स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
जटाकुण्डत आग्नेयदिग्दल संश्रितं महत् ।।
गयाकूपमिति ख्यातं सर्वाभीष्टफलप्रदम् ।। १ ।।
यत्र स्नात्वा च दत्त्वा च यथाशक्त्या जितेंद्रियः ।।
सर्वकाममवाप्नोति श्राद्धं कृत्वा द्विजोत्तमः ।। २ ।।
नरकस्थाश्च ये केचित्पितरश्च पितामहाः ।।
विष्णुलोके तु गच्छन्ति तस्मिञ्च्छ्राद्धे कृते तु वै ।। ३ ।।
तस्मिञ्छ्राद्धे कृते विप्र पितॄणामनृणो भवेत् ।।
शक्तिभिः पिंडदानं तु सयवैः पायसेन च ।। ४ ।।
कर्त्तव्यमृषिनिर्दिष्टं पिण्याकेन गुडेन वा ।।
श्राद्धं तत्तीर्थके प्रोक्तं पितॄणां तुष्टिकारकम् ।। ५ ।।
तत्र श्राद्धं प्रकर्त्तव्यं नरैः श्रद्धासमन्वितैः ।।
तुष्यंति पितरस्तेषां तुष्टाः स्युः सर्वदेवताः ।। ६ ।।
तुष्टेषु पितृषु श्रीमाञ्जायतेपुत्रवाँस्तथा ।।
श्राद्धेन पितरस्तुष्टाः प्रयच्छंति सुतान्बहून् ।। ७ ।।
श्रियं च विपुलान्भोगाञ्छ्राद्धकृद्भयो न संशयः ।।
तस्मादत्र विधानेन विधातव्यं प्रयत्नतः ।। ८ ।।
श्राद्धं श्रद्धायुतैः सम्यगभीष्टफलकांक्षिभिः ।।
गयाकूपे विशेषेण पितॄणां दत्तमक्षयम् ।। ९ ।।
सोमवारेण संयुक्ता अमावास्या यदा भवेत् ।।
तत्रानंतफलं श्राद्धं पितॄणां दत्तमक्षयम् ।। 2.8.9.१० ।।
अन्यदा सोमवारेण तत्र श्राद्धं विधानतः ।।
पितृसंतोषदं नित्यं तत्र दत्ताक्षयो भवेत् ।। ११ ।।
तत्र पूर्वदिशाभागे तीर्थं सर्वोत्तमोत्तमम् ।।
पिशाचमोचनंनाम विद्यते च फलप्रदम् ।। १२ ।।
तत्र स्नात्वा च दत्त्वा च पिशाचो नैव जायते ।।
तत्र स्नानं तथा दानं श्राद्धं चैव विशेषतः ।।
कर्त्तव्यं च प्रयत्नेन नरैः श्रद्धासमन्वितैः ।। १३ ।।
मार्गशीर्षे शुक्लपक्षे चतुर्दश्यां विशेषतः ।।
स्नानं तत्र प्रकर्त्तव्यं पिशाचत्वविमुक्तये ।। १४ ।।
तत्संनिधौ पूर्वभागे मानसंनाम नामतः ।।
तीर्थं पुण्यनिवासाग्र्यं स्नातव्यं च विशेषतः ।।
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।। १५ ।।
नानाविधानि पापानि मेरुतुल्यानि वै पुनः ।।
तत्र स्नानात्क्षयं यांति नात्र कार्या विचारणा ।। १६ ।।
यत्किञ्चिद्विद्यते पापं मानसं कायिकं तथा ।।
वाचिकं च तथा पापं स्नानतो विलयं व्रजेत् ।। १७ ।।
प्रौष्ठपद्यां सदा कार्य्या पौर्णमास्यां विशेषतः ।।
यात्रा तस्य नृभिर्विप्र पुण्यवद्भिः क्रियापरैः ।। १८ ।।
तस्माद्दक्षिणदिग्भागे वर्त्तते सुकृतैकभूः ।।
तमसानाम तटिनी महापातकनाशिनी ।। १९ ।।
यत्र स्नानं तथा दानं सर्वपापहरं सदा ।।
यस्यास्तटे तथा रम्ये सर्वदा फलदायके ।। 2.8.9.२० ।।
नानाविधानि स्थानानि मुनीनां भावितात्मनाम् ।।
माण्डव्यस्य मुनेः स्थानं वर्त्तते पापनाशनम् ।। २१ ।।
यस्यास्तीरे मुनिश्रेष्ठ सर्वत्र सुमनोहरम् ।।
तस्याश्रमपदं रम्यं नानावृक्षमनोहरम् ।। २२ ।।
यस्मात्स्थानात्समुद्भूता तमसा सुतरंगिणी ।।
तद्वनं पुण्यमधिकं पावनं पदमुत्तमम् ।। २३ ।।
यस्य दर्शनतो नॄणां सर्वपापक्षयो भवेत् ।। २४ ।।
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ।।
विरूढपुष्पैः परितः प्रियंगुभिः सुषुष्पितैः कण्टकितैश्च केतकैः ।। २५ ।।
तमालगुल्मैर्निचितं सुगंधिभिः सकर्णिकारैर्बकुलैश्च सर्वतः ।।
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसंचयैः ।। २६ ।।
क्वचित्प्रफुल्लांबुजरेणुभूषितैर्विहंगमैश्चारुफलप्रचारिभिः ।।
विनादितं सारसमुत्कुलादिभिः प्रमत्तदात्यूहकुलैश्च वल्गुभिः ।। ।। २७ ।।
क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम् ।।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ।। २८ ।।
मदाकुलाभिर्भ्रमरीभिरारान्निषेवितं चारुसुगंधिपुष्पवत् ।।
क्वचिच्च पुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकद्रुमैश्च ।। २९ ।।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ।।
समंततः सुन्दरदर्शनीयतां समुद्वहत्तद्वनमुल्लसन्महत् ।। 2.8.9.३० ।।
निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगीवृन्दनादाभिरामम्।।
कुसुमिततरुशाखालीनमत्तद्विरेफंनवकिसलयशोभाशोभितं सत्फलाढ्यम् ।। ३१ ।।
इत्यादिबहुशोभाढ्यं सर्वदिक्षु मनोहरम् ।।
यत्र मांडव्यमुनिना तपस्तप्तं महत्किल ।।
यत्प्रभावादभूत्तीर्थं पावनं तत्सदा महत् ।। ३२ ।।
तत्पूर्वं गौतमस्यर्षेराश्रमं पावनं महत् ।।
तत्पूर्वं च्यवनस्यर्षेः पराशरमुनेरिदम् ।।
प्रथमं ते मुनिश्रेष्ठ पितुः किल तपोनिधेः ।। ३३ ।।
नानाविधानि तीर्थानि चाश्रमाश्चैव सर्वशः ।।
वर्तंते तापसानां च यस्यास्तीरे समंततः ।। ३४ ।।
तमसानाम सा ज्ञेया वर्तते तटिनी शुभा ।।
यज्ञयूपान्समुत्खाय शोभिता बहुशोऽभितः ।। ३५ ।।
तत्र स्नानेन दानेन श्राद्धेन च विशेषतः ।।
सर्वकामार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।। ३६ ।।
मार्गशीर्षे शुक्लपक्षे पञ्चदश्यां विशेषतः ।।
स्नानं तस्य फलप्राप्तिदायकं सर्वदा नृणाम्।। ३७ ।।
तस्मादत्र प्रकर्तव्यं स्नानं निर्मलमानसैः ।।
प्रयत्नतो मुनिश्रेष्ठ सर्वकामार्थसिद्धिदम् ।। ३८ ।।
अतः परं प्रवक्ष्यामि तमसापरमं शुभम्।।
सीताकुंडमितिख्यातं श्रीदुग्धेश्वरसन्निधौ ।। ३९ ।।
भाद्रे शुक्लचतुर्थ्यां तु तस्य यात्रा शुभावहा ।।
सर्वकामार्थसिद्ध्यर्थं पूज्यो विप्रेश्वरस्तथा ।।
तस्य स्मरणमात्रेण सर्वविघ्नविनाशनम् ।। 2.8.9.४० ।।
तस्माद्दक्षिणदिग्भागे भैरवो नाम नामतः ।।
यं दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४१ ।।
रक्षितो वासुदेवेन क्षेत्ररक्षार्थमादरात् ।।
तस्य पूजा विधातव्या प्रयत्नेन यथाविधि ।।
मनोभीष्टफलप्राप्तिर्भैरवस्य सदाऽऽदरात् ।। ४२ ।।
मार्गशीर्षस्य कृष्णायामष्टम्यां तस्य निर्मिता ।।
यात्रा सांवत्सरी तत्र सर्वकामार्थसिद्धये ।। ४३ ।।
पशूपहारसंभूति कर्तव्यं पूजनं जनैः ।।
सर्वकामफलप्राप्तिर्जायते नात्र संशयः ।। ४४ ।।
निर्विघ्नं तीर्थवसतिर्भैरवस्य प्रसादतः ।।
जायते तेन कर्तव्या पूजा तस्य प्रयत्नतः ।। ४५ ।।
एतस्मिन्नुत्तरे भागे रम्यं भरतकुण्डकम् ।।
यत्र स्नात्वा नरः पापैर्मुच्यते नात्र संशयः ।। ४६ ।।
तत्र स्नानं तथा दानं सर्वमक्षयतां व्रजेत् ।।
अन्नं बहुविधं देयं वासांसि विविधान्यपि ।। ४७ ।।
यत्नतो देवताः पूज्या वस्त्रादिभिरलंकृतैः ।।
नंदिग्रामे वसन्पूर्वं भरतो रघुवंशजः ।। ४८ ।।
रामचन्द्रं हृदि ध्यायन्निर्मलात्मा जितेन्द्रियः ।।
ततः स्थित्वा प्रजाः सर्वा ररक्ष क्षितिवल्लभः ।। ४९ ।।
तत्र चक्रे महत्कुण्डं भरतो नाम भूपतिः ।।
राममूर्तिं च संस्थाप्य चचार विजितेन्द्रियः ।। 2.8.9.५० ।।
तत्कुंडे सुमहत्पुण्यं नानापुण्यसमन्वितम् ।।
कुमुदोत्पलकह्लारपुण्डरीकसमन्वितम् ।। ५१ ।।
हंससारसचक्राह्व विहंगमविराजितम् ।।
उद्यानपादपच्छायासच्छायममलं सदा ।। ५२ ।।
तत्र स्नानं महापुण्यं प्रमोदानन्दनिर्मलम् ।।
तत्र स्नानं तथा श्राद्धं पितॄनुद्दिश्य कुर्वतः ।।
पितरस्तस्य तुष्यंति तुष्टाः स्युः सर्वदेवताः ।। ५३ ।।
स्वर्णं चान्नं विधानेन दातव्यं च द्विजन्मने ।।
श्रद्धापूर्वकमेतत्तु कर्तव्यं प्रयतैर्नरैः ।। ५४ ।।
तत्पश्चिमदिशाभागे जटाकुण्डमनुत्तमम् ।।
यत्र रामादिभिः सर्वैर्जटाः परिहृता निजाः ।। ५५ ।।
जटाकुण्डमिति ख्यातं सर्वतीर्थोत्तमोत्तमम्।।
यत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।। ५६।।
पूर्वकुण्डेषु संपूज्यो भरतः श्रीसमन्वितः ।।
जटाकुण्डेषु संपूज्यौ ससीतौ रामलक्ष्मणौ ।।
चैत्रकृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ।। ५७ ।।
इति परमविधानैः पूजयेद्रामसीते तदनु भरतकुण्डे लक्ष्मणं च प्रपूज्य ।।
विधिवदमृतकुण्डे द्वंद्वंसमज्जनेन वसति सुकृतिमूर्तिर्वैष्णवे तत्र लोके ।। ५८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये गयाकूप पिशाचमोचन मानसतीर्थ तमसानदी माण्डव्याद्याश्रम सीताकुण्ड दुग्धेश्वर भैरवभारतकुण्ड जटाकुण्ड माहात्म्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।। ।। छ ।। ।। ।।