स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
भगवन्भार्गवे वंशे यस्त्वौर्वः कथितस्त्वया ॥
वैवस्वतेंऽतरे चास्मिंस्तस्योत्पत्तिं वद प्रभो ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
ब्राह्मणा निहता ये तु क्षत्रियैर्वित्तकारणात् ॥
क्षयं नीतास्तु ते सर्वे सपुत्राश्च सगर्भतः ॥ २ ॥
म्रियमाणेषु सर्वेषु एका स्त्री समतिष्ठत ॥
तया तु रक्षितो गर्भ ऊर्वोर्देशे निधाय च ॥ ३ ॥
अन्यासां चैव नारीणां सर्वासामपि भामिनि ॥
गर्भानि पातितास्तैस्तु द्रव्यार्थं क्षत्रियाधमैः ॥ ४ ॥
कालांतरे ततो भित्त्वा कुरुदेशं महाप्रभः ॥
निर्गतोत्तंभितशिरा ज्वलदास्योतिभीषणः ॥ ५ ॥
तद्वैरं हृदि चाधाय ददाह वसुधातलम् ॥
उत्पाद्य वह्निं तपसा रौद्रमौर्वं जलाशनम् ॥ ६ ॥
तमिन्द्रः प्लावयामास वृष्ट्यौघैर्वरवर्णिनि ॥
न शशाक यदा नेतुं तदा स यतवाक्स्थितः ॥ ७ ॥
ततो देवाः सगंधर्वा ब्रह्माणं शरणं गताः ॥
अभवन्भयसंत्रस्ताः सर्वे प्रांजलयः स्थिताः ॥ ८ ॥
॥ देवा ऊचुः ॥ ॥
भगवन्भार्गवे वंशे जातः कोऽपि महाद्युतिः ॥
अग्निरूपेण सर्वं स ददाह वसुधातलम् ॥ ॥
कृतो यत्नः पुराऽस्माभिस्तद्विनाशाय सत्तम ॥
जलेन वृद्धिमायाति ततो नो भयमागतम् ॥ 7.1.35.१० ॥
विनष्टे भूतले देव अग्निष्टोमादिकाः क्रियाः॥
उच्छिद्यते ततोऽस्माकं नाशो नूनं भविष्यति ॥ ११ ॥
तस्माद्यत्नं कुरु विभो त्रैलोक्यहितकाम्यया ॥ १२ ॥
ततो ब्रह्मा सुरैः सार्द्धं भार्गवैश्च मह र्षिभिः ॥
आगत्य चाब्रवीदौर्वं किमर्थं दहसि क्षितिम् ॥ १३ ॥
विरामः क्रियतां सद्यो ममार्थं च द्विजोत्तम॥ १४ ॥
॥ और्व उवाच ॥ ॥
एष एव निवृत्तोऽहं तव वाक्येन सत्तम ॥
एष वह्निर्मयोत्सृष्टः स विभो तव शासनात् ॥ १५ ॥
यथा गच्छेत्समुद्रांतं तथा नीतिर्विधीय ताम् ॥ १६ ॥
समाहूय ततो देवीं स्वां सुतां पद्मसंभवः ॥
उवाच पुत्रि गच्छ त्वं गृहीत्वाग्निं महोदधिम् ॥
मद्वाक्यं नान्यथा कार्यं गच्छ शीघ्रं महाप्रभे ॥ १७ ॥
॥ सरस्वत्युवाच ॥ ॥
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
इत्युक्ते साधु साध्वीति ब्रह्मणा समुदाहृता ॥ ॥ १८ ॥
ततोभिमंत्रितं वह्निं क्षिप्त्वा कुंभे हिरण्मये ॥
प्रायच्छत सरस्वत्यै स्वयं ब्रह्मा पितामहः ॥
आशिषो विविधा दत्त्वा प्रोवाचेदं पुनः पुनः ॥ १९ ॥
गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन ॥
अरिष्टं व्रज पंथानं मा संतु परिपन्थिनः ॥ 7.1.35.२० ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता तदा तेन ब्रह्मणा च सरस्वती ॥
हिमवंतं गिरिं प्राप्य पिप्पलादाश्रमात्तदा ॥ २१ ॥
उद्भूता सा तदा देवी अधस्ताद्वृक्षमूलतः ॥
तत्कोटर कुटीकोटिप्रविष्टानां द्विजन्मनाम् ॥ २२ ॥
श्रूयन्ते वेदनिर्घोषा सरसारक्तचेतसाम् ॥
विष्णुरास्ते तत्र देवो देवानां प्रवरो गुरुः ॥ २३ ॥
तस्मात्स्थानात्ततो देवी प्रतीच्यभिमुखं ययौ ॥
अन्तर्द्धानेन सा प्राप्ता केदारं हिममध्यगम् ॥ २४ ॥
तत्संप्लाव्य गिरेः शृंगं केदारस्य पुरः स्थिता ॥
तेनाग्निना करस्थेन दह्यमाना सरस्वती ॥ २५ ॥
भूमिं विदार्य तस्याधः प्रविष्टा गजगामिनी ॥
तदंतर्द्धानमार्गेण प्रवृत्ता पश्चिमामुखी ॥ २६ ॥
पापभूमिमतिक्रम्य भूमिं भित्त्वा विनि(?)गता ॥
तत्र कूपः समभवन्नाम्ना गन्धर्वसंज्ञितः ॥ २७ ॥
तस्मात्कूपात्पुनर्दृश्या सा बभूव महानदी ॥
मतिः स्मृतिस्तथा प्रज्ञा मेधा बुद्धिर्गिराधरा ॥ २८ ॥
उपासिकाः सरस्वत्याः षडेताः प्रस्थितास्तदा ॥
पुनः प्रवृत्ता सा तस्मादुद्भेदात्पश्चिमामुखी ॥२९॥
भूतीश्वरं समायाता सिद्धो यत्र महामुनिः ॥
भूतीश्वरे समीपस्थं तत्र प्राप्ता मनोरमम् ॥7.1.35.३०॥
तस्य दक्षिणदिक्संस्थं रुद्रकोट्युपलक्षितम् ॥
श्रीकंठ देशं विख्यातं गता सर्वौषधीयुतम् ॥ ३१ ॥
तस्मात्पुण्यतमाद्देशाच्छ्रीकण्ठात्सा मनस्विनी ॥
संप्राप्ता वह्निना सार्द्धं कुरुक्षेत्रं सरस्वती ॥ ३२ ॥
पुनस्तस्मात्कुरुक्षेत्राद्विराटनगरस्य सा ॥
समुद्भूता समीपस्था अन्तर्द्धानान्मनोरमा ॥
गोपायनो गिरिर्यत्र तत्र सा पुनरुद्गता ॥ ३३ ॥
गोपायिता केशवेन यत्र ते पाण्डुनन्दनाः ॥
कुर्वंतः स्वानि कर्माणि न कैश्चिदुपलक्षिता ॥ ३४ ॥
तत्र कुंडे स्थिता देवी महापातकनाशिनी ॥
पुन र्गोपायनाद्देवी क्षेत्रं प्राप्तातिशोभनम् ॥ ३५ ॥
खर्जुरीवनमापन्ना नन्दानाम्नीति तत्र सा ॥
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात् ॥ ३६ ॥
मेरुपादं समासाद्य मार्कंडाश्रममागता ॥
यत्र मार्कंडकं तीर्थं मेरुपादे समाश्रितम् ॥ ३७ ॥
सरस्वती पुनस्तस्मादर्बुदारण्यमाश्रिता ॥
गता वटवनं रम्यं मार्कंडेयाश्रमाच्छुभात् ॥३८॥
तपस्तप्तं पुरा यत्र वसिष्ठेन समाश्रितात् ॥
तस्माद्वटवनात्पुण्यादुदुम्बरवनं गता ॥
मेरुपादे च तत्रैव तण्डिर्यत्रा तपत्तपः ॥ ३९ ॥
ऊदुंबरवनात्तस्मात्पुनर्देवी सरस्वती ॥
अन्तर्द्धानेन शिखरमन्यत्प्राप्ता महानदी ॥ 7.1.35.४० ॥
मेरुपादं तु सुमहत्सुरसिद्धनिषेवितम् ॥
भिन्नांजनचयाकारं गोलांगूलमिति स्मृतम् ॥ ४१ ॥
स्थानं मनोरमं तस्मादुद्गता सा सुमध्यमा ॥
वंशस्तंबात्सुविपुला प्रवृत्ता दक्षिणामुखी ॥ ४२ ॥
तत्रोद्गमवटस्तस्यास्तत्समाख्यो व्यवस्थितः ॥
ततः प्रभृति सा देवी सुप्रभं प्रकटा स्थिता ॥ ४३ ॥
अंतर्द्धानं परित्यज्य प्राणिनामनुकम्पया ॥
तस्यास्तटेषु रम्येषु संति तीर्थानि कोटिशः ॥ ४४ ॥
तेषु तीर्थेषु सर्वेषु धर्महेतुः सरस्वती ॥
रुद्रावतार मार्गेऽस्मिन्प्रवरं प्रथमं स्मृतम् ॥ ४५ ॥
तरत्तरंगनामाढ्यं काकतीर्थं महाप्रभम् ॥
तत्र तीर्थं पुनस्त्वन्यत्तीर्थं धारेश्वरं स्मृतम् ॥ ४६ ॥
धारेश्वरात्पुनश्चान्यद्गंगोद्भेदमिति स्मृतम् ॥
सारस्वतं तथा गांगं यत्रैकं संस्थितं जलम् ॥
तस्मादन्यत्परं तीर्थं पुंडरीकं ततः परम् ॥ ॥ ४७ ॥
मातृतीर्थं महापुण्यं सर्वातंकहरं परम् ॥
मातृतीर्थात्पुनस्तस्मान्नातिदूरे व्यवस्थितम् ॥ ४८ ॥
तीर्थं त्वनरकंनाम नरकार्ति भयापहम् ॥
ततस्तस्मादनरकात्तीर्थमन्यत्पुनः स्थितम् ॥ ४९ ॥
संगमेश्वरनामाढ्यं प्रसिद्धं तन्महीतले ॥
ततस्तस्मात्पुनश्चान्यत्तीर्थं कोटीश्वराह्वयम् ॥ 7.1.35.५० ॥
ततस्तस्मान्महादेवि शंभुकुण्डेश्वरं स्मृतम् ॥
तीर्थे सरस्वतीतीरे तस्मिन्सिद्धेश्वरं स्मृतम् ॥ ५१ ॥
सिद्धेश्वरात्पुनस्तस्मात्प्रवृत्ता पश्चिमामुखी ॥
पश्चिमं सागरं गंतुं सखीं स्मृत्वा रुरोद सा ॥५२॥
स्थित्वा पूर्वमुखा देवी हा गंगेति विना त्वया॥
एकाकिनी मंदभाग्या क्व गमिष्याम्यबांधवा ॥ ५३ ॥
तां विज्ञाय ततो गंगा रुदतीं शोककर्शिताम् ॥
शीघ्रं स्वर्गात्समायाता तीर्थानां कोटिभिः सह ॥ ५४ ॥
ततो दुःखं परित्यज्य तत्र प्राची सरस्वती ॥
सर्वदेवगुणैयुक्ता एवं तत्र स्थिताऽभवत् ॥ ५५ ॥
तत्र सिद्धवटंनाम तीर्थं पैतामहं स्मृतम् ॥
वटेश्वरस्य पुरतः सर्वपापक्षयंकरम् ॥ ५६ ॥
त्रिकालं यत्र रुद्रस्तु समागत्य व्यवस्थितः ॥
तन्महालयमित्युक्तं स्थानं तस्य महात्मनः ॥ ॥ ५७ ॥
पिंडतारकमित्येतत्प्राचीनं तीर्थमुत्तमम् ॥
कुम्भकुक्षिगिरिस्थं तत्पित्र्ये कर्मणि सिद्धिदम् ॥ ५८ ॥
प्राचीनेश्वरदेवस्य पुरोभूतं प्रति ष्ठितम्॥
प्राची सरस्वती यत्र तत्र किं मृग्यते परम् ॥ ५९ ॥
निवृत्ते भारते युद्धे तत्र तीर्थे किरीटिना ॥
प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरिता त्मना ॥ 7.1.35.६० ॥
तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात् ॥
नरतीर्थं ततः ख्यातं तत्र पापभयापहम् ॥ ६१ ॥
नरतीर्थादन्यतीर्थं पुंडरीकमिति स्मृतम् ॥
अर्जुनेन सहागत्य यत्र स्नातो हरिः प्रिये ॥ ६२ ॥
प्राचीनेशात्परं तीर्थं वालखिल्येश्वरं महत् ॥
तत्र तस्मान्महातीर्थात्तीर्थमन्यन्महो दयम्॥ ६३ ॥
गंगासमागमंनाम तीर्थमन्यन्महोदयम् ॥
तत्रालोक्य पुनर्देवीं दीनास्यां दीनमानसाम् ॥ ६४ ॥
ब्रह्मासृजत्सखीं तस्याः कपिलां विपुलेक्षणाम् ॥
हरिणीं हरिरप्याशु वज्रिणीमपि देवराट् ॥
न्यंकुं विनोदनार्थं च सरस्वत्या ददौ हरः ॥ ६५ ॥
ततः प्रहृष्टा सा देवी देवादेशात्सरस्वती ॥
तस्माद्गन्तुं समारब्धा प्राचीना पापनाशिनी ॥ ६६ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षिणां दिशमास्थाय पुनः पश्चान्मुखी तदा ॥
सरस्वती महादेवी वडवानलधारिणी ॥
तदुत्तरे तटे तीर्थमेकद्वारमिति स्मृतम् ॥ ६७ ॥
एकद्वारेण यत्सेना स्वर्गं प्राप्ता ततो वरात् ॥
तस्मात्तीर्थात्पुनश्चान्यत्तीर्थं यत्र गुहेश्वरः ॥ ६८ ॥
गुहेन स्थापितः पूर्वं यत्र देवो महेश्वरः ॥
गुहेश्वरान्नातिदूरे वटेश्वरमिति स्मृतम् ॥ ६९ ॥
दिव्यं सरस्वतीतीरे व्यासेनाराधितं पुरा ॥
आमर्द्दकी नदी यत्र सरस्वत्या सहैकताम् ॥ 7.1.35.७० ॥
संप्राप्ता तन्महातीर्थं फलदं सर्वदेहिनाम् ॥
आमर्दकी संगमं तं नापुण्यो वेद कश्चन ॥
संगमेश्वरनामेति तत्र लिंगं प्रतिष्ठितम् ॥ ७१ ॥
मुण्डीश्वरेति च तथा प्रसिद्धिमगमत्क्षितौ ॥
मुंडीश्वरसमीपस्थं सरस्वत्यां महोदयम् ॥ ७२ ॥
नाम्ना यत्प्राङ्मुखं तीर्थं सरस्वत्यास्तटे स्थितम् ॥
मांडव्येश्वरनाम्ना वै यत्रेशः संप्रतिष्ठितः ॥ ७३ ॥
पीलुकर्णिकसंज्ञं तु तीर्थमन्यत्पुनस्ततः ॥
सरस्वतीतीरगतमृषिणा सेवितं महत् ॥ ७४ ॥
तस्मादन्यत्सरस्वत्यां तीर्थं द्वारवती स्मृतम् ॥
तीर्थानां प्रवरं देवि यत्र संनिहितो हरिः ॥ ७५ ॥
ततस्तस्य समीपस्थं तीर्थं गोवत्ससंज्ञितम् ॥
यत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ॥ ७६ ॥
स्वयं भूलिंगरूपेण संस्थितस्तेजसां निधिः ॥
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ॥ ७७ ॥
स्वयंभूलिंगरूपेण रुद्रस्तत्र स्वयं स्थितः ॥
एकविंशति वारस्य भक्त्या पिंडस्य यत्फलम् ॥ ७८ ॥
गंगायां प्राप्यते पुंसां श्राद्धेनैकेन तत्र तत् ॥
ततस्तस्मान्महातीर्थाद्बालक्रीडनकी यथा ॥ ७९ ॥
सखीभिः सहिता तत्र क्रीडताऽसौ यथेच्छया ॥
आनुलोम्यविलोम्येन दक्षिणेनोत्तरेण च ॥ 7.1.35.८० ॥
रुल्लं प्राप्य पुनर्देवी समुद्भूता मनोरमा ॥
रुल्लं नाम पुरं यत्र सृष्टं देवेन शंभुना ॥ ८१ ॥
सह देवैस्तु पार्वत्या धारायंत्रप्रयोगकैः ॥
एकं वर्षसहस्रं तु शंभुना तत्र रुल्लितम् ॥ ८२ ॥
रुल्लं तत्र ह्रदं नाम सरस्वत्यां महोदयम् ॥
साक्षात्तत्र महादेव आनंदेश्वरसंज्ञितः ॥ ८३ ॥
पश्चिमेन स्थितं तत्र शम्भोरायतनस्य तु ॥
स मेरोर्दक्षिणे पादे नखस्तु परिकीर्तितः ॥ ८४ ॥
पश्यंति ये नराः सम्यक्तेऽपि पापविवर्जिताः ॥
अश्वमेधसहस्रस्य प्राप्नुवंति फलं ध्रुवम् ॥ ८५ ॥
परतस्तस्य कूष्मांडमुनेस्तत्राश्रमं महत् ॥
कूष्मांडेश्वरसंज्ञं तु तीर्थं त्रैलोक्यविश्रुतम् ॥ ८६ ॥
कोल्लादेवी स्थिता तत्र सर्वपापभयापहा ॥
अन्तर्द्धानेन तां कोल्लां संप्राप्ता सा महानदी ॥ ८७ ॥
ततोऽप्यंतर्हिता भूत्वा संप्राप्ता तु मनोरमम् ॥
सानुं मदनसंज्ञं तु क्षेत्रं सिद्धनिषेवितम् ॥ ८८ ॥
ततोऽप्यंतर्हिता भूत्वा पुनः प्राप्ता हिमाचलम् ॥
खादिरामोदनामानं सर्वर्तुकुसुमोज्ज्वलम् ॥ ८९ ॥
तत्रारुह्य विलोक्याथ ददर्श सुमनोरमम ॥
क्षारोदं पश्चिमाशास्थं घनवृंदमिवोन्नतम् ॥ 7.1.35.९० ॥
एवंविधं च तं तत्र सा विलोक्य महाप्रभा ॥
हर्षात्पंचानना भूत्वा देवकार्यार्थमुद्यता ॥ ९१ ॥
हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥
पंचस्रोताः स्थिता तत्र मुनिनोक्ता सरस्वती ॥ ९२ ॥
श्रमापनोदं कुर्वाणा मुनीनां यत्र संस्थिता ॥
तत्तत्पादकमित्युक्तं तीर्थं तीर्थार्थिनां नृणाम् ॥
सर्वेषां पातकानां च शोधनं तद्वरानने ॥ ९३ ॥
खादिरामोदमासाद्य तत्रस्था वीक्ष्य सागरम् ॥
गन्तुं प्रवृत्ता तं वह्निमादाय सुरसुन्दरि ॥ ९४ ॥
दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥
समुद्रस्य समीपस्था स्थिता हृष्टत नूरुहा ॥ ९५ ॥
ततः प्रविष्टा सा देवी अगाधे लवणांभसि ॥
वाडवं वह्निमादाय जलमध्ये व्यसर्जयत् ॥ ९६ ॥
ततस्तस्याः पुनः प्रीतः स्वय मेव हुताशनः ॥
तद्दृष्ट्वा दुष्करं कर्म वचनं चेदमब्रवीत् ॥ ९७ ॥
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥
तत्ते दास्याम्यहं प्रीतो यद्यपि स्यात्सु दुर्लभम् ॥ ९८ ॥
॥ ईश्वर उवाच ॥ ॥
प्रगृह्य वलयं हस्तादिदं वचनमब्रवीत् ॥
इदं मे वलयं वह्ने वक्त्रे धार्यं सदा त्वया ॥ ९९ ॥
अनेन शक्यते यावत्तावत्तोयं समाहर ॥
न त्वया शोषणीयोऽयं समुदः सरितांपतिः ॥ 7.1.35.१०० ॥
बाढमित्येव चोक्त्वा स प्रविष्टो निधिमंभसाम्॥
एवमेषा महादेवि प्रभासे तु सरस्वती ॥
गृहीत्वा वाडवं प्राप्ता तुष्ट्यर्थं च मनीषिणाम्॥ १०१ ॥
सा विश्रांता कुरुक्षेत्रे भद्रावर्ते च भामिनि ॥
पुष्करे श्रीकला देवी प्रभासे च महानदी ॥ १०२ ॥
देवमातेति सा तत्र संस्थिता लवणोदधौ ॥
अस्मिन्मन्वंतरे देवि आदौ त्रेतायुगे पुरा॥१०३॥
इति वृत्तं सरस्वत्या वाडवाग्नेस्तथाभवत् ॥
मन्वन्तरे व्यतीतेऽस्मिन्भविताऽन्यस्तु वाडवः ॥ १०४ ॥
ज्वालामुखेति नाम्ना वै रुद्रक्रोधाद्भविष्यति ॥
सरस्वत्यास्तथा नाम ख्यातिं ब्राह्मीति यास्यति ॥ १०५ ॥
सरस्वतीति वै लोके वर्तते नाम सांप्रतम् ॥
अतीतं नाम यत्तस्याः कमंडलुभवेति च ॥
रत्नाकरेति सामुद्रं सत्यं नामांतरं पुरा ॥ १०६ ॥
अस्मिन्मन्वंतरे देवि सागरेति प्रकीर्तितम् ॥
क्षांरोदेति भविष्यं तु नाम देवि प्रकीर्ति तम् ॥ १०७ ॥
एवं जानाति यः कश्चित्स तीर्थफलमश्नुते ॥
स्वर्गनिःश्रेणिसंभूता प्रभासे तु सरस्वती ॥ १०८ ॥
नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥
प्राची सरस्वती देवि सर्वत्र च सुदुर्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥ १०९ ॥
एवंप्रभावा सा देवी वडवानल धारिणी॥
अग्नितीर्थसमीपस्था स्थिता देवी सरस्वती ॥ 7.1.35.११० ॥
तामादौ पूजयेद्यस्तु स तीर्थफलमश्नुते ॥
सागरं यच्च तत्तीर्थं पापघ्नं पुण्य वर्द्धनम् ॥ १११ ॥
दर्शनादेव तस्यैव महाक्रतुफलं लभेत् ॥
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ॥ ११२ ॥
दृष्टमात्राः पुनंत्येते तस्मा त्पश्येद्धि भावितः ॥
अग्नितीर्थे नरः स्नात्वा पावके प्रक्षिपेत्ततः ॥
गुग्गुलं भारसहितं सोग्निलोके महीयते ॥ ११३ ॥
एवं संक्षेपतः प्रोक्तो ह्यग्नि तीर्थमहोदयः ॥
सरस्वत्याश्च माहात्म्यं सर्वपातकनाशनम् ॥११४॥
स्नात्वाग्नितीर्थे विधिवत्कंकणं प्रक्षिपेततः ॥
सुवर्णस्य महादेवि यथावित्तानु सारतः ॥ ११५ ॥
ततः सरस्वतीं पूज्य कपर्दिनमथार्चयेत् ॥ ११६ ॥
ततः केदारनामानं भीमेश्वरमतःपरम् ॥
भैरवेश्वरनामानं चण्डीश्वरमतः परम्॥ ११७ ॥
ततः सोमेश्वरं देवं पूजयेद्विधिवन्नरः ॥
नवग्रहेश्वरानिष्ट्वा रुद्रैकादशकं तथा ॥ ११८ ॥
ततः संपूजयेद्देवं ब्रह्माणं बालरूपिणम् ॥
एवं रौद्री समाख्याता यात्रा पातकनाशिनी॥११९॥
माहात्म्यमखिलं तस्या यो जानाति नरोत्तमः॥
निवसन्क्षेत्रमध्ये तु स तीर्थफलमश्नुते॥7.1.35.१२॥।
एवं कृत्वा ततो गच्छेन्महादेवीं सरस्वतीम्॥१२१॥
सरस्वतीवससमा कुतो गुणाः सरस्वतीवाससमा कुतो रतिः॥
सरस्वतीं प्राप्य दिवं गता नराः पुनः स्मरिष्यंति नदीं सरस्वतीम्॥ १२२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्र माहात्म्ये सरस्वत्यब्धिसमागमाग्नितीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः॥३५॥