुदारधीः ।।
पुराणसंहितार्थज्ञोऽभवदत्र न संशयः ।। ३८ ।।
त्रयाणामपि लोकानां हिताय जगतां पतिः ।।
स्थापयामास विधिना वाणीं वाग्विभवप्रदाम् ।। ३९ ।।
दर्शनस्पर्शनस्नानपूजास्तुत्यभिवन्दनैः ।।
सरस्वत्या न विच्छेदः कुले तस्य कदाचन ।। 2.3.6.४० ।।
मन्त्रसिद्धिर्विशेषेण सरस्वत्यास्तटे नृणाम् ।।
जपतामचिरणैव जायते नात्र संशयः ।।४१।।
बहुना किमिहोक्तेन वाणी वाग्विभवप्रदा ।।
द्रवरूपधरा नृणां दर्शनात्पूतिरुज्ज्वला ।। ४२ ।।
ततोऽर्वाग्दक्षिणे भागे द्रवधारेति विश्रुतम् ।।
तीर्थमिंद्रपदं यत्र तपश्चक्रे पुरंदरः ।। ४३ ।।
सुदारुणं तपः कृत्वा परितोष्य जनार्द्दनम् ।।
पदमैंद्रं समालेभे सुरासुरनमस्कृतम् ।। ४४ ।।
तपो दानं जपो होमो व्रतानि नियमा यमाः ।।
तत्रानन्तगुणं प्रोक्तं तत्तीर्थमतिदुर्लभम् ।। ४५ ।।
प्रतिमासे त्रयोदश्यां शुक्लायां हरितोषणे ।।
स्नात्वा सुतीर्थे सुत्रामाच्छन्दं चोपेत्य संगतः ।। ४६ ।।
उपवासद्वयं कृत्वा पूजयित्वा जनार्द्दनम् ।।
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ।। ४७ ।।
तत्रैव मानसोद्भेदः सर्वपापप्रणाशनः ।।
दुर्लभः सर्वजंतूनां यत्र ते स्युर्महर्षयः ।। ४८ ।।
मानसं चिदचिद्ग्रन्थिमुद्ग्रथ्नंति च सर्वतः ।।
मानसोद्भेव इत्याख्या ऋषिभिः परिगीयते ।। ४९ ।।
भिंदंति हृदयग्रंथीश्छिंदन्ति बहुसंशयम् ।।
कर्माणि क्षपयन्त्यस्मान्मानसोद्भेद इत्यभूत् ।। 2.3.6.५० ।।
यदि भाग्यवशादत्र बिंदुमात्रं लभेन्नरः ।।
तत्क्षणान्मुक्तिमाप्नोति किमतस्त्वधिकं भवेत् ।। ५१ ।।
गिरिदरीनिलये निवसत्यमी ऋषिगणाः फलमूलजलाशनाः ।।
जितमनोविषयाः शितबुद्धयः कलिभयादिव पापभयाकुलाः ।। ५२ ।।
फलसमीरणगह्वरनिर्झराश्रमभरादुपलब्धपटोत्तमाः ।।
त्रिषवणक्रमनिर्जितदुर्जयेन्द्रियपराक्रमणा मुनयस्त्वमी ।। ५३ ।।
साधनानि बहून्येव कायक्लेशकराण्यहो ।।
सुलभं साधनं लोके मानसोद्भेददर्शनम् ।। ५४ ।।
यस्मिन्दिने जलं चैतल्लभते पुण्यवाञ्जनः ।।
भवति व्याससदृशो यमपितृसमः क्रमात् ।। ५५ ।।
काम्यतीर्थमिदं नॄणां कामनावशकृत्पुनः ।।
अकामतस्तु मुक्तिः स्यादुभयोरेष निश्चयः ।। ५६ ।।
यदि कश्चित्प्रमादेन कामनां कुरुते नरः ।।
फलं भुक्त्वा पुनर्मुक्तिर्भवत्येव न संशयः ।।५७।।
महरादिषु लोकेषु भुक्त्वा भोगान्यथेप्सितान् ।।
भोगे भुक्ते पुनर्याति कामनावशतो जनः ।।५८।।
पुरुषार्थसमावाप्त्यै यतनीयं मनीषिभिः ।।
मानसोद्भेदने तीर्थे नापेत्यत्रेति मे मतिः ।। ५९ ।।
मानसोद्भेदनात्प्रत्यग्दिशि सर्वमनोहरम् ।।
वसुधारेति विख्यातं तीर्थं त्रैलोक्यदुर्लभम् ।। ।। 2.3.6.६० ।।
त्रिलोक्यां सर्वतीर्थेभ्यः श्रेष्ठो बदरिकाश्रमः ।।
श्रुत्वा तन्नारदात्सर्वे वसवः समुपागताः ।। ६१ ।।
त्रिंशद्वर्षसहस्राणि तपः परमदारुणम् ।।
दलांबुप्राशनाश्चक्रुस्ततः सिद्धिमुपाययुः ।। ६२ ।।
भगवद्दर्शनात्प्राप्तानंदनिर्वृत्तविक्लमाः ।।
हृदयानन्दसंदोहप्रफुल्लितमुखांबुजाः ।। ६३ ।।
दृष्ट्वा नारायणं देवं वरं लब्ध्वा मनोरमम्।।
हरिभक्तिसुखैश्वर्य्यं परं लब्ध्वा मुदं ययुः।।६४।।
अत्र स्नात्वा जलं पीत्वा पूजयित्वा जनार्द्दनम्।।
इह लोके सुखं भुक्त्वा यात्यंते परमं पदम् ।।६५।।
अत्र पुण्यवतां ज्योतिर्दृश्यते जलमध्यतः।।
यद्दृष्ट्वा न पुनर्भूयो गर्भवासं प्रपद्यते ।। ६६ ।।
येऽशुद्धपितृजाः पापाः पाषंडमतिवृत्तयः ।।
न तेषां शिरसि प्रायः पतंत्यापः कदाचन ।। ६७ ।।
दिनत्रयं शुचिर्भूत्वा पूजयित्वा जनार्दनम् ।।
उपोष्य भगवद्भक्त्या सिद्धान्पश्यंति साधवः ।।६८।।
ये तत्र चपलास्तथ्यं न वदंति च लोलुपाः ।।
परिहासपरद्रव्यपरस्त्रीकपटाग्रहाः ।।६९।।
मलचैलावृताऽशांताऽशुचयस्त्यक्तसत्क्रियाः ।।
तेषां मलिनचित्तानां फलमत्र न जायते ।। 2.3.6.७० ।।
ये तत्र साधकाः शांता विरला विधिवर्त्मगाः ।।
तेषां जपस्तपोहोमो दानव्रतजपक्रियाः ।। ।। ७१ ।।
क्रियमाणा यथाशक्त्या ह्यक्षय्यफलदायकाः ।। ७२ ।।
यत्किंचिच्छुभकर्माणि क्रियमाणानि देहिनाम् ।।
महदादिफलं दद्युर्निःश्रेयसमनुत्तमम् ।। ७३ ।।
श्रावणीयमिह किं फलाधिकं यत्र यांति विबुधाः फलार्थिनः ।।
पूजितादनु हरेः प्रियार्थिनः स्वर्गमार्गनिरताः प्रमोदिनः ।। ७४ ।।
यत्र संति न च विघ्नकारिणः कर्मणां हरिभयात्सुसिध्यति ।।
निर्विशंति च फलं विवेकिनः कर्ममार्गनिरताः सुदेहिनः ।। ७५ ।।
ये पठंत्यथ च पाठयंत्यहो पुण्यतीर्थविषयं प्रकाशितम् ।।
भक्तिभावसमलंकृताश्च ते संप्रयान्ति हरिमंदिरं शुभम् ।। ७६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे वसुधारातीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।।
।। शिव उवाच ।। ।।