स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५६

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ गुहेश्वरमनुत्तमम् ॥
गुहामध्ये गतं लिंगं सिद्धैः संपूजितं पुरा ॥ १ ॥
यंयं काममभिध्याय संपूजयति मानवः ॥
तंतं स लभते राजन्निष्कामो मोक्षमाप्नुयात् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे गुहेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥५६ ॥