स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। जैमिनिरुवाच ।। ।।
अतः परं प्रवक्ष्यामि दक्षिणायनमुत्तमम् ।।
संक्रांतेः पूर्वकाले याः कला वै विंशतिर्मताः ।। १ ।।
अयनं पुण्यकालोऽयं पुण्यकर्मसु कर्मिणाम् ।।
पंचामृतैस्तत्र देवं स्नापयेत्स्वापवद्द्विजाः ।। २ ।।
सर्वांगं लेपयेदस्यागुरुकर्पूरचंदनैः ।।
सुगन्ध माल्यालंकारैश्चारुवस्त्रैश्च दीपकैः ।। ३ ।।
नानाभक्ष्योपहारैश्च पूजयेत्परमेश्वरम् ।।
कर्पूरालतिकामुच्चैर्मुखाभ्याशे हरेर्ददेत् ।। ४ ।।
दूर्वांकुराक्षतैर्नीराजनेनाथ प्रवन्दयेत् ।।
मांगल्यगीतनृत्ताद्यैर्नारी हुलुहुलां वदेत् ।। ५ ।।
पूजितं पूज्यमानं च यः पश्येत्पुरुषोत्तमम् ।।
पूजाशतगुणं पुण्यं तस्मै दद्याज्जनार्दनः ।। ६ ।।
अयने दक्षिणे तस्मिन्नर्च्यमानं श्रियः पतिम् ।।
विहाय सर्वपापानि विष्णुलोकं व्रजंति ते ।। ७ ।।
स्वल्पा वा महती यात्रा सर्वा मुक्तिप्रदा हरेः ।।
तस्मिंस्तस्मिन्दिने दृष्टो भगवान्मुक्तिदो ध्रुवम् ।। ८ ।।
विश्वासहेतोर्मूर्खाणां यात्रा ह्येताः कृपावता ।।
विष्णुना कथिता विप्राः पापिनां किल्बिषापहाः ।। ९ ।।
आयासजनितं पुण्यं मन्यन्ते ये नराधमाः ।।
लक्ष्मीपतेर्भोजनाय संस्कार्योऽत्र महानसः ।। 2.2.37.१० ।।
वैष्णवाग्निं समाधाय निरुप्य चरुमुत्तमम् ।।
वैश्वदेवं प्रकुर्वीत भगवत्पाकसाधनम् ।।११।।
ब्रह्मणे वास्तुपतये प्रजानां पतये तथा ।।
विष्णवे विश्वकर्त्रे च शुच्यग्नौ जुहुयाच्छुचिः ।। १२ ।।
राज्ञा नियुक्त आचार्यः श्रौतस्मार्तक्रियापरः ।।
द्वारपालप्रचंडाभ्यामैशान्यां क्षेत्रपालिने ।। १३ ।।
दक्षिणे च विरूपाय खगानां पतये तथा ।।
दुर्गासरस्वतीभ्यां च नैर्ऋत्यां विनिवेदयेत् ।। १४ ।।
महालक्ष्मीमहेंद्राभ्यां प्राच्यां दिशि बलिः स्मृतः ।।
विष्णु पारिषदेभ्योऽथ पशूनां पतये तथा ।। १५ ।।
उदीच्यां बलिदानं तु नारदायाथ पश्चिमे ।।
आग्नेय्यामग्नये दद्याद्वायव्यां विश्वसाक्षिणे ।। १६ ।।
पञ्चश्वसनरूपेभ्यो विश्वकर्त्रेऽथ मध्यतः ।।
आद्यंतयोर्जलं दद्यात्प्रत्येकं बलिकर्मणि ।। ३७ ।।
दत्त्वा वलिं तदग्नौ तु कारयेत्पाकमुत्तमम् ।।
संध्यात्रये भगवतः पूजायै चरुकारणात् ।। १८ ।।
चरुसंस्कारकांगानि भक्ष्यभोज्यादिकानि वै ।।
न दीप्तान्योजयेत्तत्र लोके त्रैवर्णिको नृपः ।। ।। १९ ।।
आर्यान्पवित्राञ्छूद्रान्वा वर्णांश्च परिसेवकान् ।।
लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम् ।। 2.2.37.२० ।।
भुंक्ते नारायणो नित्यं तया पक्वं शरीरवान् ।।
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्ध्नि धारणात् ।। २१ ।।
भक्षणान्मद्यपानादिमहादुरितनाशनम् ।।
आघ्राणान्मानसं पापं दर्शनाद्दृष्टिजं तथा ।। २२ ।।
आस्वादात्तु कृतं पापं श्रावणं च व्यपोहति ।।
स्पर्शनात्त्वक्कृतं पापं मिथ्याभाषणजं तथा ।। २३ ।।
गात्रलेपाद्दहेत्पापं शारीरं वै न संशयः ।। २४ ।।
महापवित्रं हि हरेर्निवेदितं नियोजयेद्यः पितृदेवकर्मसु ।।
तृप्यंति तस्मै पितरः सुरास्तथा प्रयांति लोकं मधुसूदनस्य ते ।। २५ ।।
नात्ः पवित्रं वस्त्वस्ति हव्यकव्येषु भो द्विजाः ।।
नराणां रूपमास्थाय तदश्नंति दिवौकसः ।। २६ ।।
अभिमानो महांस्तत्र देवदेवस्य चक्रिणः ।।
श्वेतो नाम महाराजः पुरा त्रेतायुगेऽभवत् ।। २७ ।।
व्रतस्थोऽपि महाभक्तिं चकार पुरुषोत्तमे ।।
इन्द्रद्युम्नेन रचितभोगमात्रानुसारतः ।। २८ ।।
भोगान्प्रकल्पयामास प्रत्यहं श्रीपतेर्मुदा ।।
भक्ष्यभोज्यान्यनेकानि षड्रसांश्च सुसंस्कृतान् ।। २९ ।।
माल्यानि च विचित्राणि सुगंधमनुलेपनम् ।।
गीतवादित्रनृत्यानि दिव्यानि सुबहूनि च ।। 2.2.37.३० ।।
राजोपचारा बहुशोऽवसरेऽवसरे हरेः ।।
बहुवित्तव्ययायास भक्तिभावनिरूपकाः ।। ३१ ।।
तत्तद्वैष्णवशास्त्रोक्तचित्रभोगाः पृथग्विधाः ।।
कल्पितास्तेन भूपेन विद्वत्पंकजभानुना ।। ३२ ।।
प्रातः पूजनवेलायां हरिं द्रष्टुं जगाम सः ।।
कस्मिंश्चिद्दिवसे राजा पूज्यमानं ददर्श तम् ।। ३३ ।।
प्रणम्य देवदेवं तु बद्धांजलिपुटो मुदा ।।
प्रासादद्वारनिकटे तस्थिवानृपसत्तमः ।। ३४ ।।
दृष्ट्वा स्वयं विरचितानुपचाराननुत्तमान् ।।
उपायनसहस्रं च हरेरग्रे प्रकल्पितम् ।। ३५ ।।
चिंतयामास मनसा किंचिद्ध्यानावलंबितः ।।
मनुष्यकल्पितंभोगं ग्रहीष्यति हरिः किमु ।। ३६ ।।
देवैर्दिव्योपचारैर्यो शक्यते नार्चनाविधौ ।।
मानसैरुपहारैर्यं पूजयंति यतव्रताः ।। ३७ ।।
भावदुष्टो बहिर्यागो न मुदे तस्य निश्चितम् ।।
इत्थं संचितयन्राजा दिव्यासनगतं विभुम् ।। ३८ ।।
भुंजानमन्नपानाढ्यं श्रिया सुपरिवेषितम् ।।
दिव्यस्रजालंकृतया दिव्यगंधदुकूलया ।। ३९ ।।
अनर्घ्यरत्नमंजीरसिंजितेन सुरालयम् ।।
पूरयंत्या स्वर्णदर्व्या ददत्या सादरं रसान् ।। 2.2.37.४० ।।
भगवत्प्रतिरूपैश्च भुंजानैः परिवेष्टितम् ।।
दृष्ट्वा कृतार्थमात्मानं मन्यमानस्तदद्भुतम् ।। ४१ ।।
प्रोन्मीलिताक्षः स पुनः प्राग्दृष्टं समवैक्षत ।।
अतः प्रभृति राजासौ परां निर्वृतिमाप्तवान् ।। ४२ ।।
निवेदिताशीर्व्रतवांश्चचार सुमहत्तपः ।।
अकालमृत्युनाशाय स्वराज्ये मृतमुक्तये ।। ४३ ।।
मंत्रराजं जपन्नित्यं श्रितानां कल्पपादपम् ।।
ददर्श शतवर्षांते नृहरिं दुरितापहम् ।। ४४ ।।
योगासनाब्जनिलयं वामांगावस्थितश्रियम् ।।
दिव्यालंकृतसर्वांगं स्फटिकामलविग्रहम् ।। ४५ ।।
त्रिदशैः सिद्धमुक्तैश्च स्तूयमानं स्मिताननम् ।।
भ्रांतो विस्मयभीतिभ्यां हर्षगद्गदया गिरा ।।
प्रसीद नाथेति लपन्पपात धरणीतले ।। ४६ ।।
तपःकृशं तं प्रणतं दृष्ट्वा मनुजकेसरी ।।
अकल्मषं क्षितिपतिं विवक्षुर्भक्तवत्सलः ।। ४७ ।। ।।
।। श्रीभगवानुवाच ।। ।।
उत्तिष्ठ वत्स भक्त्या ते प्रसन्नं विद्धि मां प्रभुम् ।।
मयि प्रसन्ने नालभ्यं वरं तत्प्रार्थ्यतां भवान् ।।४८।।
श्रुत्वेत्थं भगवद्वाक्यं समुत्तस्थौ ततो नृपः ।।
बद्धांजलिपुटो नम्रो भक्त्योवाच जनार्दनम् ।। ४९ ।।
।। श्वेत उवाच ।। ।।
स्वामिन्यदि प्रसादस्ते मयि जातः सुदुर्लभः ।।
सारूप्यमथ संप्राप्य स्थास्यामि तव सन्निधौ ।। 2.2.37.५० ।।
स्थास्ये यावन्नृपत्वेऽहं मद्राज्ये नो जनः क्वचित् ।।
अकाले म्रियतां जंतुः काले चेन्मुक्तिमाप्नुयात् ।।५१।।
तच्छ्रुत्वा भगवान्प्राह श्वेतराजानमुत्तमम् ।।५२।।
श्वेत ते वांछितं भूयात्तिष्ठ त्वं मम दक्षिणे ।।
भुक्त्वा वर्षसहस्रं तु स्वराज्यं सुसमृद्धिमत् ।।५३।।
मम निर्माल्यभोगेन क्षीणशेषाघसंचयः ।।
सुनिर्मलांतःकरणो मत्सायुज्यमवाप्स्यसि ।। ५४ ।।
वटसागरयोर्मध्ये मुक्तिस्थाने सुदुर्लभे ।।
मदीयाऽऽद्यावतारस्य विष्णोर्मत्स्यस्वरूपिणः।।५५।।
संमुखीनो वस त्वं हि स्फटिकामलविग्रहः ।।
ख्यातिं यास्यसि भूर्लोके श्वेतमाधवसंज्ञया।।५६।।
युवयोरंतराले ये प्राणांस्त्यक्ष्यंति मानवाः ।।
तिर्यंचोऽपि च कीटा वा ध्रुवं ते मुक्तिमाप्नुयुः ।।५७।।
अमरा यत्र मरणमिच्छंति किमु मानवाः ।।
तवोत्तरस्यां दिशि यत्सरः पापनिबर्हणम् ।।५८।।
तत्र स्नात्वा उपस्पृश्य तदीये दक्षिणे तटे ।।
उभयोर्दृष्टिपूतःसंत्यक्त्वा प्राणान्विमुच्यते ।। ।।५९।।
आसमंतादिदं क्षेत्रं यत्रतत्रापि मुक्तिदम् ।।
मूढात्मनां विश्वसितुं प्रधानं स्थानमीरितम्।।2.2.37.६०।।
तव राज्ये तु ये लोका मम निर्माल्यभोजिनः।।
मृतिराकालिकी तेषां न कदाचिद्भविष्यति ।। ६१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तत्रिंशोऽध्यायः।।३७।।