स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search

।। नारद उवाच ।। ।।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ।।
धात्री च मालती चैव तुलसी च नृपोत्तम ।। १ ।।
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।।
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ।। २ ।।
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ।।
उत्तस्थौ संभ्रमाद्वृंदा रूपातिशयविभ्रमः ।।३।।
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा ।।
तं चाऽपि तुलसीधात्र्यौ रागेणैव व्यलोकताम्।।४।।
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम् ।।
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराऽभवत् ।। ५ ।।
अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम् ।।
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ।। ६ ।।
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।।
वैकुण्ठमगमद्धृष्टः सर्वदेव नमस्कृतः ।। ७ ।।
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ।।
तुलसीमूलदेशेऽस्य प्रीतिदा सा यतः स्मृता ।। ८ ।।
तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते ।।
तद्गृहं तीर्थरूपं तु नाऽऽयांति यमकिंकराः ।। ९ ।।
सर्वपापहरं नित्यं कामदं तुलसीवनम् ।।
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम् ।। 2.4.23.१० ।।
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ।।
तुलसीवनसंसर्गः सममेव त्रयं स्मृतम् ।। ११ ।।
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ।।
तुलसी दहते पापं वाङ्मनःकायसंचितम् ।। १२ ।।
तुलसीमंजरीभिर्यः कुर्याद्धरिहराऽर्चनम् ।।
न स गर्भगृहं याति मुक्तिभागी न संशयः ।। १३ ।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।।
वासुदेवादयो देवास्तिष्ठंति तुलसीदले ।। १४ ।।
तुलसीमंजरीयुक्तो यस्तु प्राणान्विमुंचति ।।
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ।। १५ ।।
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ।।
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः ।। १६ ।।
तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत् ।।
तुलसीविपिनच्छाया यत्रयत्र भवेन्नृप ।। १७ ।।
तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम् ।।
धात्रीफलविमिश्रैश्च तुलसीपत्रमिश्रितैः ।। १८ ।।
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् ।।
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैस्तथा ।। १९ ।।
सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ।।
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके ।। ।। 2.4.23.२० ।।
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते ।।
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके ।। २१ ।।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान्।।
धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः ।।
न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः ।। २२ ।।
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या ।।
विधूतपाप्मा सह पूर्वजैः स्वैः स्वर्गं व्रजत्यग्र्यविमानसंस्थैः ।।२३।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीतुलस्युत्पत्तिवर्णनंनाम त्रयोविंशोऽध्यायः।। २३ ।।