स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीसूत उवाच ।। ।।
शिवतीर्थे नरः स्नात्वा ब्रह्महत्याविमोक्षणे ।।
स्वपापजालशांत्यर्थं शंखतीर्थं ततो व्रजेत् ।। १ ।।
यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ।।
मातॄः पितॄन्गुरूंश्चापि ये न मन्यंति मोहिताः ।। २ ।।
ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ।।
ते सर्वे शंखतीर्थे स्मिञ्छुद्ध्यंति स्नानमात्रतः ।। ३ ।।
शंखनामा मुनिः पूर्वं गंधमादनपर्वते ।।
अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः।। ४ ।।
स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ।।
शंखेन निर्मितं तीर्थं शंखतीर्थमितीर्यते ।। ५ ।।
तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपिविमुच्यते १।
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम्।।६।।
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्।।
पुरा बभूव विप्रेंद्रो वत्सनाभो महामुनिः।।७।।
सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयापरः।।
शत्रुमित्रसमो दांतस्तपस्वी विजितेंद्रियः।।८।।
परब्रह्मणि निष्णातस्तत्त्वब्रह्मैकसंश्रयः।।
एवं प्रभावः स मुनिस्तपस्तेपे निजाश्रमे ।। ९ ।।
स वै निश्चलसर्वांगस्तिष्ठंस्तत्रैव भूतले ।।
परमाण्वंतरं वापि न स्वस्थानाच्चचाल सः ।। 3.1.25.१० ।।
स्थित्वैकत्र तपस्यंतमनेकशतवत्सरान् ।।
तमाचकाम वल्मीकं छादितांगं चकार च ।। ११ ।।
वल्मीकाक्रांतदेहोपि वत्सनाभो महामुनिः ।।
अकरोत्तप एवासौ वल्मीकं न त्वबुद्ध्यत ।। ।। १२ ।।
तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवाः ।१
विसृज्य मेघजालानि वर्षयामास वेगवान् ।। १३ ।।
एवं दिनानि सप्तायं स ववर्ष निरं तरम् ।।
आसारेणातिमहता वृष्यमाणोपि वै मुनिः ।। १४ ।।
तं वर्षं प्रतिजग्राह निमीलितविलोचनः ।।
महता स्तनितेनाशु तदा बधिरयञ्छ्रुती ।। ।। १५ ।।
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ।।
तस्मिन्वर्षति पर्जन्ये शीतवातातिदुःसहे ।। १६ ।।
वल्मीकशिखरं ध्वस्तं बभूवाशनिताडि तम् ।।
विशीर्णशिखरे तस्मिन्वल्मीकेऽशनिताडिते ।। १७ ।।
सेहेतिदुःसहां वृष्टिं वत्सनाभो विचिंतयन् ।।
महर्षौ वर्षधाराभिः पीड्यमाने दिवानि शम् ।। १८ ।।
धर्मस्य चेतसि कृपा संबभूवातिभूयसी ।।
स धर्मश्चिंतयामास वत्सनाभे तपस्यति ।। १९ ।।
पतत्यप्यतिवर्षेऽयं तपसो न निवर्तते ।।
अहोऽस्य वत्सनाभस्य धर्मैकायत्तचित्तता ।। 3.1.25.२० ।।
इति चिंतयतस्तस्य मातिरेवमजायत ।।
अहं वै माहिषं रूपं सुमहांतं मनोहरम् ।। २१ ।।
वर्षधारानिपातानां सोढारं कठिनत्वचम् ।।
स्वीकृत्य माहिषं रूपं स्थास्याम्युपरि योगिनः ।। २२ ।।
न हि बाधिष्यते वर्षं महावेगयुतं त्वपि ।।
धर्म एवं विनिश्चित्य धाराः पृष्ठेन धारयन् ।। २३ ।।
वत्सनाभोपरि तदा गात्रमाच्छाद्य तस्थिवान् ।।
ततः सप्तदिनांते तु तद्वै वर्षमुपारमत् ।। २४ ।।
ततो महिषरूपी स धर्मोऽतिकृपया युतः ।।
तद्वै वल्मीकमुत्सृज्य नातिदूरे ह्यवर्त्तत ।।२५।।
ततो निवृते वर्षे तु वत्सनाभो महामुनिः।।
निवृत्तस्तपसस्तू र्णं दिशः सर्वा व्यलोकयन्।।२६।।
स्थितोऽहं वृष्टिसंपाते कुर्वन्नद्य महत्तपः।।
पृथिवी सलिलाक्लिन्ना दृश्यते सर्वतोदिशम्।।२७।।
शिखराणि गिरीणां च वना न्युपवनानि च ।।
आश्रमाणि महर्षीणामाप्लुतानि जलैर्नवैः ।। २८ ।।
एवमादीनि सर्वाणि दृष्ट्वा प्रमुदितोऽभवत् ।।
चिंतयामास धर्मात्मा वत्सना भो महामुनिः ।। २९ ।।
अहमस्मिन्महावर्षे नूनं केनापि रक्षितः ।।
वर्षत्यस्मिन्महावर्षे जीवितं त्वन्यथा कुतः ।। 3.1.25.३० ।।
विचिंत्यैवं मुनिश्रेष्ठः सर्वत्र समलोकयत् ।।
ततोऽपश्यन्महाकायमदूरादग्रतः स्थितम् ।। ३१ ।।
महिषं नीलवर्णं च वत्सनाभस्तपोधनः ।।
महिषं तं समुद्दिश्य मनसा समचिं तयत् ।। ३२ ।।
तिर्यग्योनिप्वपि कथं दृश्यते धर्मशीलता ।।
यतो ह्यहं महावर्षान्महिषेणाभिरक्षितः ।। ३३ ।।
दीर्घमायुरमुष्यास्तु यन्मां रक्षितवा निह ।।
इत्यादि स विचिंत्यैवं तपसे पुनरुद्ययौ ।। ३४ ।।
तं पुनश्च तपस्यंतं दृष्ट्वा महिषरूपधृक् ।।
रोमांचावृतसर्वांगः प्रमोदमगमद्भृशम् ।। ।। ३५ ।।
वत्सनाभस्य हि मुनेः पुनश्चैव तपस्यतः ।।
मनः पूर्ववदेकाग्रं परब्रह्मणि नाभवत् ।। ३६ ।।
स विषण्णमना भूत्वा वत्सनाभो व्यचिंतयत् ।।
न भवेद्यदि नैर्मल्यं तदा स्याच्चंचलं मनः ।। ३७ ।।
मनश्च पापबाहुल्ये निर्मलं नैव जायते ।।
पापलेशोपि मे नास्ति कथं लोला यते मनः ।। ३८ ।।
अचिंतयद्दोषहेतुं वत्सनाभः पुनःपुनः ।।
स विचिंत्य विनिश्चित्य निनिंदात्मानमंजसा ।। ३९ ।।
धिङ्मामद्य दुरात्मान महो मूढोस्म्यहं भृशम् ।।
कृतघ्नता महादोषो मामद्य समुपागतः ।। 3.1.25.४० ।।
यदीदृशान्महावर्षात्त्रातारं महिषोत्तमम् ।।
तिष्ठाम्यपूजयन्नेव ततो मे भूत्कृतघ्नता ।। ४१ ।।
कृतघ्नता महान्दोषः कृतघ्ने नास्ति निष्कृतिः ।।
कृतघ्नस्य न वै लोकाः कृतघ्नस्य न बांधवाः ।। ४२ ।।
कृतघ्नतादोष वलान्मम चित्तं मलीमसम् ।।
कृतघ्ना नरकं यांति ये च विश्वस्तघातिनः ।। ४३ ।।
निष्कृतिं नैव पश्यामि कृतघ्नानां कथंचन ।।
ऋते प्राणपरित्यागाद्धर्मज्ञानां वचो यथा ।। ४४ ।।
पित्रोरभरणं कृत्वा ह्यदत्त्वा गुरुदक्षिणाम् ।।
कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः ।। ४५ ।।
तस्मात्प्राणान्परित्यज्य प्रायश्चित्तं चराम्यहम् ।।
इति निश्चित्य मनसा वत्सनाभो महामुनिः ।। ४६ ।।
तृणीकृत्य निजान्प्राणान्निःसंगेनांतरा त्मना ।।
मेरोः शिखरमारूढः प्रायश्चित्तचिकीर्षया ।। ४७ ।।
सुमेरुशिखरात्तस्मादियेष पतितुं मुनिः ।।
तस्मिन्पतितुमारब्धे मा त्वरिष्ठा इति ब्रुवन् ।।
त्यक्तमाहिषरूपः सन्धर्म एव न्यवारयत् ।। ४८ ।।
।। धर्म उवाच ।। ।।
वत्सनाभ महाप्राज्ञ जीवस्व बहुवत्सरान् ।। ४९ ।।
परितुष्टो ऽस्मि भद्रं ते देहत्यागचिकीर्षया ।।
न हि त्वद्धर्मकक्षायां लोके कश्चित्समोऽस्ति वै ।। 3.1.25.५० ।।
यद्यपि प्राणसंत्यागः कृतघ्ने निष्कृतिर्भवेत् ।।
तथापि धर्मशीलत्वात्तवान्यां निष्कृतिं वदे ।। ५१ ।।
शंखतीर्थाभिधं तीर्थमस्ति वै गंधमादने ।।
शांत्यर्थमस्य पापस्य तत्र स्नाहि समाहितः ।। ।। ५२ ।।
प्राप्स्यसे चित्तशुद्धिं त्वमतो विगतकल्मषः।।
ततश्च लब्धविज्ञानः प्राप्स्यसे शाश्वतं पदम् ।। ५३ ।।
अहं धर्मोस्मि योगीन्द्र सत्य मेव ब्रवीमि ते ।।
इति धर्मवचः श्रुत्वा वत्सनाभो महामुनिः ।। ५४ ।।
स्नातुकामः शंखतीर्थे गंधमादनमन्वगात् ।।
शंखतीर्थं च संप्राप्य तत्र सस्नौ महामुनिः ।। ५५ ।।
ततो विगतपापस्य मनो निर्मलतां गतम् ।।
ततोऽचिरेण कालेन ब्रह्मभूयमगान्मुनिः ।। ५६ ।।
एवं वः कथितं विप्राः शंखतीर्थस्य वैभवम्।।
यत्र हि स्नानमात्रेण कृतघ्नोऽपि विमुच्यते ।। ५७ ।।
मातृद्रोही पितृद्रोही गुरुद्रोही तथैव च ।।
अन्ये कृतघ्ननिवहा मुच्यंतेऽत्र निमज्जनात् ।। ५८ ।।
अतः कृतघ्नैर्मनुजैः सेवनीयमिदं सदा ।।
अहो तीर्थस्य माहात्म्यं यत्कृतघ्नोपि मुच्यते ।। ५९ ।।
अकृत्वा भरणं पित्रोरदत्त्वा गुरुदक्षिणाम्।।
कृतघ्नतां च संप्राप्य मरणांता हि निष्कृतिः ।। 3.1.25.६० ।।
इह तु स्नानमात्रेण कृतघ्नस्यापि निष्कृतिः ।।
कृतघ्नतापि तत्तीर्थे स्नानमात्राद्विनश्यति ।। ६१ ।।
अन्येषां तुच्छपापानां सर्वेषां किमुताधुना ।। ६२ ।।
अध्यायमेनं पठेद्भक्तियुक्तः कृतघ्नोपि मर्त्याः स पापाद्विमुक्तः ।।
विशुद्धांतरात्मा गतः सत्यलोकं समं ब्रह्मणा मोक्षमप्याशु गच्छेत्।। ६३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शंखतीर्थप्रशंसायां वत्सनाभकृतघ्नदोषशांतिवर्णनंनाम पञ्चविंशोऽध्यायः ।। २५ ।।