स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र जांबवती नदी ॥
पुरा जांबवतीनाम विष्णोर्या महिषीप्रिया ॥
अपृच्छदर्जुनं साध्वी वद वार्तां कुरू द्वह ॥ १ ॥
तस्यास्तद्वचनं श्रुत्वा अर्जुनो निश्वसन्मुहुः ॥
वाष्पगद्गदया वाचा इदं वचनमब्रवीत् ॥ २ ॥
परित्यक्ता वयं भद्रे यादवैः सुमहात्मभिः ॥९
बलदेवस्य वीरस्य सात्यकेश्च महात्मनः ॥ ३ ॥
अन्येषां यदुवीराणां पापकर्मातिनिर्घृणः ॥
जिजीविषुरिह प्राप्तो वासुदेवनिराकृतः ॥ ४ ॥
सा श्रुत्वा भर्तृनिधनमर्जुनाच्च महासती ॥
गंगातीरे समुत्पाद्य पावकं पावकप्रभा ॥
समुत्सृज्य महाकायं नदीभूत्वा विनिर्ययौ ॥ ५ ॥
सा गृहीत्वा सती भर्तुर्भस्म सर्वं चितेस्तथा ॥
प्रविष्टा सागरं देवि तदा जांबवती शुभा ॥६॥
या नारी तत्र देवेशि भक्त्या स्नानं समाचरेत् ॥
तदन्वयेपि काचित्स्त्री न वैधव्यमवाप्नुयात् ॥ ७ ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
नरो वा यदि वा नारी प्राप्नोति परमां गतिम् ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जांबवतीनदीमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्वि शततमोऽध्यायः ॥ २३१ ॥ ॥ छ ॥