स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search


।। श्रीसूत उवाच ।। ।।
लक्ष्मीतीर्थे शुभे पुंसां सर्वैश्वर्यैककारणे ।।
स्नात्वा नरस्ततो गच्छेदग्नितीर्थं द्विजोत्तमाः ।। १ ।।
अग्नितीर्थं महापुण्यं महापातकनाशनम् ।।
तीर्थानामुत्तमं तीर्थं सर्वाभीष्टैकसाधनम् ।।
तत्र स्नायान्नरो भक्त्या स्वपापपरिशुद्धये ।। २ ।।
।। ऋषय ऊचुः ।। ।।
अग्निर्तार्थमितिख्यातिः कथं तस्य मुनीश्वर ।। ।। ३ ।।
कुत्रैदमग्नितीर्थं च कीदृशं तस्य वैभवम् ।।
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
सम्यक्पृष्टं हि युष्माभिः शृणुध्वं मुनिपुंगवाः ।।
पुरा हि राघवो हत्वा रावणं सपरिच्छदम् ।। ५ ।।
स्थापयित्वा तु लंकायां भर्तारं च विभीषणम् ।।
सीतासौमित्रिसंयुक्तो रामो दशरथात्मजः ।। ६ ।।
सिद्धचारणगंधवैर्देवैरप्सरसां गणैः ।।
स्तूयमानो मुनिगणैः सत्याशीस्तीर्थकौतुकी ।। ७ ।।
धारयँल्लीलया चापं रामोऽसह्यपराक्रमः ।।
आत्मनः शुद्धिमाधातुं जानकीं शोधितु तथा ।। ८ ।।
इंद्रादिदेववृन्दैश्च मुनिभिः पितृभिस्तथा ।।
विभीषणेन सहितः सर्वेरपि च वानरैः।।९।।
आययौ सेतुमार्गेण गंधमादनपर्वतम्।।
लक्ष्मीतीर्थतटे स्थित्वा जानकीशोधनाय सः।।3.1.22.१०।।
अग्निमावाहयामास देवर्षिपितृसन्निधौ।।
अथोत्तस्थौ महांभोधेर्लक्ष्मीतीर्थाद्विदूरतः।।११।।
पश्यत्सु सर्वलोकेषु लिहन्नंभांसि पावकः।।
आताम्रलोचनः पीतवासा धनुर्धरः ।। १२ ।।
सप्तभिश्चैव जिह्वाभिर्लेलिहानो दिशो दश ।।
दृष्ट्वा रघुपतिं शूरं लीलामानुषरूपिणम् ।। १३ ।।
जगाद वचनं रम्यं जानकीशुद्धिकारणात् ।।
रामराम महाबाहो राक्षसानां भयावह ।। १४ ।।
पातिव्रत्येन जानक्या रावणं हतवान्भवान् ।।
सत्यंसत्यं पुनः सत्यं नात्र कार्या विचारणा ।। १५ ।।
कमलेयं जगन्माता लीलामानुषविग्रहा ।।
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।। १६ ।।
विष्णोर्देहानुरूपां वै करोत्ये षात्मनस्तनुम् ।।
यदायदा जगत्स्वामिन्देवदेव जनार्द्दन ।। १७ ।।
अवतारान्करोषि त्वं तदेयं त्वत्सहायिनी ।।
यदा त्वं भार्गवो रामस्तदाभूद्धरणी त्वियम् ।। १८ ।।
अधुना जानकी जाता भवित्री रुक्मिणी ततः ।।
अन्येषु चावतारेषु विष्णोरेषा सहायिनी ।। १९ ।।
तस्मामद्वचनादेनां प्रति गृह्णीष्व राघव ।।
पावकस्य तु तद्वाक्यं श्रुत्वा देवा महर्षयः ।। 3.1.22.२० ।।
विद्याधराश्च गंधर्वा मानवाः पन्नगास्तथा ।।
अन्ये च भूतनिवहा रामं दश रथात्मजम् ।। २१ ।।
जानकीं मैथिलीं चैव प्रशशंसुः पुनःपुनः ।।
रामोऽग्निवचनात्सीतां प्रतिजग्राह निर्मलाम् ।। २२ ।।
एवं सीताविशुद्ध्यर्थं रामेणाक्लिष्टकर्मणा ।।
आवाहने कृते वह्निर्लक्ष्मीतीर्थाद्विदूरतः ।। २३ ।।
यतः प्रदेशादुत्तस्थावंबुधेर्द्विजसत्तमाः ।।
अग्नितीर्थं विजानीत तं प्रदेशमनुत्तमम् ।। २४ ।।
ततो विनिर्गमादग्नेरग्नितीर्थमितीर्यते ।।
अत्र स्नात्वा नरो भक्त्या वह्नेस्तीर्थे विमुक्तिदे ।। २५ ।।
उपोष्य वेदविदुषो ब्राह्मणा नपि भोजयेत् ।।
तेभ्यो वस्त्रं धनं भूमिं दद्यात्कन्यां च भूषिताम् ।। २६ ।।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ।।
अग्नितीर्थस्य कूलेस्मि न्नन्नदानं विशिष्यते ।। २७ ।।
अग्नितीर्थसमं तीर्थं न भूतं न भविष्यति ।।
दुष्पण्योपि महापापो यत्र स्नानात्पिशाचताम् ।। २८ ।।
परित्यज्य महा घोरां दिव्यं रूपमवाप्तवान् ।।
पशुमान्नाम वैश्योऽभूत्पुरा पाटलिपुत्रके ।। २९ ।।
स वै धर्मपरो नित्यं ब्राह्मणाराधने रतः ।।
कृषिं निरंतरं कुर्वन्गो रक्षां चैव सर्वदा ।। 3.1.22.३० ।।
पण्यवीथ्यां च विक्रीणन्कांचनादीनि धर्मतः ।।
पशुमन्नामधेयस्य वणिक्छ्रेष्ठस्य तस्य वै ।। ३१ ।।
बभूव भार्यात्रितयं पतिशुश्रूषणे रतम् ।।
ज्येष्ठा त्रीन्सुषुवे पुत्रान्वैश्यवंशविवर्द्धनान् ।। ३२ ।।
सुपण्यं पण्यवतं च चारुपण्यं तथैव च ।।
मध्यमा सुषुते पुत्रौ सुकोश बहुकोशकौ ।। ३३ ।।
तृतीयायां त्रयः पुत्रास्तस्य वैश्यस्य जज्ञिरे ।।
महापण्यो महाकोशो दुष्पण्य इति विश्रुताः ।। ३४ ।।
एवं पशुमतस्तस्य वैश्यस्य द्विजसत्तमाः ।।
बभूवुरष्टौ तनयास्तासु स्त्रीषु तिसृष्वपि।। ३५ ।।
ते सुपण्यमुखाः सर्वे पुत्रा ववृधिरे क्रमात ।।
धूलिकेलिं वितन्वन्तः पित रौ तोषयंति ते ।। ३६ ।।
पंचहायनतां प्राप्ताः क्रमात्ते वैश्यनंदनाः ।।
पशुमानपि वैश्येंद्रः सर्वानपि च तान्सुतान् ।। ३७ ।।
बाल्यमारभ्य सततं स्वकृत्येषु व्यशिक्षयत्।।
कृषिगोत्राणवाणिज्यकर्मसु क्रमशिक्षिताः ।।३८ ।।
सुपण्यमुख्याः सप्तैव पितृवाक्यमशृण्वत ।।
पशुमान्वक्ति यत्कार्यं तत्क्ष णान्निरवर्तयन्।।३९।।
नैपुण्यं प्रापुरत्यंतं ते सुवर्णक्रियास्वपि।।
दुष्पण्यस्त्वष्टमः पुत्रो बाल्यमारभ्य संततम्।।3.1.22.४०।।
दुर्मार्गनिरतो भूत्वा नाशृणोत्पितृभा षितम्।।
धूलिकेलिं समारभ्य दुर्मार्गनिरतोऽभवत्।।४१।।
स बाल एव सन्पुत्रो बालानन्यानबाधत।।
दुष्कर्मनिरतं दृष्ट्वा तं पिता पशुमांस्तथा।।४२।।
उपेक्षा मेवकृतवान्बालिशोऽयमितीरयन्।।
अथाष्टावपि वैश्यस्य प्रापुर्यौवनमात्मजाः।।४३।।
ततोऽयमष्टमः पुत्रो दुष्णयो बलिनां वरः ।।
गृहीत्वा पाणियु गलेबालान्नगरवर्तिनः ।। ४४ ।।
निचिक्षेप स कूपेषु सरित्सु च सरःस्वपि ।।
न कोऽपि तस्य जानाति दुश्चरित्रमिदं जनः ।। ४५ ।।
यावन्म्रियंते ते बालास्तावन्निक्षिप्तवाञ्जले ।।
तेषां मृतानां बालानां पितरो मातरस्तथा ।।४६।।
गवेषयंति तान्सर्वान्नगरेषु हि सर्वशः ।।
तान् दृष्ट्वा च मृतान्पुत्रान्के वलं प्रारुदञ्जनाः ।। ४७ ।।
जलेष्वथ शवान्दृष्ट्वा जनाश्चक्रुर्यथोचितम् ।।
एवं प्रतिदिनं बालान्दुष्पण्यो मारयन्पुरे ।। ४८ ।।
जनैरप्यपरिज्ञातश्चिरमेवमवर्तत ।।
म्रियमाणेषु बालेषु वैश्यपुत्रस्य कर्मणा ।। ४९ ।।
प्रजानां वृद्धिराहित्याच्छून्यप्रायमभूत्पुरम् ।।
ततः समेत्य पौरास्तद्वृत्तं राज्ञे न्यवेद यन्।। 3.1.22.५० ।।
श्रुत्वा नृपस्तद्वचनमाहूय ग्रामपालकान् ।।
कारणं बालमरणे चिंत्यतामिति सोऽन्वशात् ।। ५१ ।।
ग्रामपालास्तथेत्युक्त्वा तत्र तत्र व्यवस्थिताः ।।
सम्यग्गवेषयामासुः कारणं बालमारणे ।। ५२ ।।
ते वै गवेषंयतोऽपि नाविंदन्बालमारकम् ।।
ते पुनर्नृपमासाद्य भीता वाक्यमथाब्रु वन् ।। ५३ ।।
गवेषयंतोऽपि वयं तन्न विंदामहे नृप ।।
यो बालान्नगरे स्थित्वा सततं मारयत्यपि ।। ५४ ।।
पुनश्च नागराः सर्वे राजानं प्राप्य दुःखिताः ।।
पुनः प्रजानां मरणमब्रुवन्वाष्पसंकुलाः ।। ५५ ।।
राजा तत्कारणाज्ञानात्तूष्णीमास्ते विचिंत्य तु ।।
कदाचिद्वैश्यपुत्रोयं पंचभिर्बा लकैः सह ।।५६ ।।
तटाकांतिकमापेदे पंकजाहरणच्छलात् ।।
बलाद्गृहीत्वा तान्बालान्दुष्पण्यः क्रोशतस्तदा ।। ५७ ।।
क्रूरात्मा मज्जयामास कंठ दघ्ने सरोजले ।।
मृतान्मत्वा च ताञ्छीघ्रं दुष्पण्यः स्वगृहं ययौ ।। ५८ ।।
पञ्चानां पितरस्तेषां मार्गयंतः सुतान्पुरे ।।
तेषु वै मार्गमाणेषु पंच तेना तिबालकाः ।। ५९ ।।
निक्षिप्ता अपि तोयेषु नाम्रियंत यदृच्छया ।।
ते शनैः कूलमासाद्य पंचापि क्लिन्नमौलयः ।। 3.1.22.६० ।।
अशक्ता नगरं गंतुं बाल्यात्तत्रैव बभ्रमुः ।।
दूरादुच्चार्यमाणानि स्वनामानि स्वबंधुभिः ।। ६१ ।।
श्रुत्वा पंचापि ते बालाः प्रतिशब्दमकुर्वत ।।
ततस्तत्पितरः श्रुत्वा तत्रागत्यसरस्तटे ।। ६२ ।।
पुत्रान्दृष्ट्वा तु सप्राणान्प्रहर्षमतुलं गताः ।।
किमेतदिति पित्राद्यैः पृष्टास्ते बालकास्तदा ।। ६३ ।।
दुष्पण्यस्याथ दुष्कृत्यं बन्धुभ्यस्ते न्यवेदयन्।।
ततो विदितवृत्तांता राजानं प्राप्य नागराः ।। ६४ ।।
पंचभिः कथितं वृत्तं दुष्पण्यस्य न्यवेदयन् ।।
ततो राजा समाहूय पशुमंतं वणिग्वरम् ।।
पौरेष्वपि च शृण्वत्सु वाक्यमेतदभाषत ।। ६५ ।।
।। राजोवाच ।। ।।
दुष्पण्यनामा पशुमन्बहुप्रजमिदं पुरम् ।। ६६ ।।
शून्यप्रायं कृतं पश्य त्वत्पुत्रेण दुरात्मना ।।
इदानीं बालिशानेतान्मज्जयामास वै जले ।। ६७ ।।
यदृच्छया च सप्राणाः पुनरप्या गताः पुरम् ।।
अस्मिन्नित्थं गते कार्ये किं कर्तव्यं वदाधुना ।। ६८ ।।
अद्य त्वामेव पृच्छामि यतस्त्वं धर्मतत्परः ।।
इत्युक्तः पशुमान्राज्ञा धर्मज्ञो युक्तमब्रवीत् ।। ६९ ।।
।। पशुमानुवाच ।। ।।
पुरं निःशेषितं येन वधमेवायमर्हति ।।
न ह्यत्र विषये किंचित्प्रष्टव्यं विद्यते नृप ।। 3.1.22.७० ।।
न ह्ययं मम पुत्रः स्याच्छत्रुरेवातिपापकृत् ।।
न ह्यस्य निष्कृतिं पश्ये येन निःशेषितं पुरम् ।। ७१ ।।
वध्यतामेव दुष्टात्मा सत्यमेव ब्रवीम्यहम् ।।
श्रुत्वा पशुमतो वाक्यं नागराः सर्व एव हि ।। ७२ ।।
वणिग्वरं श्लाघमाना राजानमिदमूचिरे ।।
न वध्यतामयं दुष्टस्तूष्णीं निर्वास्यतां पुरात् ।। ७३ ।।
ततः स राजा दुष्पण्यं समाहूयेदमब्रवीत् ।।
अस्माद्देशाद्भवाञ्छीघ्रं दुष्टात्मन्गच्छ सांप्रतम् ।। ७४ ।।
यदि तिष्ठेस्त्वमत्रैव दण्डयेयं वधेन वै ।।
इति राज्ञा विनिर्भर्त्स्य दूतैर्निर्वासितः पुरात् ।। ७५ ।।
दुष्पण्यस्त्वथ तं देशं परित्यज्य भयान्वितः ।।
मुनिमंडलसंबाधं वनमेव ययौ तदा ।। ७६ ।।
तत्राप्येकं मुनिसुतं स तोयेषु न्यमज्जयत् ।।
केल्यर्थमागता दृष्ट्वा मुनिपुत्रा मृतं शिशुम् ।। ७७ ।।
तत्पित्रे कथयामासुरभ्येत्य भृशदुःखिताः ।।
तत उग्रश्रवाः श्रुत्वा तेभ्यः पुत्रं जले मृतम् ।। ७८ ।।
तपोमहिम्ना दुष्प ण्यचरितं तदमन्यत ।।
उग्रश्रवाः शशापैनं दुष्पण्यं वैश्यनंदनम् ।। ७९ ।।
।। उग्रश्रवा उवाच ।। ।।
मत्सुतं पयसि क्षिप्य यत्त्वं मारि तवानसि ।।
तवापि मरणं भूयाज्जल एव निमज्जनात् ।। 3.1.22.८० ।।
मृतश्च सुचिरं कालं पिशाचस्त्वं भविष्यसि ।।
इति शापे श्रुते सद्यो दुष्पण्यः खिन्नमानसः ।। ८१ ।।
तद्वै वनं परित्यज्य घोरमन्यद्वनं ययौ ।।
सिंहादिक्रूरसत्वाढ्यं तस्मिन्प्राप्ते वनांतरम् ।। ८२ ।।
पांसुवर्षं मह्द्वर्षन्वृक्षानामोटय न्मुहुः ।।
वज्रघातसमस्पर्शो ववौ झंझानिलो महान् ।। ८३ ।।
वेगेन गात्रं भिंदन्ती वृष्टिश्चासीत्सुदुःसहा ।।
तद्दृष्ट्वा स तु दुष्पण्यश्चिंतयन्भृशदुः खितः ।। ८४ ।।
मृतं शुष्कं महाकायं गजमेकमपश्यत ।।
महावातं महावर्षं तदा सोढुमशक्नुवन् ।। ८५ ।।
गजास्यविवरेणैव विवेशोदरगह्वरम् ।।
तस्मिन्प्रविष्टमात्रे तु वृष्टिरासीत्सुभूयसी ।। ८६ ।।
ततो वर्षजलैः सर्वैः प्रवाहः सुमहानभूत् ।।
स प्रवाहो वने तस्मिन्नदी काचिदजायत ।। ८७ ।।
अथ तैर्वर्षसलिलैः स गजः पूरितोदरः ।।
प्लवमानो महापूरे नीरंध्रः समजायत ।। ८८ ।।
ततो निर्विवरस्यास्य जलपूर्णोदरस्य च ।।
गजस्य जठरात्सोऽयं निर्गंतु न शशाक ह ।। ८९ ।।
ततश्च वृष्टितोयानां प्रवाहो भीमवेगवान् ।।
उदरस्थितदुष्पण्यं समुद्रं प्रापयद्गजम् ।। 3.1.22.९० ।।
दुष्पण्यः सलिले मग्नः क्षणात्प्राणैर्व्ययुज्यत ।।
मृत एव स दुष्पण्यः पिशाचत्वमवाप्तवान् ।। ९१ ।।
पीडितः क्षुत्पिपासाभ्यां दुर्गमं वनमाश्रितः ।।
घोरेषु घर्मकालेषु समाक्रोशन्भयानकम् ।। ९२ ।।
अतिष्ठद्गहनेऽरण्ये दुःखान्यनुभवन्बहु ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।। ९३ ।।
स पिशाचो महादुःखी न्यवसद्घोरकानने ।।
वनाद्वनांतरं धावन्देशाद्देशाद्देशांतरं तथा ।। ९४ ।।
सर्वत्रानुभवन्दुःखमाययौ दण्डकान्क्रमात् ।।
अगस्त्यादाश्रमात्पुण्यान्नातिदूरे स संचरन् ।। ९५ ।।
नदन्भैरवनादं च वाक्यमुच्चैरभाषत ।।
भोभोस्तपोधनाः सर्वे शृणुध्वं मामकं वचः ।। ९६ ।।
भवन्तो हि कृपावन्तः सर्वभूतहिते रताः ।।
कृपादृष्ट्यानुगृह्णीत मां दुःखैरतिपीडितम् ।। ९७ ।।
पुरा दुष्पण्यनामाहं वैश्यः पाटलिपुत्रके ।।
पुत्रः पशु मतश्चापि बहून्बालानमारयम् ।। ९८ ।।
ततो विवासितो राज्ञा तस्माद्देशाद्वनं गतः ।।
अमारयं जले पुत्रं तत्रोग्रश्रवसो मुनेः ।। ९९ ।।
स मुनिर्दत्त वाञ्छापं ममापि मरणं जले ।।
पिशाचतां च मे घोरां दत्तवान्दुःखभूयसीम् ।। 3.1.22.१०० ।।
कल्पकोटिसहस्राणि कल्पकोटिशतान्यपि ।।
पिशाच तानुभूतेयं शून्यकाननभूमिषु ।। १०१ ।।
नाहं सोढुं समर्थोऽस्मि पिपासां क्षुधमेव च ।।
रक्षध्वं कृपया यूयमतो मां बहुदुःखिनम् ।। १०२ ।।
यथा मुच्येय पैशाच्यात्तथा कुरुत तापसाः ।।
इति श्रुत्वा पिशाचस्य वचनं ते तपोधनाः ।।
लोपामुद्रासहचरमूचिरे कुम्भसंभवम् ।। ।। ।।
।। तापसा ऊचुः ।। ।।
पिशाचस्यास्य भगवन्ब्रूहि निष्कृतिमुत्तमाम् ।। ४ ।।
एवंविधानां पापानां त्वं समर्थो हि रक्षणे ।।
तेषामगस्त्यः श्रुतवान्कृपया परया युतः ।।
प्रियशिष्यं समाहूय सुतीक्ष्णं वाक्यमब्रवीत् ।। ५ ।।
।। अगस्त्य उवाच ।। ।।
सुतीक्ष्ण गच्छ त्वरितं पर्वतं गंधमादनम् ।। ६ ।।
तत्राग्नितीर्थं सुमहद्विद्यते पापनाशनम् ।।
पिशाचमोक्षणार्थाय तत्र स्नाहि महामते ।। ७ ।।
पिशाचार्थं त्वयि स्नाते तत्र संकल्पपूर्वकम् ।।
पिशाचभावमुन्मुच्य दिव्यतामेष यास्यति ।। ८ ।।
निष्कृतिं नास्य पश्यामि विना तत्तीर्थसेवनात ।।
अतः सुतीक्ष्णकृपया रक्षस्वैनं पिशाचकम् ।। ९ ।।
अगस्त्येनैवमुक्तस्तु सुतीक्ष्णो गन्धमादनम् ।।
प्राप्याग्नितीर्थे संकल्प्य पिशाचार्थं कृपानिधिः ।। 3.1.22.११० ।।
सस्नौ तत्र पिशाचार्थं नियमेन दिनत्रयम् ।।
रामनाथादिकं सेव्य तत्तीर्थं प्रतिगृह्य च ।। ११ ।।
स्वाश्रमं प्रति गत्वाथ सुतीक्ष्णो विप्रसत्तमः ।।
तत्तीर्थ प्रोक्षणात्सद्यः सवियुज्य पिशाचताम् ।। १२ ।।
वैभवात्तस्य तीर्थस्य सद्यो दिव्यत्वमाप्तवान् ।।
विमानवरमारूढो दिव्यस्त्रीपरिवारितः ।। १३ ।।
सुतीक्ष्णं चाप्यगस्त्यं च तथान्यांश्च तपोधनान् ।।
पुनःपुनर्नमस्कृत्य तांश्चामंत्र्य प्रहर्षितः ।। १४ ।।
स्वर्गमेवारुहत्तूर्णं देवैरपि स पूजितः ।।
अग्नितीर्थस्य माहात्म्याद्दुष्पण्यो वैश्यनंदनः ।। १५ ।।
पैशाच्यं शापजं त्यक्त्वा दिव्यतामित्थमाप्तवान् ।।
एवं वः कथितं विप्रा अग्नितीर्थस्य वैभवम् ।। १६ ।।
यः पठेदिममध्यायं शृणुयाद्वा सभक्तिकम् ।।
पिशाचमोक्षणाख्यानं मुच्यते सर्वपातकैः ।। १७ ।।
इह भुक्त्वा महाभोगान्परत्रापि सुखं लभेत् ।। ११९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्येऽग्नितीर्थप्रशंसायां दुष्पण्यपैशाच्यमोक्षणंनाम द्वाविंशोऽध्यायः ।। २२ ।।