स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे सरस्वत्या प्रतिष्ठितम् ॥
लिंगं महाप्रभावं तु सोमेशादग्निगोचरे ॥ १ ॥
भैरवेश्वररूपस्तु वाडवः कुम्भसंस्थितः ॥
यत्र देव्या समानीतः सागरस्य समीपतः ॥ २ ॥
विश्रामार्थं क्षणं मुक्त्वा देव्या लिंगं प्रतिष्ठितम् ॥
समभ्यर्च्य विधानेन गृहीत्वा वडवानलम्॥
समुद्रमध्ये चिक्षेप देवानां हितकाम्यया ॥ ३ ॥
ततो हृष्टतरा देवाः शंखदुन्दुभिनिःस्वनैः ॥
पूरयन्तोंऽबरं देवीमीडिरे पुष्पवृष्टिभिः ॥ ४ ॥
देवमातेति ते नाम कृत्वोचुस्तां तदा सुराः ॥
कृत्वा तु भैरवं कार्यमसाध्यं देवदानवैः ॥ ५ ॥
प्रतिष्ठितवती चात्र यस्माल्लिंगं महोदयम् ॥
त्वं सर्वसरितां श्रेष्ठा सर्वपातकनाशिनी ॥
तस्माद्भैरवनामेति लिंगं ख्यातिं गमिष्यति ॥ ६ ॥
इत्युक्ता तु तदा देवी भैरवेश्वरनैर्ऋते ॥
सागरस्य स्थिता रम्ये तत्र मूर्त्तिमती सती ॥ ७ ॥
पूजयेत्तां विधानेन तं तथा भैरवेश्वरम् ॥
महानवम्यां यत्नेन कृत्वा स्नानं विधानतः ॥
सरस्वतीं पूजयित्वा वाग्दोषान्मुच्यतेऽखिलात् ॥ ८ ॥
तस्या लिंगं तु संपूज्य संस्नाप्य पयसा पृथक् ॥
अघोरेणैव विधिवत्सम्यग्यात्राफलं लभेत् ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ ॥ ॥