स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शंडतीर्थमनुत्तमम् ॥
सर्वपापोपशमनं सर्वकामफलप्रदम् ॥ १ ॥
तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥
पुरा पंचशिरा आसीद्ब्रह्मा लोकपितामहः ॥ २ ॥
शिरस्तस्य मया छिन्नं कस्मिंश्चित्कारणांतरे ॥
तत्र गंधवती जाता ब्रह्मणः सा च शोणितैः ॥ ३ ॥
तत्रोद्गता महातालास्तेन तालवनं स्मृतम् ॥
अथ करतले लग्नं कपालं ब्रह्मणो मम ॥ ४ ॥
शरीरं कृष्णतां यातं मम चैव वृषस्य च ॥
अथ तीर्थान्यनेकानि गतोहं पापशंकया ॥ ५ ॥
न क्वचिद्व्रजते पापं ततः प्रभासमागतः ॥
क्षेत्रे तत्र मया दृष्टा प्राची देवी सरस्वती ॥ ६ ॥
तत्र मे वृषभः स्नातुं प्रविष्टो जलमध्यतः ॥
तत्क्षणाच्छ्वेतता प्राप्तो मुक्तोहमपि हत्यया ॥ ७ ॥
करमध्ये च मे लग्नं कपालं पतितं तदा ॥
कपालमोचनश्चासौ लिंगरूपी स्थितोऽभवत् ॥ ८ ॥
तत्रापि यो ददेच्छ्राद्धं प्राचीदेव्यास्तु संनिधौ ॥
मातृकं पैतृकं चैव तृप्तं कुलशतं तथा ॥ ९ ॥
भवेच्च तस्य तृप्तिस्तु यावत्कल्पास्तु सप्ततिः ॥
मास आश्वयुजे देवि कृष्णपक्षे चतुर्दशी ॥
तत्र दद्यात्तु यः श्राद्धं दक्षिणामूर्तिमाश्रितः ॥ 7.1.273.१० ॥
यथावित्तोपचारेण सुपात्रे च यथाविधि ॥
यावद्युगसहस्रं तु तृप्ताः स्युस्ते पितामहाः ॥ ११ ॥
अन्नसुवर्णदानं च दधिकंबलमेव च ॥
तत्र देयं विधानेन सर्वपापोपशुद्धये ॥ १२ ॥
कृष्णरूपी वृषो देवि यदा श्वेतत्वमागतः ॥
शंडतीर्थमितिख्यातं तेन त्रैलोक्यपूजितम् ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंडतीर्थमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३ ॥ ॥ छ ॥