स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततस्तेषु प्रयातेषु देवदेवेष्वसौ मुनिः ॥
शतवर्षाणि तत्रस्थस्तपसे प्रस्थितो द्विजः ॥ १ ॥
आश्रमादुत्तरात्तस्माद्दिव्यां दिशमथो त्तराम्॥
सुभद्रापि महाभागा तस्य या परिचारिका ॥ २ ॥
अस्त्रादानेऽसमर्था सा ऋषिं प्रोवाच भामिनी ॥
नाहं नेतुं समर्थास्मि शस्त्राण्यालभ्य पाणिना ॥३॥
जलेन सह तद्वीर्यं पीतवान्स ऋषिस्ततः ॥
आत्मसंस्थानि सर्वाणि दिव्यान्यस्त्राण्यसौ मुनिः ॥
कारयित्वोत्तरामाशां जगाम तपसां निधिः ॥ ४ ॥
गंगाधरं शुक्लतनुं सर्प्पैराकीर्णविग्रहम् ॥
शिववत्सुखदं पुंसामपश्यत्स हिमाचलम् ॥ ५ ॥
तथाश्रमं ददर्शोच्चैरश्वत्थैः परिपालितम् ॥
चंद्रभागोपकंठस्थं समित्पुष्पकुशान्वितम् ॥ ६ ॥
स तस्मिन्मुनिशादूलो ह्यवसन्मुनिभिः सह ॥
सुभद्रया च संयुक्तश्चंद्रश्चंद्रिकया यथा ॥ ७ ॥
एकदा वसतस्तस्य सुभद्रा परिचारिका ॥
स्नानार्थं यातुमारब्धा चतुर्थेऽह्नि रजस्वला ॥ ८ ॥
व्रजन्त्या च तया दृष्टं कौपीनाच्छादनं पुनः ॥
परि त्यक्तं विदित्वैवं दैवयोगाद्गृहाण सा ॥ ९ ॥
परिधाय पुनः सा तु कौपीनं रेतसायुतम् ॥
एकांते स्नातुमारब्धा जलाभ्याशे यथासुखम् ॥ 7.1.32.१० ॥
ततो देवी यथाकाममकस्माद्वीक्षते हि सा ॥
स्वोदरस्थं समुत्पन्नं गर्भं गुरुभरालसा ॥ ११ ॥
शोचयित्वात्मनात्मानमगर्भाहमिहागता ॥
तत्केन मन्दभागिन्या ममैवं दूषणं कृतम्॥ १२ ॥
लज्जाभिभूता सा तत्र प्रविश्याश्वत्थवाटिकाम् ॥
तत्र तं सुषुवे गर्भमविज्ञाय कुतो ह्ययम् ॥ १३ ॥
पुनरेव हि सा स्नात्वा अविज्ञायात्मदुष्कृतम्॥
शापं दातुं समारब्धा गर्भकर्त्तरि दुःसहम् ॥ १४ ॥
ज्ञानाद्वा यदि वाज्ञानाद्येनेयं दूषणा कृता ॥
सोऽद्यैव पंचतां यातु यद्यहं स्यां पतिव्रता ॥ १५ ॥
यद्यहं मनसा वापि कामये नापरं पतिम् ॥
एतेन सत्यवाक्येन यातु जारः स्वयं क्षयम् ॥ ॥ १६ ॥
एवं शप्त्वा तु तं देवी ह्यज्ञात्वा गर्भकारिणम् ॥
पुनर्यातुं समारब्धा तद्दधीचिनिकेतनम् ॥ १७ ॥
तत्र चार्कप्रतीकाशं गर्भमुत्सृज्य सा तदा ॥
प्राप्ता तपोवनं रम्यं यत्रासौ मुनिपुंगवः ॥ १८ ॥
अत्रांतरे सर्वदेवा लोकपाला महाबलाः ॥
अस्त्राणां कारणार्थाय मुनेराश्रममागताः ॥ ॥ १९ ॥
उवाच तं मुनिं शक्रो न्यासो यस्तव सुव्रत ॥
दत्तोऽस्माभिस्तु शस्त्राणां तानि क्षिप्रं प्रयच्छ नः ॥ 7.1.32.२० ॥
ऋषिराह पुरा यत्र स्थापि तानि ममाश्रमे ॥
तत्रैव तानि तिष्ठंति न चानीतानि वासव ॥ २१ ॥
यत्तु तेषां बलं वीर्यं संग्रामे शत्रुसूदन ॥
तन्मया पीतमखिलं सह तोयेन वासव ॥ २२॥
एवं स्थिते मयाऽस्त्राणि यदि देयानि तेऽनघ ॥
ततोस्थीनि प्रयच्छामि तदाकाराणि सुव्रत ॥ २३ ॥
एवमुक्तः सहस्राक्षस्तमाह मुनिसत्तमम् ॥
नान्येषु तद्बलं रौद्रं यत्तु तेषु व्यवस्थितम् ॥ २४ ॥
यस्मात्तेषु विनिक्षिप्य सहस्रांशं स्वतेजसाम् ॥
अस्माकं दत्तवान्रुद्रो रक्षार्थं जगतां शिवः ॥ २५ ॥
तद्वयं तानि सर्वाणि गृहीत्वा च व्यवस्थिताः ॥
लोकस्य रक्षणार्थाय संज्ञेयं तेन लोकपाः ॥ २६ ॥
अमीषामपि शस्त्राणा मुत्तमं वज्रमिष्यते ॥
तद्धारणाद्यतोऽस्माकं देवराजत्वमिष्यते ॥ २७ ॥
वज्रादप्युत्तमं चक्रं यत्तद्विष्णुपरिग्रहे ॥
दैत्यदानवसंघानां तदायत्तो जयोऽभवत् ॥ २८ ॥
तस्मात्तानि यथास्माभिः प्राप्यते मुनिसत्तम ॥
तथा कुरुष्व संचिन्त्य कार्यं कार्यविदां वर ॥ २९ ॥
एवमुक्ते मुनिः प्राह तं शक्रं पुरतः स्थितम् ॥
तत्प्राप्त्यर्थमुपायं तु कथयामि तवापरम् ॥ 7.1.32.३० ॥
यान्येतानि ममास्थीनि यूयं तैस्तानि सर्वशः ॥
निर्मापयध्वं शस्त्राणि तदाकाराणि सर्वशः ॥ ३१ ॥
एतानि तत्समुत्थानि तेषामप्यधिकं बलम् ॥
साधयिष्यति भवतां संग्रामे यन्ममेहितम् ॥ ॥ ३२ ॥
तमुवाच ततः शक्रो दधीचिं तपसोनिधिम् ॥
प्राणहारं प्रकर्तुं ते नाहं शक्तो यमिच्छसि ॥ ३३ ॥
न चामृतस्य तेऽस्थीनि ग्रहीतुं शक्तिरस्ति नः ॥
तस्मात्सर्वं समालोच्य यत्कर्तव्यं तदुच्यताम् ॥ ३४ ॥
एवमुक्तो मुनिः प्राह एतदेव कलेवरम् ॥
त्यजामि स्वयमेवाहं देव कार्यार्थसिद्धये ॥ ३५ ॥
अध्रुवं सर्वदुःखानामाश्रयं सुजुगुप्सितम् ॥
यदा ह्येतत्तदा युक्तः परित्यागोऽस्य सांप्रतम् ॥ ३६ ॥
अस्य त्यागेन मे दुःखं संसारोत्थं न जायते ॥
यस्माज्जन्मांतरे जातो मृतोपि हि भवेत्पुनः ॥ ३७ ॥
भार्या भगिनी दुहिता स्वकर्मफलयोजनात् ॥
जाता तेनैव संसारे रतिकार्ये जुगुप्सिता ॥ ३८ ॥
यस्माच्च स्वयमेवैतद्वपुस्त्यजति वै ध्रुवम् ॥
तस्मादस्य परित्यागो वरः कार्योऽचिरात्स्वयम् ॥ ३९ ॥।
एवं पुरंदरस्याग्रे संकीर्त्य स महामुनिः ॥
दधीचिः प्राणसंहारं कृतवान्सत्वरं तदा ॥ 7.1.32.४० ॥
गतासुं तं विदित्वैवं विबुधास्तत्कलेवरम्॥ मां
सशोणितनिर्मुक्तं कथं कार्यं व्यचिंतयन् ॥ ४१ ॥
ततस्तदस्थिशुद्ध्यर्थमुवाचेदं सुरेश्वरः ॥
गौरीणां कर्कशा जिह्वा ता एतदुत्खिदंत्विति ॥ ४२ ॥
ततस्तैर्विबुधैर्नंदा यदा लोकेषु संस्थिता॥
ध्याता तदोपयाता सा सखीभिः परिवारिता॥४३॥
नंदा सुभद्रा सुरभिः सुशीला सुमनास्तथा॥
इति गोमातरः पंच गोलोकाच्च समागताः॥४४॥
ऊचुस्तान्विबुधान्सर्वानस्माभिर्यत्प्रयोजनम्॥
कर्त्तव्यं तत्करिष्यामः कथ्यतां सुविचारितम्॥ ४५॥
देवा ऊचुः॥
यदेतदृषिणा त्यक्तं स्वयमेव कलेवरम्॥
एतन्मांसादिनिर्मुक्तं क्रियतामस्थिपंजरम्॥४६॥
तत्कृत्वा गर्हितं कर्म देवादेशात्सुदारुणम् ॥
पुनः पितामहं द्रष्टुं गतास्ताः सुरसत्तमाः ॥ ४७ ॥
ततस्तु दारुणं कर्म यच्च ताभिरनुष्ठितम् ॥
पितामहस्य तत्सर्वं समाचख्युर्यथातथम् ॥ ४८ ॥
तच्छ्रुत्वा विबुधान्सर्वान्समाहूय पितामहः ॥
सर्वगात्रेष्वस्पृशत सुरभीः शुद्धिकाम्यया ॥ ४९ ॥
तास्तु तैर्विबुधैः स्पृष्टाः सुपूताः समवस्थिताः ॥
मुखमेकं परं तासां न स्पृष्टमशुचि स्मृतम् ॥ 7.1.32.५० ॥
अपवित्रं भवेत्तासां मुखमेकं जुगुप्सितम् ॥
शेषं शरीरं सर्वासां विशिष्टं तु सुरैः कृतम् ॥ ५१ ॥
सरस्वत्या तु ताः प्रोक्ता भवंत्यो ब्रह्मघातिकाः ॥
अन्यथा कारणात्कस्मान्न स्पृष्टममरैर्मुखम् ॥ ५२ ॥
ततस्ताभिस्तु सा प्रोक्ता देवी तत्र सरस्वती ॥
नैतत्ते वचनं युक्तं वक्तुमेवंविधं मुखम् ॥ ५३ ॥
अस्माकमेव हृदयमनेन वचसा त्वया ॥
निर्दग्धं येन तस्मात्त्वमचिराद्दाहमाप्स्यसि ॥ ५४ ॥
शापं दत्त्वा ततस्तस्याः सरस्वत्यास्तु तास्तदा ॥
गोलोकं गतवत्यस्तु सुरभ्यः सुरपूजिताः ॥ ५५ ॥
आहूय विश्वकर्माणं तक्षाणं सुरसत्तमाः ॥
अस्माकं कुरु शस्त्राणि तमाहुर्युद्धकारणात् ॥ ५६ ॥
एतद्वचनमाकर्ण्य तानि पूतैर्नवैर्दृढैः ॥।
अस्त्राणि कारयामास दर्धोचेरस्थिसंचयैः ॥ ५७ ॥
प्रमाणाकारयुक्तानि देवानां तानि संयुगे ॥
अजेयानि यथा चासंस्तथा चासौ विनिर्ममे ॥। ॥ ५८ ॥
वज्रमिंद्रस्य शक्तिं च वह्नेर्दंडं यमस्य च ॥
खड्गं तु निऋतेः पाशं सम्यक्चक्रे प्रचेतसः ॥५९॥
वायोर्ध्वजं कुबेरस्य गदां गुर्वीं च निर्ममे ॥
विश्वकर्मा तथा शूलमीशानस्य च निर्ममे ॥ 7.1.32.६० ॥
गृहीत्वैतानि वै देवाः शस्त्राण्यस्त्रबलं तदा ॥
विजेतुं च ततो दैत्यान्दानवांश्च गतास्तदा ॥ ॥। ६१ ॥
अत्रांतरे सुभद्रापि दधीचेरौर्ध्वदैहिकम् ॥
कृत्वा तैर्मुनिभिः सार्धमन्वेष्टुं सा गता सुतम् ॥ ६२ ॥
अश्वत्थवाटिकायां च तमपश्य न्मनोरमम् ॥
दृष्ट्वा रोदिति जीवंतं मुक्त्वा बाष्पमथाचिरम् ॥ ६३ ॥
अंबेत्याभाष्य तेनोक्ता मा रोदीस्त्वं यशस्विनि ॥
सर्वं पुराकृतस्यैतत्फलं तव ममापि हि ॥ ६४ ॥
यद्यथा यत्र येनेह कर्म जन्मांतरार्जितम् ॥
तदवश्यं हि भोक्तव्यं त्यज शोकमतोऽखिलम् ॥ ६५ ॥
मत्परित्यागलज्जा च न ते कार्येह सुन्दरि ॥
फलं पुराकृतस्यैतद्भोक्तव्यं तन्मयापि हि ॥ ६६ ॥
मातर्ममोपरि कुरु पुत्रस्नेहं यशस्विनि ॥
बालस्य हि परित्यागा न्माता दोषेण लिप्यते ॥ ५७ ॥
बालेनाभिहिता सा तु ध्यात्वा देवं जनार्द्दनम् ॥
कृतांजलिरुवाचेदं कथ्यतां मे सुनिश्चितम् ॥ ६८ ॥
न विजानाम्यहं तथ्यं कस्यायं वीर्यसंभवः ॥
तस्मात्कथय देवेश मम ते निश्चितं वचः ॥ ६९ ॥
आहोक्ते मातरं कृष्णः सुभद्रां वै जनार्द्दनः ॥
दधीचेस्तन यश्चायं भर्तुस्ते क्षेत्रसंभवः ॥ 7.1.32.७० ॥
तस्योत्पत्तिं विदित्वैवं सुभद्रा हृष्टमानसा ॥
बालमंके समारोप्य अरोदीदार्तया गिरा ॥ ७१ ॥
आह बालक उत्पन्नः शोकस्य वद कारणम्॥
अथोक्तः स्तन्यरहितं कथं ते जीवितं धृतम् ॥ ७२ ॥
यस्माच्चतुर्विधा सृष्टिर्जीवानां ब्रह्मणा कृता ॥
जरायुजांडजोद्भिज्ज स्वेदजाश्च तथा स्मृताः ॥ ७३ ॥
नरस्त्रीनपुंसकाख्याश्च जातिभेदा जरायुजाः ॥
चतुष्पदाश्च पशवो ग्राम्याश्चारण्यजास्तथा ॥ ७४ ॥
अण्डजाः पक्षिणः सर्वे मीनाः कूर्मसरीसृपाः ॥
स्वेदजा मत्कुणा यूका दंशाश्च मशकास्तथा ॥ ७५ ॥
उद्भिज्जाः स्थावराः प्रोक्तास्तृणगुल्मलता दयः ॥
अन्येऽप्येवं यथायोगमंतर्भूताः सहस्रशः ॥ ७६ ॥
अण्डजाः पक्षपातेन जीवंति शिशवो भुवि ॥
ऊष्मणा स्वेदजाः सर्वे उद्भिज्जाः सलिलेन हि ॥ ७७ ॥
समुदायेन भूतानां पञ्चानामुद्भिजं भुवि ॥
जरायुजाश्च स्तन्येन विना जीवितुमक्षमाः ॥ ७८ ॥
विना तेन कथं पुत्र त्वया प्राणा विधारिताः ॥
तां तथा जननीं प्राह स च बाष्पाविलेक्षणाम्॥७९॥
अश्वत्थफलनिर्यासपानात्प्राणा मया धृताः ॥
गौणं तदा तया तस्य पिप्पलादेति कल्पि तम् ॥7.1.32.८०।।
नाम तेन जगत्यस्मिन्नित्यं ख्यातं महात्मनः ॥
तत्रस्थैर्मुनिभिस्तस्य कृताः सर्वैर्यथाक्रमम् ॥८१॥
संस्काराः पिप्पलादस्य वेदोक्ता वेद पारगैः॥
षडंगोपांगसंयुक्ता वेदास्तेन समुद्धृताः ॥
तदाश्रमनिवासिभ्यो मुनिभ्यश्च सुपुष्कलाः ॥८२॥
पुनस्तत्र स्थितश्चासौ दृष्ट्वा मुनिकुमारकान्॥
स्वपित्रंकगतान्प्राह जननीं तां शुचिस्मिताम् ॥८३॥
पिता मे कुत्र भद्रं ते सुभद्रे कथय स्फुटम् ॥
तदेकांतस्थितो येन बालक्रीडां करोम्यहम् ॥ ॥ ८४ ॥
एवं सा जननी तेन यदा पृष्टा तपस्विनी ॥
तदा रोदितुमारब्धा नोत्तरं किञ्चिदब्रवीत् ॥ ८५ ॥
रुदन्तीं तां समालोक्य कुद्धोऽसौ मुनिदारकः ॥
किमसौ कुत्सितः कश्चिद्येन नाख्यासि तं मम ॥ ८६ ॥
इत्युक्ते सुतमाहैवं विबुधैस्ते पिता हतः ॥
कोपं त्यजस्व भद्रं ते दधीचिः कथितो मया ॥८७॥
कोपवह्निप्रदीप्तात्मा प्राह तां जननीं पुनः ॥
किमपकृतं सुराणां मत्पित्रा कथयस्व तत् ॥८८॥
॥ सुभद्रोवाच ॥ ॥
शस्त्राणां कारणान्मूढैर्हतोऽसौ मुनिपुंगवः ॥ प्र
यच्छन्नपि चान्यानि तदाकाराणि सुव्रत ॥ ८९ ॥
श्रुत्वैतद्वचनं सोऽपि मुनिरुग्रतपास्तदा ॥
पिता मे यो हतो देवैस्तेषां कृत्यां महाबलाम् ॥ 7.1.32.९० ॥
उत्थाप्य पातयिष्यामि मूर्द्ध्नि प्राणापहारिकाम् ॥
पितामहमहं मुक्त्वा नैव हन्यो भवेद्यदि ॥ ९१ ॥
अन्यान्प्रमथयिष्यामि कृत्याशस्त्रेण संगतान् ॥
शरणं यदि यास्यंति गीर्वाणा मद्भयातुराः ॥
तथापि पातयिष्यामि तेनैव सह संगतान् ॥ ९२ ॥
मत्वैवं तमृषिं कुद्धं सर्वे ते सुरसत्तमाः ॥
ब्रह्माणं शरणं प्राप्ता भयेन महताऽर्द्दिताः ॥ ९३ ॥
तांस्तस्य शरणं प्राप्ताञ्ज्ञात्वा देवः कृपान्वितः ॥।
तत्रैव गत्वा त्वरितं प्राह देवाञ्जनार्द्दनः ॥ ९४ ॥
भवतां रक्षणोपायश्चिंतितोऽत्र मयाऽधुना ॥
तेन तां मोहयिष्यामि कृत्यां हंतुमुपस्थिताम् ॥९५॥।
अत्रांतरे पिप्पलादः पितुर्वैरमनुस्मरन् ॥
हंतुं सुरान्व्यवसितः प्रविवेश हिमाचलम् ॥ ९६ ॥
श्रुत्वा तदप्रियं वाक्यं मातुर्वक्त्राद्विनिर्गतम् ॥
पिप्पलादः पुनर्यातस्तस्मात्स्थानाद्धिमाचलम् ॥ ९७ ॥
स्वर्गसोपानवत्पुंसां स्थलीभूतमिवांबरम् ॥
शेषस्याभोगसंकाशं प्राप्तोऽसौ तुहिनाच लम् ॥ ९८ ॥
प्रतिज्ञां कुरुते यत्र स्थितः स्थाणुरिवाचलः ॥
हंतारो ये मम पितुस्तान्हनिष्यामि चारणात् ॥ ९९ ॥
कृत्याशस्त्रेण सकलानमर त्वेन गर्वितान् ॥
तस्मिन्स्थितः प्रकुपितः शिवायतनसंसदि ॥ 7.1.32.१०० ॥
अत्रस्थः साधयिष्यामि तां कृत्यां चिंतयन्हृदि ॥
कृत्यां वा साधयिष्यामि यास्ये वा यमसादनम् ॥ १०१ ॥
निर्द्वन्द्वो निर्भयो भूत्वा निराहारो ह्यहर्निशम् ॥
सव्येन पाणिना सव्यं निर्मथ्योरुमहं पुनः ॥ १०२ ॥
तस्मा दुत्पादयिष्यामि महाकृत्यामिति स्थितः ॥
संवत्सरे तस्य गते ऊरुगात्राद्विनिःसृता ॥ १०३ ॥
वडवा गुरुभारार्त्ता वाडवेनान्विता तदा ॥
ऊरो र्निर्गत्य सा तस्मात्सुषुवे सुमहाबलम् ॥१०४॥
वडवा स्वोदराद्गर्भं ज्वालामालासमाकुलम् ॥
विमुच्य तमृषेस्तस्य पुरो गर्भं समुज्जवलम् ॥१०५॥
पुनर्गता क्वापि तदा न ज्ञाता मुनिना हि सा ॥
वडवानलो नरस्तस्याः स गर्भो निःसृतस्तदा ॥१०६॥
कल्पांत इव भूतानां कालाग्निरिव वर्चसा ॥
विद्युत्पुञ्जप्रतीकाशं तं दृष्ट्वा पुरतः स्थितम् ॥ १०७ ॥
स चापि विस्मितोऽत्यंतं किमेतदिति चिंतयन् ॥
ततस्तेन पुरःस्थेन वाडवेन च वह्निना ॥ ॥ १०८ ॥
ऋषिः प्रोक्तः पिप्पलादः साधितोऽहं त्वया बलात् ॥
इदानीं ते मया कार्यं कर्त्तव्यं यत्समाहितम् ॥ १०९ ॥
करिष्यामीह तत्सर्वम साध्यमपि साध्यताम् ॥
स्वोरुं निर्मथ्य जनितो येन संवत्सरादहम् ॥
तातोरुणा विहीनोऽपि करिष्ये त्वत्समीहितम् ॥ 7.1.32.११० ॥
तच्छ्रुत्वा वचनं तस्य मुनिः कोपसमन्वितः ॥
प्रोवाच विबुधान्सर्वान्मद्दत्तान्भक्षय स्वयम् ॥ १११ ॥
पितुर्वधात्क्रोधकृतावधानं मत्वा सुरा रौद्रमतीव घोरम् ॥
समेत्य सर्वे पुरुषं पुराणं समाश्रितास्ते सहसा सभार्याः ॥ ११२ ॥
स तान्समाश्वास्य सुरान्वरिष्ठं कोपानलं तत्र ययौ प्रहृष्टः ॥
दृष्ट्वा च तं वै रविपुंजकाशमुवाच विष्णुर्वचनं वरिष्ठम् ॥ ११३ ॥
अहं सुरेशान तवैव पार्श्वं विसर्जितो जातभयैश्च देवैः ॥
मत्तः शृणु त्वं वचनं हि पथ्यं यच्चारणानां भवतोऽपि पथ्यम् ॥ ११४ ॥
ज्ञातं बलं ते विबुधैरचिंत्यं विनाशनं चात्मवतां ह्यवश्यम् ॥
एवं स्थिते कुरु वाक्यं सुराणामेकैकमद्धि प्रतिवासरं त्वम् ॥ ११५ ॥
मुख्यानां कोटयस्त्रिंशत्सुराणां बलशालिनाम् ॥
कथं तु भक्षणं तेषां युगपत्त्वं करिष्यसि ॥ ११६ ॥
तस्मादेकैकशस्तेषां कर्त्तव्यं भक्षणं त्वया ॥
नैकेन भवता शक्या विधातुं भक्षणक्रिया ॥ ११७ ॥
तथा च पांडुरोगित्वं हुतभुक्प्राप्तवान्पुरा ॥
अतिभक्षणं न युक्तं तस्मात्कुरु मतिं मम ॥ ११८ ॥
तथा च युगपत्तेषु भक्षितेषु पुनस्त्वया ॥
प्रत्यहं भक्षणोपायश्चिंतितव्यो बुभुक्षया ॥ ११९ ॥
सफलैव प्रतिज्ञा ते नानृतं मुनिभाषितम् ॥
एवं कृतेऽपि ते सर्वं भविष्यति समीहितम् ॥7.1.32.१२॥॥
तत्करिष्यायहं सर्वमाहैवं स जनार्दनः ॥
एकैकशः स विबुधान्भक्षयिष्यति वाडवः ॥ १२१ ॥
ततः सुराः सुरेशानं तं विष्णुममितौजसम् ॥
प्रणम्याहुर्यथायुक्तं शोभनं भवता कृतम् ॥ १२२ ॥
भूयोऽद्य पुनरेवास्य दोषस्योपशमक्रियाम् ॥
कर्तुं त्वमेव शक्तोऽसि नान्यस्त्राता दिवौक साम्॥ १२३ ॥
ततः पीतांबरधरः शंखचक्रगदाधरः ॥
युष्मद्भयं हरिष्यामि तत्सुरानाह माधवः ॥ १२४ ॥
श्रुत्वैतद्विबुधाः सर्वे हर्षेणोत्फुल्ल लोचनाः ॥ १२५ ॥
ततस्तान्विबुधान्दृष्ट्वा प्रोवाच स तु वाडवः ॥
किमिदानीं मया कार्यं भवतां कथ्यतां हि तत् ॥ १२६ ॥
अत्रान्तरे विश्व तनुर्महौजा विमोहयंस्तं ज्वलनं स्वबुद्ध्या ॥
प्रोवाच पूर्वं विहिता यदापस्ता भक्षयस्वेति महानुभावः ॥ १२७ ॥
एतद्व्यवसितं विष्णोर्यः शृणोति समाहितः ॥
सोऽतिचारभयान्मुक्तो ज्ञानं मुक्तिमवाप्नुयात् ॥ १२८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलवंचनवृत्तान्तवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥ ॥