स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
सरस्वती वरं प्राप्य वरिष्ठं वडवानलात् ॥
पुनस्तं सागरे क्षेप्तुमुद्यता सा मनस्विनी ॥ १ ॥
देवादेशात्प्रभासस्य पुरतः संस्थिता तदा ॥
समुद्रमाहूय तदा वाडवार्पणकांक्षिणी ॥ २ ॥
त्वमादिः सर्वदेवानां त्वं प्राणः प्राणिनां सदा ॥
देवादेशाद्गृहाण त्वमागत्यार्णव वाडवम् ॥ ३ ॥
एवं संचिंतितो देव्या यदासावंभसांपतिः ॥
तथा जलात्समुत्तीर्य समायातो महाद्युतिः ॥ ४ ॥
तं दृष्ट्वा विस्मिता देवी दिव्यं विष्णुमिवापरम् ॥
श्यामं कमलपत्राक्षं सागरं सुमनोरमम् ॥ ५ ॥
विचित्रमाल्याभरणं चित्रवस्त्रानुलेपनम्॥
आपगाभिः सरूपाभिः स्त्रीरूपाभिः समावृतम् ॥ ६ ॥
एवंविधं समालोक्य सा देवी ब्रह्मणः सुता ॥
सरस्वती जलनिधिमुवाचेदं शुचिस्मिता ॥ ७ ॥
त्वमग्रजः सर्वभवोद्भवानां त्वं जीवितं जन्मवतां नराणाम् ॥
तस्मात्सुराणां कुरु कार्यमिष्टं वह्निं गृहाण त्वमिहोपनीतम् ॥ ८ ॥
अत्रांतरे सोऽपि विमृश्य सर्वं कार्यं स्वबुद्ध्या किमिहोपपन्नम् ॥
कृत्वाऽनलस्य ग्रहणं मयेदं कार्यं सुराणां विहितं भवेच्च ॥ ९ ॥
एवं चिंतयतस्तस्य ग्रहणं रुचितं ततः ॥
वाडवाग्नेः समुद्रस्य सुरपीडाकृते यदा ॥ 7.1.34.१० ॥
तदा तेन पुरःस्थेन देवी साभिहिता भृशम् ॥
वाडवं संप्रयच्छैनं सुरशत्रुं सरस्वति ॥ ११ ॥
ततस्तया प्रणम्याशु पितामहपुरःसरान् ॥
चारणांश्चारुचित्रांग्या सरस्वत्या दिवि स्थितान् ॥ १२ ॥
पुनश्च करसंस्थोऽसौ वाडवोऽभिहितस्तया ॥
त्वमपो भक्षयस्वेति सुरैरुक्त इमा इति ॥ १३ ॥
एवमुक्त्वा समुद्रस्य तदा देव्या समर्प्पितः ॥
वाडवोऽग्निः सरस्वत्या सुरादेशान्महाबलः ॥ १४ ॥
तं समर्प्य ततस्तस्मि न्नदी भूत्वा सरस्वती ॥
प्रविष्टा सागरं देवी नारदेश्वरमार्गतः ॥ १५ ॥
दैत्यसूदनसांनिध्ये दत्त्वार्घ्यं लवणांभसि ॥
अर्घ्येश्वरं प्रतिष्ठाप्य दैत्यसूदन पश्चिमे ॥ १६ ॥
ततोऽब्धिं संप्रविष्टा सा पंचस्रोता महानदी ॥
स्वरूपेणैव सा पुण्या पुनः पुण्यतमाऽभवत् ॥ १७ ॥
प्रभासक्षेत्रसंपर्कात्समुद्रस्य च संगमात् ॥
सागरोऽपि समासाद्य सरस्वत्यास्तु वाडवम् ॥
निर्धनो वै धनं प्राप्याचिन्तयत्क्व क्षिपाम्यहम् ॥ १८ ॥
स तेनैव करस्थेन दीप्य मानेन सागरः ॥
वह्निना शिखरस्थेन भाति मेरुरिवापरः ॥ १९ ॥
तं तथाविधमालोक्य तत्र ये जलचारिणः ॥
यादोगणास्ते मुमुचुर्दाहभीता महास्वनम् ॥ 7.1.34.२० ॥
तं श्रुत्वा भैरवं शब्दमायातो दैत्यसूदनः ॥
आह यादोगणान्सर्वान्मा भैष्ट सुमहाबलाः ॥ २१ ॥
यस्मादनेन प्रथमा आपो भक्ष्या न तत्रगाः ॥
प्राणिनस्तन्न भेतव्यं भवद्भिस्तु ममाज्ञया ॥ २२ ॥
एवमुक्तस्तु कृष्णेन तूष्णींभूता जलेचराः ॥ २३ ॥
तूष्णींभूतेषु सर्वेषु जलजेषु जलेश्वरम् ॥
प्राहाच्युतः प्रक्षिप त्वमपां मध्ये तु वाडवम् ॥ २४ ॥
अगाधेम्भसि तेनासौ निक्षिप्तो वाडवोऽनलः ॥
वरुणेन पिबन्नास्ते तज्जलं सुमहाबलः ॥ २५ ॥
तस्योच्छ्वासानिलोद्धूतं तत्तोयं सागराद्बहिः ॥
निर्मर्यादेव युवतिरितश्चेतश्चधावति ॥ २६ ॥
अथ काले गते देवि शुष्यत्यंबु शनैःशनैः ॥
विदित्वा क्षीयमाणास्ता अपो जलनिधिस्ततः ॥ २७ ॥
आहैवं पुंडरीकाक्षमपः कुरु त्वमक्षयाः ॥
अन्यथा सर्वनाशेन जलानां मामिहाग्रतः ॥
भक्षयिष्यत्यसौ वह्निर्वाडवो हि जनार्द्दन ॥ २८ ॥
एतच्छ्रुत्वा वचस्तस्य समुद्रस्य तु भीषणम् ॥
कृतं तदक्षयं तोयमा त्मनो भयनाशनम् ॥ २९ ॥
ज्ञात्वा सुराः सर्वमिदं विचेष्टितं कृत्यानलस्यास्य निबंधनं तथा ॥
प्रलोभनं तोयपुरःसरा द्विषः पुपूजिरे केशवमत्र चारिणम्॥ 7.1.34.३० ॥
एवं सरस्वती प्राप्ता प्रभासं क्षेत्रमुत्तमम् ॥
ब्रह्मलोकान्महादेवि सर्वपापप्रणाशिनी ॥ ३१ ॥
सोमेशाद्दक्षिणाग्नेये सागरस्य समी पतः ॥
संस्थिता तु महादेवी वडवानलधारिणी ॥ ३२ ॥
स्नात्वाऽग्नितीर्थे पूर्वं तां पूजयेद्विधिना नरः ॥
दंपत्योर्भोजनं तत्र परिधानं सकञ्चु कम् ॥ ३३ ॥
दत्त्वा ततो महादेवं पूजयेच्च कपर्द्दिनम् ॥
इति वृत्तं पुरा देवि चाक्षुषस्यांतरेऽभवत् ॥ ३४ ॥
दधीच्यन्वयजातस्य वाडवस्य महा त्मनः ॥
अस्मिन्पुनर्महादेवि प्राप्ते वैवस्वतेंऽतरे ॥
और्वस्तु भार्गवे वंशे समुत्पन्नो महाद्विजः ॥ ३५॥
संक्षिप्तोऽसौ सरस्वत्या देवमात्रा महाप्रभः॥
तावत्स्थास्यत्यपां गर्भे यावन्मन्वतरावधिः ॥ ३६ ॥
इति ते कथितं देवि सरस्वत्याः समुद्भवम् ॥
श्रुतं पापहरं नृणां कीर्त्तिदं पुण्यवर्द्धनम्॥ ३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वत्यवतारमहिमवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ ॥ छ ॥